________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ५ पा० ३ सू० ६१-६६] महावृत्तिसहितम् प्रतिधात् प्रतिपदोक्तपरिभाषा नाश्रिता। स्फादेरिति किम् ? यातः । यातवान् । श्रात इति किम् ? च्युतः। प्लुतः । धोरिति किम् ? निर्यातः । दुर्यातः । यण्वत इति किम् ? स्नातः । प्सातः । अध्याख्य इति किम् ? ध्यातः। ख्यातः।
वादेः ॥शश६१॥ लू इत्येवमादिभ्य उत्तरस्य ततकारस्य नो भवति । लूनः। लूनवान् । लीनः । लीनवान् । लू इत्यतः प्रभृति बृदिति वृत्पर्यन्ता ल्वादयः । तत्र स्तृनित्येवमादिभ्यो नत्वं पूर्वेणैव सिद्धम् ।
ऋतश्च क्तः ॥१३॥२॥ ऋकारान्तेभ्यो ल्वादिभ्यश्च परस्य क्तेस्तकारस्य नो भवति । ल्वादिभ्यो अत्ये ऋद्ग्रहणं प्रयोजयन्ति । कोर्णिः । गीणिः । शीर्णिः । ल्वादिभ्यः । लूनिः। लीनिः । गृर्णिः । चूर्णिः । घर्णिः। इति त्रयं चिन्त्यम् ।
ओदितः ॥५॥३॥५३॥ श्रोकारेतश्च धोः परस्य ततकारस्य नो भवति । लग्नः । लग्नवान् । उद्विग्नः । उद्विग्नवान् | आपीनः । अापीनवान् “प्यायः पी" [४।३।२३] “प्राङः" [५३।२४] इति पीभावः। आतिदेशिकाः स्वादयः अोदितः । घङ प्राणिप्रसव इत्यादयो बीङ् वृणोत्यर्थे इत्येवमन्ता देवादिकाः । सूनः । सूनवान् । दूनः । दीनः । उड्डीनः इत्यादि ।
क्षीणः ॥१३॥६४॥ क्षी इत्येतस्मात् कृतदीत्वात्परस्य ततकारस्य नो भवति । तपरकरणमसन्देहार्थम् । प्रक्षीणः । प्रक्षीणवान् । “तेऽण्ये" [४।४५६] इति दीत्वम् । यदा दीत्वं तदाऽनेन नत्वम् । क्षीणोऽसि जाल्म । “वा दैन्याक्रोशे" [४।४।६०] इति दीत्वम् । दीत्वनिर्देशः किमर्थः ? क्षितोऽसि जाल्म ।
श्याञ्चिदिवोऽस्पर्शानपादानाजये ॥५॥३॥६५॥ श्या अञ्चि दिव इत्येतेभ्यः परस्य ततकारस्य नो भवत्यस्पर्श अनपादाने अजये यथासङ्खथम् । शीनं घृतम् । शीनं मेदः । “दवघनस्पर्शयोः श्यः" [४।३।१६] इति जित्वम् । “हलः” [१२] इति दीत्वम् । अजित्वपक्षे "स्फादेरातो" [५।३।६०] इति नत्वं सिद्धम् । अस्पर्श इति किम् ? शोतं वर्तते । शीतो वातः। शीतमुदकमित्यत्र स्पर्शाभिघानद्वारेणैव द्रव्ये वृत्तिः । तेन नत्वाभावी जित्वं च सिद्धम् । स्पशों गुणो गृह्यते । ननु "स्पृश उपतापे" इत्येतस्य स्पर्शो रोगः । तत्र प्रतिशीनः। कथं ज्ञायते "द्रवधनस्पर्शयोः" [३॥१६] इति जित्वे सिद्धे “प्रतेः" [४।३।२०] इति वचनात् । अञ्च । समक्नौ शकुनेः पक्षौ । अनपादान इति किम् ? उदक्तमुदकं कूपात् । व्यक्त इत्यजेः प्रयोगः । दिव । श्राद्यूनः । आद्य नवान् । “छोः शूण्ङ च" [४॥४/१५] इत्यूठ । अजय इति किम् ? द्यूतं वर्तते । क्रीडायामप्युपमानाद्विजि गीवा गम्यते ।
निर्वाणोऽवाते ॥१३॥६६॥ निर्वाण इति निपात्यते अवातेऽर्थे । यदि ध्वयों वाताधारो न भवतीत्यर्थः । निःपूर्वाद्वातेः परस्य ततकारस्य नत्वं निपात्यते । निर्वाणो मुनिः। निर्वाणो दीपः। “धिगत्यर्थाच" [१५] इति कर्तरि क्तः। अवात इति किम् ? निर्वातो वातः। निर्वातं वातेन । वातोऽत्र निर्वातिक्रियायाः आधारः । निर्वाणो दीपो वातेनेत्यत्र दीपाधारो ध्वर्थो वातस्तु करणं तेन नत्वम् ।
शुषिपचेः क्वौ ॥५॥३॥६७॥ शुषि पचि इत्येताभ्यां परस्य ततकारस्य ककारवकारादेशौ भवतः । शुष्कः । शुष्कवान् । पक्कः । पक्कवान् ।
मः ॥३६॥ इत्येतस्मात्परस्य ततकारस्य मकारादेशो भवति । क्षामः । क्षामवान् ।
प्रस्त्यो वा ॥५॥३॥६६॥ प्रपूर्वात्स्त्यायतेः परस्य ततकारस्य मकारादेशो वा भवति । प्रस्तीमः । प्रतीमवान् । प्रस्तीतः । प्रस्तीतवान् । “प्रपूर्वस्य स्त्यः' [॥३।१८] इति जिः । "हलः" [१२] इति दीत्वम् । यदा मत्वं न भवति तदा "स्फादेरातो धोर्यण्वतः" [५.३१६०] इत्यस्यासिद्धत्वात् पूर्व ज| कृते विहतनिमित्तत्वा
For Private And Personal Use Only