________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम्
३६२
[अ० ५ पा० ३ सू० ४०-४५
भवत्येव” [वा०] । गरः । निगार्यते । निगाल्यते इत्यत्र "परेऽचः पूर्वविधौ” [१।१।५७] इति णेः स्थानिवद्भावादजादित्वम् । ननु "पूर्वत्रासिद्धे न स्थानिवत्" [प०] इति प्रतिषेधः प्राप्नोति । " नेयं परिभाषास्फादिखलत्वगत्वेषु व्याप्रियते" । अथवा वर्णाश्रयमन्तरङ्गलत्वमगाश्रयं बहिरङ्गं णिखम् । इयमप्राप्ते विभाषा । प्राप्त नित्यो विधिः । निजेगिलः । “धोः स्वरूपग्रहणे तस्यविज्ञानम्” [ प ० ] इति मृदस्त्ये न भवति । गिरो गिर इति । विभाषेति योगविभागादिष्टे कपिलकादौ विकल्पः । कपिरकः । कपिलकः । तिथिरीकम् । तिथिलोकम् । रोमाणि । लोमानि । “संज्ञाछन्दसोः पूर्वो विधिः" [१०] । “डलयोः समानविषयत्वं स्मर्यते " [प०] । व्याङः । व्यालः । वारः । वालः । मूरम् । मूलम् । रघुः । लघुः । अरे । ले । सुरः । असुलः । अरिः । अङ्गुलिः ।
परेर्घायोगे || ५|३|४०|| परे रेफस्य विभाषया लत्वं भवति घशब्दे के योगे च परतः । परिघः । पलियः । “घनान्तर्घण” [ २।३।६६ ] इत्यादी परिघशब्दो निपातितः । पर्यङ्कः । पल्यङ्कः । परियोगः । पलियोगः ।
स्फान्तस्य खम् ||५|३ | ४१ || स्कान्तस्य पदस्य खं भवति । गोमान् । कृतवान् । इह श्रेयान् भूयान् इति रित्वस्यासिद्धत्वातूस्कान्तस्य खं भवति । इहापि तर्हि पयः शिर इति रित्वस्यासिद्धत्वाज्जश्त्वं प्राप्नोति । "येन नाप्राप्ते तस्य बाधनम् " [ प० ] इति रित्वं जश्त्वस्य बाधकमेव । स्फान्तखे पुनः प्राप्ते चाप्राप्ते च रित्यमारभ्यते । दध्यत्र । मध्वत्रेति बहिरङ्गस्य यणादेशस्यासिद्धत्वात्स्फान्तखं न भवति । एफ इति किम् ? वाक् । अन्तग्रहणं किमर्थम् ? श्रादौ मध्ये च पदावयवस्य स्कस्य खं मा भूत् । " येनालि विधिस्तदन्ताद्योः " [१|१|६७ ] इति सिद्धे सष्टार्थं चान्तग्रहणम् । पदस्येति किम् ? गोमन्तो । गोमन्तः ।
सकारस्य खं भवति । " श्रन्तेऽलः” त्वस्यासिद्धत्वात् सखम् । “पूर्वत्रासिद्धे
रात्सः ||५||३|४२|| स्कान्तस्य पदस्य यो रेफस्तस्मादुत्तरस्य [ १|१|४६ ] इत्यन्तस्य । चिकीः । जिहीः । क्विपि श्रतः खे च कृते वन स्थानिवत्" [ प ० ] इत्यजादेशस्य न स्थानिवद्भावः । एवं मातुः । पितुः | "ऋत उत्" [ ४३८] इत्युत्वम् । द्वयोरेकत्वम् । रन्तत्वम् । “सिद्धे सत्यारम्भो नियमार्थः " [प०] रेफनियमोऽयम् । रादुत्तरस्य सकारस्यैव तं नान्यस्य । न्यमार्ट । ऊर्क । लङि क्विपि च रूपम् । रादेव सकारस्येति कस्मान्न नियमः । व्याख्यानात् । उरःप्रभृतिषु पुमानित्यस्य कृतसत्रस्य निर्देशाद्वा ।
धि || ५|३|४३|| धकारादौ च परतः सस्य खं भवति । ग्राध्वम् । श्राशाध्वम् । सकारस्य जश्त्वेनाप्येतत्सिध्येत् । श्रुतिकृतविशेषाभावादिति चेत् १ इह दोपः स्यात् । श्रलविध्वम् । आलविदूवम् । "वेटः " [५४६४] इति वा धस्य टत्वम् । यद्यत्र सखं न स्यात् ; तदा से: पत्वे जश्त्वे च डकारे धस्य चढले दत्वाभावपक्षेऽपि धकारो न श्रयेत । चक्राधिपलितं शिरः इत्यत्रापि श्रविशेषेण सखं भवति । "दादेधोर्धः" [ ५३/४६ ] इत्यतो ग्रहणं सिंहावलोकनेन संबध्यते । तेन धोर्विहिते धीत्यभिसम्बन्धादिह न भवति । पयो धावति ।
झलो झलि || ५|३|४४ || झळ उत्तरस्य सकारस्य झलि परतः खं भवति । अभित्त । श्रभित्थाः | "सिलिङ दे” [1111८५ ] इति कित्त्वादेप्रतिषेधः । श्रवात्तामिति वसतेस्तसस्ताम् । सखस्यसिद्ध त्वात् "स्यगे सः” [५।२।१५१] इति तत्वम् । झल इति किम् ? अमंस्त । झलीति किम् ? भैत्सम् ।
प्राद्गोः || ५|३|४५ || प्रान्ताद्गोरुत्तरस्य सकारस्य खं भवति झलि परतः । अकृत अकृथाः । अत । हृथाः । प्रादिति किम् ? ग्रव्योष्ट । अप्लोष्ट | गोरिति किम् ? अलाविष्टाम् । अलाविष्टम् । स्ति प्रादिः परः सकारो न तु गोः । झलीति किम् ? अकृषाताम् । श्रकृपत । ": " [918|८६] इति
For Private And Personal Use Only