Book Title: Jainendra Mahavrutti
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, Shambhunath Tripathi, Mahadev Chaturvedi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 460
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०० जैनेन्द्र-व्याकरणम् [अ० ५ पा० ३ सू० १३-१०१ हैप्रयोगे हैहयोः ॥२६॥ है हे इत्येतयोः प्रयोगे हैहयोः पो भवति दूराद्धृते । है३ जिनदत्त । जिनदत्त है३ । हे३ जिनदत्त । जिनदत्त हे३ । पुनहयोहणं किम् ? अन्यस्य मा भूत् । हैहयोरेव यथा स्यात् । प्रथमं हैहेग्रहणम् अनन्तयोरपि यथा स्यात् । अन्यथा वाक्यस्य टेः प्राप्नोति । सूत्रारम्भस्तु अनृतोऽनन्तस्येत्यादिबाधकः सम्भाव्येत । प्रयोगग्रहणादनर्थकयोरपि भवति । श्रागच्छ भो माणव हे३ देवदत्त इति । अनृतोऽनन्तस्याप्येकैकस्य रोः ॥२३॥४॥ ऋकारवर्जितस्य रोरनन्त्यस्यापि अन्त्यस्यापि टेः एकैकस्य पो भवति । हे३देवदत्त । हे देवदत्त३ । अन्त इति किम् ? कृष्णमित्रा३ । रोरिति किम् ? देवदत्तस्य वकारात्परत्र माभूत् । एकैकग्रहणं पर्यायार्थम् । ओमभ्यादाने ॥५॥३॥६५॥ अभ्यादानं प्रारम्भः । श्रोमित्येष शब्दः अभ्यादाने पो भवति । श्रो३. मृषभं पवित्रम् । अो३मृषभमृषभगामिनं प्रणमत । अभ्यादान इति किम् ? यो भो ददाति । अयमोमशब्दः प्रतिश्रवणे वर्तते । वा हेः पृटप्रत्युक्तौ ॥३६॥ पृष्टप्रत्युक्तौ हेः पो भवति वा। अकार्षीः कटं देवदत्त ! इति पृष्टः अकार्ष ही३ । अकार्ष हि । अलावीः केदारं देवदत्त ! अलाविषं ही३। अलाविषं हि । हेरिति किम् ? करोमि ननु । पृष्टप्रत्युक्ताविति किम् ? देवदत्तः कटं करिष्यति । प्रत्युक्ताविति किम् ? देवदत्त कटमकाहिं । वेति योगविभागः । तेन सर्व एव पविधिः साहसमनिछता वा प्रयोक्तव्यः । विचार्य पूर्वम् ॥५॥३॥६७॥ विचार्य पूर्व पविधिमापद्यते । अहिर्नु ३ रज्जुर्नु । स्थाणुर्नु ३ पुरुषो नु । द्वयोर्बहूनां वा वाक्यानां पूर्वस्य टेः पो भवति । प्रतिश्रवणे ॥५॥३८॥ प्रतिश्रवणे च वाक्यस्य टेः पो भवति । प्रतिश्रवणं श्रवणाभिमुख्यं प्रतिज्ञानम् अभ्युपगमश्चाविशेषेण गृह्यते । श्रवणाभिमुख्य देवदत्त भो किमात्थ३ इति । प्रतिज्ञाने कृतकः शब्दो भोः । एवं भवितुमर्हती३ । अभ्युपगमे भोज्यं मे देहि भोः । हन्त ते दास्यामी३ । पजिते ॥३॥पूजिते च वाक्यस्य टेः पो भवति । शोभनः खल्वसि अग्निभूता३३ । पटाउ। कावेपि च कृते "एचोऽदेः" [५।३।१०४] इत्यादिना श्राकार इदुतौ च । अथवा शोभनः खल्वसि देवदत्ता३ इत्युदाहरणम् । चिदित्युपमार्थे ॥५॥३१००॥ चिदित्येतस्मिन्नुपमार्थ प्रयुज्यमाने वाक्यस्य टेः पो भवति । अग्निश्चिद्भाया३त् । राजाचिद्व्या३त् । चिदिति किम् ? राजेव ब्रूयात् । अग्निर्माणवको भायात् । इवशब्दस्य प्रयोगाप्रयोगयोरुपमार्थोऽस्ति । न तु चिच्छब्दः । उपमार्थ इति किम् ? कथञ्चिद्ववीपि । कृच्छेत्र चिन्छब्दः । इतिकरणं किम् ? चिच्छन्दस्य मा भूत् । वाक्यस्य टेर्यथा स्यात् । कोपाऽसूयासम्मती म्रौ वा ॥१३॥१०१॥ कोपा असूया सम्मति इत्येतेष्वर्थेषु नौ परतः पो भवति वा । कोपे-माणवका३ । माणवक । अविनीतका३ । अविनीतक । इदानी ज्ञास्यसि जाल्मा३ । असूयायाम्-माणवका३ | माणवक । अभिरूपका३ । अभिरूपक । शोभनः खल्वसि माणवक । कुत्सनमसूयान्तभूतं तत्कार्यत्यात् । शाक्तीका३ । शाक्तीक । याप्टीका३ । याष्टीक रिक्ता ते शक्तिः। "वाक्यादे:ध्यस्य" [५।३।६] इत्यादिना द्वित्वम् । वेति व्यवस्थितविभाषा विज्ञानात् कोपकार्य भर्सने च पर्यायेण पः । चौर । चौरा३ । वृपल । वृषला३ । चौरा३ । चौर । वृषला३ । वृषल । घातयिष्यामि त्वाम् । बन्ध यिष्यामि त्वाम् । भर्सनेच मिङः साकाङ्क्षस्याङ्गयुक्तस्य टेः पविधिरद्वित्वं च । अङ्ग कुजा३ अङ्ग व्याहा३ इदानीं ज्ञास्यसि जाल्म। मिङ इति किम् ? अङ्ग देवदत्त । साकाइतस्येति किम ? अङ्ग पच । नैतत्पर माकाङ्क्षति | भसैन इत्येव । अङ्ग पठ पुस्तकं ते दास्यामि । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568