________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम् [अ० ५ पा० ३ सू०८०-८७ तिपि धोः॥५॥३८०॥ तिपि परतः धोः सकारान्तस्य पदस्य दकारादेशो भवति । अचकाद्भवान् । अन्वशाभवान् । लङ् । “हल्ङयापः" [४।३।५६] इति तिपः खम् । तिपीति किम् ? क्विपि चकाः । रित्वापवादो योगः।
सिपि रिर्वा ॥५॥३८१॥ सिपि परतो धोः सकारान्तस्य पदस्य रिर्भवति दकारो वा । अचकास्त्वम् । अचकात्त्वम् । अन्वशास्त्वम् । अन्वशात्त्वम् । दकारस्य विकल्पपक्षे रित्वं सिद्धमेव । रिग्रहणमुत्तरार्थम् । "दः" [१३१८२] इत्यत्र पदे रिर्यथा स्यात् । तिपि सिपि च परतो धुरेव सम्भवति । धुग्रहणमप्युत्तरार्थम् ।
दः ॥५॥३८॥ धोर्दकारान्तस्य पदस्य सिपि परतो रिर्भवति दकारो वा। अभिनत्त्वम् । अभिनस्त्वम् । अजस्त्वम् । अजर्घत्त्वं । गृध इत्येतस्मात् यकुब्। द्वित्वादिकार्यम् । लङ सिप उङ एप “एकाचः" [५।३।५४] इत्यादिना भष्भावः । हल्यापः खम् । जश्त्वं दकारः।
मो नः ॥५॥३८॥ धोर्मकारान्तस्य पदस्य नकारादेशो भवति । प्रताम्यतीति प्रतान् । प्रशान् । प्रदान् । नत्वस्यासिद्धत्वान्न मृदन्तनखम् । न इति किम् ? विद । भिद् । धोरित्येव । इदम् । किम् । अनयोर्मकारोच्चारणस्यावकाशः इदामतीत्यादौ "नः क्ये" [१२११०४] इति पदत्वाभावः। पदस्येत्येव । प्रशामौ । प्रशामः।
म्योः ॥५॥३॥८४॥ धोर्मकारस्य मकारवकारयोश्च परतः नकारादेशो भवति । जङ्गन्वः । जङ्गन्मः । अपदान्तार्थ प्रारम्भः । ।
इको दी रुरुङः ॥५॥३।८५॥ रेफवकारान्तस्य धोः पदस्य उङः इको दीर्भवति । गीः। आशीः । श्राङ पूर्वस्य शासोऽनुदात्तेतो ग्रहणादप्रातमित्वम् । “आशिषि" [२१४१४६] इति निपातनाद्भवति । धुर्वी । धूः । धुर्वः पदान्तस्य वकारस्य ऊठा भवितव्यमिति वग्रहणमुत्तरार्थम् । इक इति किम् ? अबिभर्भवान् । मकारे अकारस्य मा भूत् । वोरिति किम् ? भिद् । छिद् । उङ् इति किम् ? अबिभर्भवान् । चस्य वेर्मा भूत् । धोरिति किम् ? साधुः । मुनिः । पदस्येत्येव । गिरी । गिरः ।।
हल्यभकुर्छरः ॥५॥३॥८६॥ हल्परौ यौ रेफवकारी तदन्तस्य धोरुङ इको दीभवति भसंज्ञकं कुर्छरौ च वर्जयित्वा । आस्तीर्णम् । अवगूर्णम् । दीव्यति । सीव्यति । अभकुर्छर इति किम् ? भस्य धुरं वहतीति धुर्यः । दिवि भवो दिव्यः । क्विबन्तस्येदं ग्रहणम् । कुर् । कुर्यात् । कृञो विकृतनिर्देशात् चिकीर्घतीत्यत्र दीत्वं भवत्येव ।
छुर् । छुर्यात् । अाशिषि लिङ् । धोरित्येव । चतुर इच्छति चतुर्यति । दिवमिच्छति दिव्यति। त्यस्येमौ रेफवकारौ । इक इत्येव । गव्यति । “यि त्ये” [४।३।६७] इत्यवादेशः । हल्पराविति विशेषणं किम् ? मुर्मुरीयतीत्यत्र मा भूत् । अपदान्तार्थं वचनम् ।
उङि ॥५॥३८॥ धोरुभूतौ यौ रेफवकारौ तयोरुङ इकः दीर्भवति । कोर्तयति । हूर्छिता । मूर्छिता | तूर्विता । धूर्विता । “अचो रहाद् द्वे" [५।४।१२६] इत्यस्यासिद्धत्वादुङ्भूतत्वम् । प्रतिदीना। प्रतिपूर्वाद्दिवः "कन् युवृषितक्षि" [उ० सू०] इत्यादिना कन् । “अनोऽखमम्बस्फात्" [४|१२२] इत्यखम् । “न पदान्त" [१११।५८] इत्यादिना स्थानिवद्भावप्रतिषेधः। “असिद्ध बहिरङ्गमन्तरङ्गे" [१०] इत्यस्यानित्यत्वाच्च दीत्वम् । अथ वाऽत्र “हलि" [४।३।१२६] इति दीत्वम् । तस्य नेति प्रतिषेधः कस्मान्न भवति । रेफवकारान्तस्य सस्य [भस्य] स प्रतिषेधः । इह कस्मान्न भवति । री गतिरमणयोः । वी गतिप्रजनकान्त्यशनेषु । रिर्यतुः । [रियुः । विव्यतुः । विव्युः । यणादेशस्य] स्थानिवद्भावात् बहिरङ्गलक्षणत्वाद्वा असिद्धत्वमिति न भवति । चतुर्यितेत्यत्र अतः खस्य बहिरङ्गत्वात् धोरुभूतो रेको नास्तीति न दीत्वम् । गुणादीनामव्युत्पन्नत्वात । जिविः। किर्यो। गिर्योरित्यादिषु "हलि” दीत्वं न भवति । व्युत्पन्नौ बहुलवचनात् । “जीर्यतेः किरच वः" [उ०] । इति क्रिः । "ऋत इद्वोः" [५११७४] इतीत्वम् । रन्तत्वम् । रेफस्य वकारः । ( कगृभ्यां ) “कृ ग प कुटि भिदिभ्यश्च" [उ०] इति इः। उकोरिति प्राप्ते उडीति सौत्रो निर्देशः ।
For Private And Personal Use Only