________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ५ पा० ३ सू० ४६-५२] महावृत्तिसहितम्
३६३ कित्त्वादेप्रतिषेधः । सिंहावलोकनेन धोरिति किम् १ द्विष्टराम् । द्विष्टमाम् । “द्वित्रियनुयः सुच्" [१२।२५] तदन्तात् अतिशयिते तरतमौ “किमेम्मिङ झिमात्" [४।२।२० ] इत्यादिनाऽम् । "प्रात्यमिङस्ति" [५।४।७३] षत्वम् ।
स्फादेः कोऽन्तेच॥५३॥४६॥ सकारस्य ककारस्य च स्फादेः झलि परतः पदान्ते च खं भवति । झलि पदत्यावयवः पदान्ते च यः स्फस्तदाद्योः स्कोः खं भवतीत्यर्थः। लग्नः । लग्नवान् | साधुलक । तष्टः । तष्टवान् । काष्ठतट । श्राचाटे मुनिर्धम्मम् । वास्यर्थः । शक्यर्थः । इत्यत्राजादेशस्य स्थानिवद्भावान्न सादिखम् । “पूर्वत्रासिद्धे न स्थानिवत्" [१०] इतीदं "स्फादिखलवणत्वेषु नास्ति" [प.] इत्युक्तम् । अथवा बहिरङ्गस्य यणादेशस्यासिद्धत्वान्न स्कादिखम् । काष्ठशक्स्थातत्यत्र गोरधिकारात सिंहावलोकनेन धोरिति वा न भवति । स्फादेरिति किम् ? न्यस्तः । शक्तः । झलीदं द्रष्टव्यम् । स्क इति किम् ? नर्ति । अन्ते चेति किम् ? तक्षिता।
चोः कः ॥५॥३॥४७॥ चवर्गस्य कवगे श्रादेशो भवति झलि पदान्ते च । बक्ता। वक्तुम । वक्तव्यम् । वाक् । “क्विपि ववि [२२।१५७ वा०] इत्यादिना क्विपि दीत्वमजित्वं च। पक्ता । पक्तुम् । पक्तव्यम् । साधुपक । अञ्चेत्यत्र अनुस्वारस्य परस्वत्वस्य चासिद्धत्वात् ञकार एव नास्ति । चकारे झलि कुत्वं न भवति । "युजिक्रुः " [२।२।५७] इति निपातनान्नखं न भवति । रेफरहितस्य धोः कुञ्चिसमानार्थस्य नखं भवत्येव । निकुचितिरिति ।
हो ढः ॥५॥३॥४८॥ हकारस्य ढकारादेशो भवति झलि पदान्ते च । सोढा । सोढुम् । सोहव्यम् । ढत्वे कृते परस्य "तथो?ऽधः" [५।३।५६] इति धत्वम् । दृत्वम् । “ढो ढे खम्" [५।४।१७] "सहिवहोऽस्यौः " [४॥३॥२१७] इत्योत्वम् । अन्ते । परिषद् । सट् विचीदं रूपम् । अन्यथा “नहिवृतिवृषिन्यधिरुचिसहितनिषु कौ" [१॥३।२१६] इति दीत्वं स्यात् । एवं वोढा । वोढुम् । गुणवट । विचीदं क्विपि जित्वं स्यात् । पृथग योगकरणमुत्तरार्थम् ।
दादेोर्घः ॥५॥३।४६॥ दकारादेोहं कारस्य प्रकारादेशो भवति झलि पदान्ते च । दग्धा । दग्धुम् । दग्धव्यम् कर्मेन्धनम् । दोग्धा । दोग्धुम् । दोग्धव्यम् । गोधुक् । पदान्ते घत्वे कृते "एकाचो वशो" [५३३५४] इत्यादिना झपन्तस्य वशो भष्टवम् । धोरिति किम् ? दामलिट् । धुपाटे यो दादिः स दादेरित्यनेन गृह्यते । तेन अधोक इत्यत्र अडागमेऽपि सति दादित्वं सिद्धम् । इह च दामलिह्यतेः विपि घत्वं न भवति । दामलिडिति ।
वा द्र हमुहष्णुहष्णिहाम् ॥५॥३॥५०॥ द्रुह मुह ष्णुह ष्णिह इत्येतेषां कारस्य वा घत्वं भवति झलि पदान्ते च । द्रोग्धा । भित्रधक । द्रोढा । मित्रध्रुट । उन्मोग्धा। उन्मुक् । उन्मोढा । उन्मुट । स्नोग्धा । उत्स्नुक् । स्नोटा। उत्स्नुट् । स्नेग्धा । चेलस्निक । स्लेढा । चेलस्निट् । द्रुहे. पूर्वेण प्राप्ते इतरेषामप्राप्ते विकल्पः।
नहो धः ॥॥३॥५१॥ नहेर्हकारस्य धकारादेशो भवति झलि पदान्ते च । नद्धम् । नद्धव्यम् । उपानत् । “नहिवृति" [४।३।२१६] इत्यादिना दीत्वम् । “तयो|ऽधः" [५।३।५६] परस्य धत्वं यथा स्यादिति धकारादेशः कृतः ।
ग्राहस्थः ॥५३॥५२॥ श्राहो हकारस्य थकारादेशो भवति झलि परतः । धर्ममात्थ । सुखमात्य । "ब्रुव आहश्च" [२।४७०] इति ब्रुव आहादेशो लडादेशस्य च सिपस्थादेशः । अनेन हस्य थत्वम् । "खरि" [५।४।१३०] इति चत्वम् । अाहस्तकारादेशेनैव सिद्धे थकारस्य "खरि" इति चर्व ज्ञापकम् ।
For Private And Personal Use Only