SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अथ प्रशस्तिः जिनमतं जयताज्जितदुर्मतं सकलसस्वहितं सुमतिप्रदम् । नयचयाक्तिमिष्टविशिष्टवाग्भवभयातपवारणवारिदम् ॥ १ ॥ पाणिनिना यदयुक्तं लपितं कृत्वाष्टकं मोहात् । तदिह निरस्तं निखिलं श्रीगुरुभिः पूज्यपादाख्यैः ॥ २ ॥ जगन्नाथनाम्ना द्वितीयाभिधानात्सतां वादिराजार्थमोपाख्यसाधोः । जनन्याः सुतेनापि वीराभिधायाः दयादानपूजादिसंशुद्धमूर्तेः ॥ ३ ॥ जैनेन्द्रशब्दशास्त्रं स्वोपक्रमतो नरेन्द्रकीर्तिसुगुरोः । अन्ते लिखितं पठितं पाठितमपि भारतीभक्त्या ॥४॥ जीवोsस्वगुरुत्वमेव मुशनाः काव्याह्वयं भास्करों मित्रत्वं च विचक्षणत्वमगमन्निन्दुः सुधाधामताम् । गीर्वाणत्वमनन्ततां सुरगणाः शेषो वृषा जिष्णुतां जैनेद्र समधीत्य शब्दविलयं श्रीपूज्यपादोदितम् ||५|| पूज्यपादापराख्याय नमः श्रीदेवनन्दिने । व्यधायि पञ्चकं येन सूत्रं जैनेन्द्रमूलकम् ॥ ६ ॥ Acharya Shri Kailassagarsuri Gyanmandir महावृत्तिकृते तस्मै नमोऽस्त्वभयनन्दिने । यद्वाक्यादभया धीराः शब्द विद्यासु सन्ततम् ॥ ७॥ स्रष्टा दृष्ट्वा सुसृष्टिं स्तुतिमकृत मुखैश्चाथ जैनेन्द्रशाब्दों जिह्वाभूयस्त्वभावादुरगपतिरतोऽध्येति नाव्येति पारम् । tri दुःखावलीढां निजमदवशगाः प्रापुरिन्द्रादयोऽपि कृत्वेमां देवनन्दी विविधसुरगणैः पूज्यपादाह्वयोऽभूत् ॥८॥ प्रमाणमकलङ्कीयं पूज्यपादीयलक्षणम् । धानञ्जयं च सत्काव्यं रत्नत्रयमुदाहृतम् ॥ ६ ॥ כי इति प्रशस्तिः सम्पूर्णा शुभम्भवतु For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy