________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३६६
जैनेन्द्र-व्याकरणम्
[ अ० ५ पा० ३ सू० ७०-७४
न्नत्वं न भवति । प्रग्रहणं किम् ? केवलादन्यगिपूर्वाच्च न भवति । स्त्यानः । संस्त्यानः । त्यै स्त्यै इन्यनयोः परस्य ग्रहणं पूर्वस्य सत्त्वाभावात् ।
Acharya Shri Kailassagarsuri Gyanmandir
फुल्लः || ५|३|७० ॥ फुल्ल इति निपात्यते । फुल्लः । फुल्लवान् । त्रिफला विशरण इत्यस्मात्परस्य ततकारस्य लत्वं निपात्यते । "ति" [५/२/१८६ ] इति उङ उत्त्वम् । कथं फलितः । फलान्यस्य सज्जातानीति द्रष्टव्यम् । अथवा फल निष्पत्तावित्यस्य इडभाव उङ उत्वं लत्वं च निपात्यते । फुल्ल विकसन इत्यस्य पचाद्यचि रूपमिति चेत्, नैवं फलेस्ते लत्वमन्तरेण प्रयोगः स्यात् !
समुदः || ५|३|७१ ॥ सम् उद् इत्येताभ्यां परः फुल्लो निपात्यते । सम्फुल्लः । सम्फुल्लवान् । उत्फुल्लः । उत्फुल्लवान् । " सिद्धे सत्यारम्भो नियमार्थः " [प०] । समुद्रयामेव गेः । इह मा भूत् । प्रफुल्ला लता ।
क्षीर कृशोलाघाः || ५|३|७२ || क्षीत्र कृशः उल्लाघ इत्येते शब्दाः निपात्यन्ते । दीवादिभ्यः के कृते तकारस्य खं निपात्यते । इटि वा कृते इत्शब्दस्य । क्षीत्रः । कृशः। उल्लाघः । अचि इगुलक्षणे के च कृते रूपं सिद्ध्येत् । किं तु कृते के अनिष्टं स्यात् । लाघेर्गिपूर्वस्य ग्रहणं किम् ? अस्यैव गिपूर्वस्य निपातनमन्यत्य मा भूत् । प्रक्षीचितः । परिकृशितः । उदिति विशेषनिर्देशात् अन्यगिपूर्वस्य न भवति । प्रोल्लधितः । परिकृशः इत्यादिषु निपातितस्य शब्दस्य पश्चात् प्रादिसविधिः । परिगतः कृशः परिकृशः । प्रगतः क्षीत्रः प्रक्षीत्रः । नात्र गिसञ्ज्ञा । यत्क्रियायुक्तास्तं प्रति गिसञ्ज्ञा भवन्ति ।
वाग्राहीनुदोन्द विन्ते विभाषा || ५|३|७३ ॥ त्रा घ्रा ही नुद उन्द विन्ति इत्येतेभ्यः परस्य ततकारस्य विभाषया नत्वं भवति । त्रातः । त्राणः । घातः । प्राणः । ह्रीतः । ह्रीणः । नुत्तः । नुन्नः । समुत्तः । समुन्नः । वित्तः । विन्नः । ह्री इत्येतस्याप्राप्ते इतरेषां प्राप्ते नत्वं विकल्प्यते । विन्तेरिति श्नविकरणनिर्देशाद् "विद विचारणे" [धा०] इत्यस्य ग्रहणम् । तदुक्तम्-
वेत्तेस्तु विदितो ज्ञ ेयो विद्यतेर्वित्त इष्यते । विन्तेर्विन्नश्च वित्तश्च वित्तं भोगे तु विन्दतेः ॥
विभाषेति व्यवस्थितविभाषाविज्ञानम् । तेन
देवत्रातो गलो ग्राह इतियोगे च सद्विधिः । मिथस्तेन विभाष्यन्ते गवाक्षः संशितव्रतः ॥
इति सिद्धम् । देवैस्त्रातः देवत्रातः । सञ्ज्ञायामपि त्रातेति भवति । प्राण्यङ्गे गलः । विषे गर एव । नक्रे ग्राहः | "विभाषा ग्रहः " [ २।१।११७ ] इति णः । आदित्यादिषु पचाद्यजेव ग्रहः । इतियोगे च सद्विधिर्न भवति वर्षतीति धावति । हन्तीति पलायते । "लक्षणहेत्वोः क्रियायाः " [२।२।१०४ ] इति शतृशानौ न भवतः । "न वा साकाङक्षे" [२।२।१४ ] इत्यतो मण्डूकप्लुत्या विभाषाऽनुवर्तते । अनितियोगे नित्यं भवतः । श्रर्जयन् वसति । श्रधीयानो वसतीति । ननु चेतिशब्देनैव हेत्वर्थस्य द्योतितत्वात् वर्षतीत्यादौ कथं सद्विधिः ? इदं तर्युदाहरणम्, “विभाषा लृटः सत्" [ २|३|१३] इत्यनेन करिष्यामीति ब्रजति क्रियायां तदर्थायामितियोगे लृटः सद्विधिर्न भवति । श्रवान्तसमानाधिकरणे अनितियोगे च सद्विधिः । करिष्यन्तं पश्येति । वान्तसमानाधिकरणेऽपि विकल्प इति केचित् । करिष्यन् पुरुषः । करिष्यति पुरुषः । वातायने नित्यम् । गवाक्षः । प्राण्यङ्गे गोऽक्षम् । अन्यत्रोभयम् | गोग्रम् | गवाग्रम् । व्रतविषये नित्यमित्यम् । शंसितव्रतः । विधिप्रतिषेधयोरुभयरूपेण विविधमवस्थितया विभाषया सर्व लभ्यते । आकृतौ पदार्थे सर्व लक्ष्यराशिमेकत्वमुपनीय विधिः प्रतिषेधश्चेति द्वयमुपदिश्यते । व्यक्तौ पदार्थे उभयमत्र भवतीति प्रतिपाद्यते ।
वित्तभित्तदूनगुनपुनतिर्णानि ॥ ५४३/७४ || वित्त भित्त दून गून पून सित ऋण इत्येते शब्दा निपात्यन्ते । वित्तमिति "विदुलृ लाभे" इत्यस्य भोगे प्रतीतौ च निपात्यते । भोगे वित्तमस्य । बहुवित्तः ।
For Private And Personal Use Only