________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४००
जैनेन्द्र-व्याकरणम् [अ० ५ पा० ३ सू० १३-१०१ हैप्रयोगे हैहयोः ॥२६॥ है हे इत्येतयोः प्रयोगे हैहयोः पो भवति दूराद्धृते । है३ जिनदत्त । जिनदत्त है३ । हे३ जिनदत्त । जिनदत्त हे३ । पुनहयोहणं किम् ? अन्यस्य मा भूत् । हैहयोरेव यथा स्यात् । प्रथमं हैहेग्रहणम् अनन्तयोरपि यथा स्यात् । अन्यथा वाक्यस्य टेः प्राप्नोति । सूत्रारम्भस्तु अनृतोऽनन्तस्येत्यादिबाधकः सम्भाव्येत । प्रयोगग्रहणादनर्थकयोरपि भवति । श्रागच्छ भो माणव हे३ देवदत्त इति ।
अनृतोऽनन्तस्याप्येकैकस्य रोः ॥२३॥४॥ ऋकारवर्जितस्य रोरनन्त्यस्यापि अन्त्यस्यापि टेः एकैकस्य पो भवति । हे३देवदत्त । हे देवदत्त३ । अन्त इति किम् ? कृष्णमित्रा३ । रोरिति किम् ? देवदत्तस्य वकारात्परत्र माभूत् । एकैकग्रहणं पर्यायार्थम् ।
ओमभ्यादाने ॥५॥३॥६५॥ अभ्यादानं प्रारम्भः । श्रोमित्येष शब्दः अभ्यादाने पो भवति । श्रो३. मृषभं पवित्रम् । अो३मृषभमृषभगामिनं प्रणमत । अभ्यादान इति किम् ? यो भो ददाति । अयमोमशब्दः प्रतिश्रवणे वर्तते ।
वा हेः पृटप्रत्युक्तौ ॥३६॥ पृष्टप्रत्युक्तौ हेः पो भवति वा। अकार्षीः कटं देवदत्त ! इति पृष्टः अकार्ष ही३ । अकार्ष हि । अलावीः केदारं देवदत्त ! अलाविषं ही३। अलाविषं हि । हेरिति किम् ? करोमि ननु । पृष्टप्रत्युक्ताविति किम् ? देवदत्तः कटं करिष्यति । प्रत्युक्ताविति किम् ? देवदत्त कटमकाहिं । वेति योगविभागः । तेन सर्व एव पविधिः साहसमनिछता वा प्रयोक्तव्यः ।
विचार्य पूर्वम् ॥५॥३॥६७॥ विचार्य पूर्व पविधिमापद्यते । अहिर्नु ३ रज्जुर्नु । स्थाणुर्नु ३ पुरुषो नु । द्वयोर्बहूनां वा वाक्यानां पूर्वस्य टेः पो भवति ।
प्रतिश्रवणे ॥५॥३८॥ प्रतिश्रवणे च वाक्यस्य टेः पो भवति । प्रतिश्रवणं श्रवणाभिमुख्यं प्रतिज्ञानम् अभ्युपगमश्चाविशेषेण गृह्यते । श्रवणाभिमुख्य देवदत्त भो किमात्थ३ इति । प्रतिज्ञाने कृतकः शब्दो भोः । एवं भवितुमर्हती३ । अभ्युपगमे भोज्यं मे देहि भोः । हन्त ते दास्यामी३ ।
पजिते ॥३॥पूजिते च वाक्यस्य टेः पो भवति । शोभनः खल्वसि अग्निभूता३३ । पटाउ। कावेपि च कृते "एचोऽदेः" [५।३।१०४] इत्यादिना श्राकार इदुतौ च । अथवा शोभनः खल्वसि देवदत्ता३ इत्युदाहरणम् ।
चिदित्युपमार्थे ॥५॥३१००॥ चिदित्येतस्मिन्नुपमार्थ प्रयुज्यमाने वाक्यस्य टेः पो भवति । अग्निश्चिद्भाया३त् । राजाचिद्व्या३त् । चिदिति किम् ? राजेव ब्रूयात् । अग्निर्माणवको भायात् । इवशब्दस्य प्रयोगाप्रयोगयोरुपमार्थोऽस्ति । न तु चिच्छब्दः । उपमार्थ इति किम् ? कथञ्चिद्ववीपि । कृच्छेत्र चिन्छब्दः । इतिकरणं किम् ? चिच्छन्दस्य मा भूत् । वाक्यस्य टेर्यथा स्यात् ।
कोपाऽसूयासम्मती म्रौ वा ॥१३॥१०१॥ कोपा असूया सम्मति इत्येतेष्वर्थेषु नौ परतः पो भवति वा । कोपे-माणवका३ । माणवक । अविनीतका३ । अविनीतक । इदानी ज्ञास्यसि जाल्मा३ । असूयायाम्-माणवका३ | माणवक । अभिरूपका३ । अभिरूपक । शोभनः खल्वसि माणवक । कुत्सनमसूयान्तभूतं तत्कार्यत्यात् । शाक्तीका३ । शाक्तीक । याप्टीका३ । याष्टीक रिक्ता ते शक्तिः। "वाक्यादे:ध्यस्य" [५।३।६] इत्यादिना द्वित्वम् । वेति व्यवस्थितविभाषा विज्ञानात् कोपकार्य भर्सने च पर्यायेण पः । चौर । चौरा३ । वृपल । वृषला३ । चौरा३ । चौर । वृषला३ । वृषल । घातयिष्यामि त्वाम् । बन्ध यिष्यामि त्वाम् । भर्सनेच मिङः साकाङ्क्षस्याङ्गयुक्तस्य टेः पविधिरद्वित्वं च । अङ्ग कुजा३ अङ्ग व्याहा३ इदानीं ज्ञास्यसि जाल्म। मिङ इति किम् ? अङ्ग देवदत्त । साकाइतस्येति किम ? अङ्ग पच । नैतत्पर माकाङ्क्षति | भसैन इत्येव । अङ्ग पठ पुस्तकं ते दास्यामि ।
For Private And Personal Use Only