________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ५ पा० ३ सू० ७५-७६] महावृत्तिसहितम् भुज्यत इति भोगो धनादिप्रतीतौ विचोऽयं पुरुषः। विनमन्यत् । भित्तमिति निपात्यते शकलं चेत् । भिन्न खण्डमित्यर्थः । उक्तञ्च--
तत्त्वमभिधायकं चेच्छकलस्यानर्थकः प्रयोगः स्यात् ।
सकलेनाप्यभिहिते न भवति तत्वं निगमयामः ॥ भिदि क्रिया शब्दव्युत्पत्तिनिमित्तम् । प्रवृत्तिनिमित्तं तु शकलत्वजातिः । क्रियाभिधाने भिन्न शकलमित्यपि भवति । दूनः । गूनः । दुग्वोर्दीत्वं नत्वं च निपात्यते । पूजो विनाशे नत्वम् । पूना यवाः। विनाश इति किम् ? पूता यवाः । पूतं धान्यम् । सित इति सिनोते सकर्मकर्तृ कस्य भवति । सितो ग्रासः स्वयमेव । ग्रास इति किम् ? सिता पाशेन शकरी । कर्मकर्तृ कस्योति किम् ? सितो ग्रासो देवदत्तेन । ऋण इति ऋ इत्येतस्मात् उत्तमाधमर्ण योर्नत्वम् । ऋणं ददाति । ऋणं धारयति । ऋतमन्यत् ।
कित्यस्य कुः ॥५॥३७॥ क्विस्त्यो यस्य तस्य धोः कवर्गोऽन्तादेशः पदान्ते । घृतस्मृक् । "स्पृशोऽनुदके क्विः" [श१५६] इति क्विः । एवं यादृक् । ताहक । युङ। नस्य कुत्वम् । त्यग्रहणपरिभाषया “को कुः" इति सिद्धे किस्त्यो यस्येति बसनिर्देशात् असत्यपि क्वौ क्विविधानेनोपलक्षितस्य क्विवन्तस्यापि भवति । सहस्रगिति । इहापि तहि स्यात् । रज्जुसुभ्याम् । रज्जुसृभिः। स्रगिति निपातनात् क्यन्तोपलक्षणं नास्तीत्यदोषः । "नशा" वा०] । जीवनक । जीवनट । क्विपि विचि वा । अथवा जीवस्य नाशो जीवनडिति सम्पदादित्वाल्क्विप।
ससजुषो रिः ॥५॥३१७६॥ सकारान्तस्य पदस्य सजुम् इत्येतस्य च रिर्भवति । "अन्तेऽलः" [१1१0४१] इत्यन्तस्य । जश्त्वापवादोऽयम् । सर्वशः साधुभिरासेव्यते । सजः । सह जुषा वर्तते “सहेति तुल्ययोगे" [१॥३॥६१] बसः । “वा नीचः" [४।३।१६०] इति सहस्य सो भवति । यदि वा सह जुषते इति सजः ।
अहन् ॥५३७॥ अहन्नित्यस्य पदस्य रिर्भवति । अहोभ्याम् । अहोभिः । दीर्घाहा कालः। हे दीर्घाहोऽत्र । अहन्निति विकृतनिर्देशात् रेरसिद्धत्वेन नखं न भवति । वचनं तु हे दीर्घाहोऽत्रेति सावकाशम् । हन्तेलडि ग्रहन्नित्यस्य लाक्षणिकत्वान्न भवति । “अहो रिविधी रूपराविरथन्तरेखूपसङ्ख्यानम्" [वा०इति । रोऽसुपीत्यस्य बाधनार्थम् अहोरूपम् । अहोरात्रिः। एकदेशविकृतत्वादिद्दापि भवति । अहश्च रात्रिश्च अहोरात्रः । अहो रथन्तरम् अहोरथन्तरम् ।
रोऽसुपि ॥२३७८|| अहन्नित्येतस्य रेफादेशो भवत्यसुपि परतः । अहर्गच्छति । अहर्ददाति । असुपीति किम ? अहोभ्याम् | अहोभिः । ननु अहर्ददातीत्यत्रापि “त्यखे त्याश्रयम्" [११६७] इति सुअस्ति । एवं तर्हि रेफविधानसामर्थ्यात् अह्नो रविधौ उपि त्यलक्षणं न भवति । यत्र तु खं तत्र त्याश्रयेण रित्वम् । दीघाहा निदाघः । हे दीर्घाहोऽत्रेति ।
वसुस्रंसुध्वंस्वनडुहां दः ॥३७६॥ वत्वन्तस्य पदस्य उसु ध्यंसु अनडुङ् इत्येतेषां च दकारादेशो भवति । विद्वत्कुलम् । विद्वद्भयाम् । विद्वद्भिः । उखाया संसते उखासत् । उखासद्याम् । उखासद्भिः। पर्णध्वत् . पर्णध्वद्भिः । स्वनडुत्कुलम् । अनडुयाम् | अनडुद्भिः । पदस्येति किम् ? अनडुहा । वस्वादीनामिति किम ? पयोभ्याम् । अनडुहो दत्वप्राप्तिरितरेषां रित्वम् | “ससजुषो रिः" [५/३१७६] इत्यतः सकारान्तग्रहणमनवर्तते । तेन विद्वानिति नकारस्य न भवति । “येन नाप्राप्ते" इति न्यायेन रित्वस्य दत्वं बाधकम् । स्फान्तखे प्राप्त चाप्राप्ते च दत्वमतो विद्वानित्यत्र स्फान्तखस्य न बाधकम् । अनडुहो वचनसामथ्योद् ढल भवति । नुमो दत्वं वचनसामर्थ्यान्न भवति । पदाधिकारादिहापि भवति । विद्वकाम्यति । "नः क्ये' [१२।१०४] इति नियमाद् विद्वस्यतीत्यत्र भसज्ञा ।
For Private And Personal Use Only