________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र व्याकरणम् . [अ० ५ पा० ३ ० ५३-६० आहो व्र अग्रहरणेन ग्रहणात् ब्रुव ईण्मा भूत् । झलादिवचनाद् वा न भवति । पदान्तत्वं नास्ति । झलीत्येव । आह्तुः। श्राहुः ।
व्रश्चभ्रस्जसृजमृजयजराजभ्राजछशां षः ॥१३॥५३॥ वश्च भ्रस्ज सृज मृज यज राज भ्राज षां चकारशकारयोश्च वो भवति झलि पदान्ते च । ब्रष्टा । मलत्रट । स्फादिसखम । “अहिज्यावयि" [४॥३॥१२] इत्यादिना जित्वम् । भ्रष्टा । धानाभृट् । स्रष्टा । तीर्थस्ट । माय । कर्मपरिमृट । यष्टा । देवयट । विचीदं रूपम् । राजिभ्राजोः क्तिरेव झलादिः । राष्टिः । भ्राष्टिः । सुराट् । सुम्राट् । विभ्राट् । प्रष्टा । धर्मप्राट । “किपि वचिप्रच्छायतस्तु कटप्रजुप्रीणां दीरजिश्च" [११५७ वा इति किपि दीत्वाजित्वे । "छ वोः शूड् ङ च" [४४।१७] इत्ययं विधिरुक्तः । लिशि । लेष्टा । धर्मलिट् । विश । वेष्टा । स्वर्गविट् ।
एकाचो वशो भष् झषः सध्वोः ॥५॥३॥५४॥ धोरेकाची झपन्तस्य योऽवयवस्तस्य यथासङ्ख्यं भषभावो भवति झलि सकारे ध्वशब्दे च परतः पदान्ते च । भोत्स्यते । अभुद्ध्वम् । “सिलिङ दे" [१1८५] इति कित्वम् । धर्मभुत् । धोक्ष्यते । अधुग्धम् । गोधुक् । निघोक्ष्यते । न्यधुवम् । मन्त्रघुट । एकाच इति किम् ? दामलिहमिच्छति दामलिह्यतेः क्वि । दामलिट् । असत्येकाज्यहणे झपन्तस्य धोरवयवस्य वशो भा अत्रापि स्यात् । वश इति किम् ? क्रोत्स्यति । झपन्तस्येति किम् ? दास्यति । स्वोरिति किम् ? बोद्धां । बोदधुम् । धकारस्य बकारपरस्य ग्रहणं किम् ? दादद्धि । दध धारणे इत्यस्य यडपि लोटि "हझल्ल्यो हेर्धिः" [४॥४॥६४] इति धिभावे रूपम् । अबुद्ध । अबुद्धाः इत्यत्र "झलो झलि" [५।३।४४] इति सखे कृते "त्यखे त्याश्रयम्" [१1१६३] इति कस्मान्न भवति । "वर्णाश्रये नास्ति स्याश्रयम्" [प०] इत्यदोषः ।
धः॥५॥३॥५५॥ धो धातोझोपन्तस्य वशो भषु भवति झलि परतः । धत्से । धत्स्व । धध्वे । धदध्वम् । धत्तः । धत्थः । “पूर्वत्रासिद्ध न स्थानिवत्" [१०] इति अजादेशस्य न स्थानिवद्भावः । बचनसामर्थ्याद्वा श्रतिकृतमानन्तर्यमस्तीति भवन्तता । धस्यापि जश्त्वमाश्रयात्सिद्धम् । “प्रकृतिग्रहणे यङ बन्तस्यापि ग्रहणम्" [प०] । धात्तः। धास्थः । झषन्तस्येत्येव । दधाति । दधासि । झलीत्येव । दधे । दधते ।
तथोधोऽधः ॥५॥३॥५६॥ झषन्तादुत्तरयोः तकारथकारयोर्धकारादेशो भवत्यदधातेः । दोग्धा । दोग्धुम् । अदुग्ध । अदुग्धाः । बोद्धा । बोद्धम् । अबुद्ध । अबुद्धाः । अधः इति किम् ? धत्तः । धत्थः ।
झलो जश् ॥५॥३॥५७॥ झलो जश भवति पदान्ते वर्तमानस्य । पदमध्ये "झलां जश् झशि" [५।४।१२८] इति वक्ष्यति । झलीति निवृत्तम् । वागत्र । मधुलिडन । अग्निचिदत्र । झलीत्यस्य निवृत्तिः किम् ? यस्ता । वेष्टव्यम् ।
षढोः कः सि ॥५३॥५८॥ षकारटकारयोः वकारादेशो भवति सकारादौ परतः । वेक्ष्यति । तोक्ष्यति । दृस्य । लेक्ष्यति । वक्ष्यति । सीति किम् ? पिनष्टि ।
द्रात्तस्य तो नः पूर्वस्य दोऽपमूछिमदाम् ॥५॥३॥५६॥ दकाररेफाभ्यां परस्य तसञकस्य तकारस्य नकारादेशो भवति पूर्वस्य च दकारस्य पृमूछिमदो वर्जयित्वा । भिन्नः । भिन्नवान् । छिन्नः। छिन्नवान् ।
आस्तीर्णम् । अवगूर्णम् । द्रादिति किम् ? शक्तः । शक्तवान् । तसज्ञकस्येति किम् ? कर्ता । हर्ता । त इति किम् ? मुदितम् । चरितम् । द्रादित्यनेन तकारो विशेष्यते । स चेत्तसज्ञ इति । तेनेटा व्यवधाने न भवति । पूर्वस्येति किम ? परस्य मा भूत् । भिन्नवदृभ्याम् । भिन्नवदभिः । "अधिकृत्य कृते ग्रन्थे" ३२३१६ इत्यादि निर्देशात् “इह वर्णेकदेशा वर्णग्रहणेन न गृह्यन्ते"। तेन हृतम् कृतमित्यादि सिद्धम् । कृतस्यापत्य कार्तिरिति बहिरङ्गो रेफः । अप मूछिमदामिति किम् ? प्रपूतः । मूत्र्तः । मत्तः ।
स्फादरातो धोर्यरावतोऽध्यायः ॥५॥३॥६०॥ स्फादियों धुः आकारान्तः यण्वत् तस्मात्परस्य तत. कारस्य नो भवति ध्या ख्या इत्येतौ वर्जयित्वा । प्रद्राणः । प्रद्राणवान् । ग्लानः। म्लानः। ध्या इत्येतस्य
For Private And Personal Use Only