________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्र० ५ पा० ३ सू०८-१२]
महावृत्तिसहितम्
३६६
1
दादुर्दो मोऽदसोऽसेः || ३८८ ॥ अदसः सकारस्य दात्परस्य वर्णमात्रस्य उवणादेशो भवति दकारस्य च मकारः । श्रमुम् । अम् । श्रमून् । श्रमुना । श्रमूभ्याम् । उत्वस्यासिद्धत्वात्प्राक् सन्धिकार्यम् । भाव्यपि क्वचित्स्वं ग्रहणात्युक्तम् । ततः "स्थानेऽन्तरतमः " [१|१|४७ ] इति मात्रिका र्धमात्रिकयोर्मात्रिको द्वित्रस्य द्विमात्र उकारो भवति । सेरिति किम् ? अदस्यति । "स्वेपः क्यच् " [ २ | १|६ ] | सेरिति यद्यविद्यमान सकारस्येत्युच्यते । अदः कुलम् । श्रदोऽत्र इत्यत्रापि स्यात् । एवं तर्हि अः सिर्यस्मिन् सोऽयमसिः । अकारीभूतः सिर्यस्मिन्नित्यर्थः । तस्यासेरुत्वम् । तेन त्यदाद्यत्वविषये विधिः । “विश्वग्देवयोश्च टेरद्र्यन्त्रों को " [३|४|१६८ ] इति द्रयादेशे कृते दर्शनभेदः । “अन्त्य विकारेऽन्त्यसदेशस्य " [ ५० ] इति परिभाषा नाश्रिता तेषाम् " श्रदे सोsहौ” परतः उत्वं भवति । श्रमुद्रयङ् | "पृथङ मत्वं केचिदिच्छन्ति लत्ववत्" । चलीकृप्यते । क्लृप्तः । कल्पकः । इत्यत्र लाक्षणिकस्य रेफस्य ऋकारस्य च लत्वम् । एवमन्यत्रापि । मुमुयङ् । परिभाषाश्रयणे तु " केचिदन्त्यसदेशस्य" श्रदमुयङ् । त्यदाद्यत्र विषय एव मुल्यम् । “नेत्येकेऽसेहि दृश्यते" |
यङिति चत्वारो भेदाः । दादिति किम् ? अमुया । श्रमुयोः । स्त्रियां सोः परतः त्यदाद्यत्वे अपि "श्राङि चाप: " [ ५/२/१०० ] इति एत्वे यादेशे च कृते " श्रन्तेऽल: " [11१1४६ ] इति यकारस्योत्वं मा भूत् ।
वहावीरेतः ॥५३॥८६॥ वही निमित्ते निष्पन्नस्य अदसः दात्परस्यः एतः ईकारादेशो भवति । अमी । अमोभिः | श्रमीभ्यः । श्रमीषाम् । श्रमीषु । अथवा चहाविद्यर्थनिर्देशः । बहाव वर्तमानस्य अदसः इति ज्ञेयम् । पारिभाषिके हि ग्रमी इत्यत्र परत्वासम्भवान्न स्यात् ।
वाक्यस्य टेः पः ॥ ३६० ॥ वाक्यस्य टेः पो भवतीत्येषोऽधिकारो वेदितव्यः । वक्ष्यति "दूराद्वते" [५/३/१२] श्रागच्छ भो देवदत्ता३ । वाक्यग्रहणं किम् ? अन्त्यस्य यथा स्यात् । पदाधिकारात् सर्वेषां पदानां मा भूत् । टेरिति किम् ? "अवश्च" [ १1१1१२] इति अनन्तस्याप्यचो यथा स्यात् । अन्यथा अचा वाक्ये विशेष्यमाणे हलन्तस्य न स्यात् । ऋचो विशेष्यत्वे सर्वेषामचां स्यात् ।
प्रत्यभिवादेऽद्रव्यसूयके || ५|३|११|| शूद्र स्त्री असूयक विपयवर्जिते प्रत्यभिवादे यद्वाक्यं वर्तते तस्य टेः पो भवति । अभिवादये देवदत्तोऽहं भो३: । श्रायुष्मानेधि देवदत्ता ३ । अत्राभिवाद्यमाने गुरुणा प्रयुक्तमाशीःपूर्वकं प्रियहितयुक्तं प्रतिवचनम् इत्यभिवादः । शूद्रस्त्र्यसूयक इति किम् ? अभिवादये तुपजकोऽहम् । भोश्रायुष्माने तुपजक । शुद्धे पो न विहितः । श्रभिवादये गार्ग्यहं भो । आयुष्मती भव गार्गि । स्त्रियां पो न भवति । श्रभिवादये स्थाल्यहं भो । आयुष्मानेधि स्थालिन् । अत्र दण्डिवदसञ्ज्ञाशब्दे पो न भवति । सञ्ज्ञाशब्दे भवत्येव । यदा तु विहेठयितुकामः सञ्ज्ञामसञ्ज्ञां च तस्य कथयति तदा श्रसूयकोऽयमिति ज्ञाते भिद्यस्व पलस्थालिन् न त्वं प्रत्यभिवादमर्हसीत्युच्यते । लोकव्यवहारात्प्रधाने कार्यसम्प्रत्ययाद्वा नामान्तस्य गोत्रान्तस्य च पविधिः । इह न भवति देवदत्त कुशल्यसि । देवदत्त श्रायुष्मानेधि । इन्द्रधर्मन् कुशल्यसि । सर्वः पविवि भवतीति वक्ष्यति । सा च व्यवस्थितविभाषा । तेन "भोराजन्यविशां वा भवति" । श्रभिवादये देवदत्तोऽहं भोः । श्रायुष्मानेधि देवदत्त भो३ | आयुष्मानेधि देवदत्त भो । राजन्यः । श्रभिवादये इन्द्रवर्माऽहं भोः । श्रायुमाधि इन्द्रवर्मन् | आयुष्मानेधि इन्द्रवर्मन् । विशः । अभिवादये इन्द्रपलितोऽहं भोः । श्रायुष्मानेधि इन्द्रपालिता३ | आयुष्मानेधि इन्द्रपालित । भोशब्दस्याप्राप्ते राजन्यविशोगत्रत्वात्प्राप्ते विकल्पः ।
दूराद्यूते || ५|३|१२|| दूराद्भुते आह्वाने वर्तमानस्य वाक्यस्य : पो भवति । आगच्छ भो देवदत्ता३ । दूराद्घृत इति किम् ? श्रागच्छ भो जिनदत्त । प्रयत्नविशेषेण आह्नाने यत्र शब्दः श्रूयते तदूरमिह नास्ति । हूतग्रहणं सम्बोधनमात्रोपलक्षणम् । तेनेहापि पः सिद्धः । सक्तून् पित्र देवदत्ता ३ इति । सूत्रे दूरादिति " तेभ्य इप् च " [ १।४।४३ ] इति का |
For Private And Personal Use Only