Book Title: Jainendra Mahavrutti
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, Shambhunath Tripathi, Mahadev Chaturvedi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 474
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१४ जैनेन्द्र-व्याकरणम् [अ० ५ पा० ४ सू० ६७-१०१ [२१२।३] इति कः। सुरायां वाचि पिचतेः “सुराशीध्वोः पिबः" [२।२।१२] इति टक् । पुनर्णग्रहण नित्यार्थम् । कुमति ॥१४॥७॥ कवर्गवति च द्यौ मृदन्तनुविभक्तीनकारस्य णत्वं भवति । इक्षुयुगिणौ । करयुगिणी । इक्षुयुगेण । अनेकाध्वर्थं वचनम् । काविति सिद्ध कुमतीति मत्वर्थीयः किम् ? अकवर्गादावपि घौ प्रापणार्थम् । अन्यथा “येनालि विधि" न्यायेन कवर्गादावेव स्यात् । गेरसेऽपि विकृतेः ॥२८॥ गेरुत्तरस्य सामर्थ्याद्धोर्विकारस्यासेऽपि णो भवति । असे । प्रणमति । परिणमति । से-प्रणायकः । परिणायकः । विक्रियते इति विकृतिः नकारः। अवयवविकारे समुदायस्य धोर्विकारो यथैकदेशाऽलङ्कारेऽलङ्कतो देवदत्त इति । ततो विकृातें प्रति क्रियायोगिस्वात् प्रादीनां गित्वम् । गेरिति किम् ? मुनिर्नयति स्वर्गम् । प्रगता नायका अस्माद्ग्रामात् प्रनायको ग्रामः । अपिग्रहणं किम् ? से पूर्वपदात् खाविति नियमात् णत्वं न स्यात् । ननु णत्वस्यासिद्धत्वान्न नियमप्राप्तिः। इदमेवापिग्रहणं ज्ञापकम् । "न योगे योगोऽसिद्धोऽपि तु प्रकरणे प्रकरणमसिद्ध' भवति"। तेन निष्कृतं दुष्कृतमित्यत्र “इणः षः" [५।१।२७] इति पत्वे क्रियमाणे "इडुदुङः" [पा४।२८] इति सत्वं नासिद्धम् । विकृतेरिति किम् ? प्रनृत्यति । प्रनर्तकः । अयमोपदेशिको नकारो न तु "णो नः" [४३३५४] इत्यनेन विकृतः । "नृतिनन्दिनक्किनानाथवजम्" इति वचनात् । नशेः शः ॥ ६६॥ नशेः शकारान्तस्य णत्वं भवति । प्रणश्यति । परिणश्यति । प्रणाशकः । परिणाशकः । श इति किम् ? प्रनष्टः । प्रनयति । शकारत्यैवेति नियमात् णत्वाभावः । नशेरेव शकारान्तस्येति कस्मान्न नियमः। अन्यस्य शकारान्तस्यासम्भवात् । सम्भवे वा णत्वोपदेशादेव व्यावृत्तिः । णत्वोपदेशो हि "णो नः" [४।३।५४] इति विकृतिद्वारेण णत्वार्थः । नेर्गदनदपतपदभुमास्यतिन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु ॥शा००॥ गिस्थानिमित्तात परस्य गे कारस्य णत्वं भवत्यसेऽपि गदादिष परतः ।। परिणिगदति । सेऽपि । प्रणिगदिता | परिणिगदिता । प्रणिनदति । प्ररिणिनदति । प्रणिनदिता। परिणिनदिता । प्रणिपतति । प्रणिपतिता । प्रणिपद्यते । प्रणिपत्ता | भुसज्ञे-प्रणिददाति । प्रणिदाता । प्रणिदधाति । प्रणिधाता। मा इति माङमेडोहणम् । प्रणिमिमीते। प्रणिमाता। मेङः कृतात्वस्यैव ग्रहणम् । प्रगिमास्यते। प्रणिमाता । "मी हिंसायाम्" । “दुमि प्रक्षेपणे" इत्यनयोः "मिम्मीग्दीडां प्ये च" [१३१४३] इति कृतात्वयोः “मा माने" इत्यस्य च न ग्रहणम् । अस्य शेषत्वेनोत्तरत्र वेति व्यवस्थितविभाषाऽत: सर्वमिदं लभ्यते । प्रणिष्यति । प्रणिपाता | प्रणिहन्ति । प्रणिहन्ता । प्रणियाति । प्रणियाता । प्रणिवाति । प्रणिवाता। प्रणिद्राति । प्रणिद्राता । प्रणिप्साति । प्रणिप्साता। प्रणिवपति । प्रणिवप्ता। प्रणिवहति । प्रणिवोढा । प्रणिशाम्यति । प्रणिशमिता । प्रणिचिनोति । प्रणिचेता । प्रणिदेग्धि । प्रणिदेग्धा । गदादिष्वीम्निर्देशादनन्तरत्य कार्यमित्यटा व्यवाये कथं णत्वम् । प्रण्यगदत् । परिण्यगददिति । अडागमश्च गोर्विहितो विकरणान्तश्च गुरशक्यो गदग्रहणेन ग्रहीतुमिति । नैष दोषः । अड्व्यवाये इति मण्डूकप्लुत्या सम्बध्यते । तिपा निर्देशा यकुबन्तनिवृत्त्याः । घाऽषान्तेऽकखादौ ॥५।४।१०१॥ गेरिति वर्तते । अषकारान्ते अककारखकारादौ धौ परतः गिस्थानिमित्ताद्वा नेो भवति । प्रणिपचति । प्रनिपचति । परिणिभिनत्ति । परिनिभिनत्ति । अषान्त इति किम् ? प्रनिपेष्टा । अन्तग्रहणामुपदेशार्थमिहापि न भवति । प्रनिपेक्ष्यति । प्रच्छेश्छकारान्तत्वाद भवति । प्रतिप्रप्टा। अकखादाविति किम् १ प्रनिकरोति । प्रनिखादति । अचापि अकखोरिति सिद्धे आदिग्रहणमुपदेशार्थम् । प्रनिचकार । प्रनिचखाद । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568