________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्र० ५ पा० ३ सू० ३२-३६]
महावृत्तिसहितम्
३६१
त्वान् । तडित्वान् । उदश्वित्वान् । "मत्वर्थे स्तौ” [ ११२२१०८ ] इति भसंज्ञा । ममोङ्क्षय इति किम् ? श्रग्निमान् । अयवादेरिति किम् ? यवमान् । ऊर्मिमान् । भूमिमान् । कृमिमान् । मोङ इति । ककुद्मान् । गरुत्मान् । हरित्मान् । भय इति । शिखिमान् । इक्षुमती । द्रुमती । मधुमान्नाम गिरिः । “खौ” [ ५३३२] इति प्राप्तेः प्रतिषेधः । श्राकृतिगणोऽयम् । नृमत इदं नार्मतमिति बहिरङ्ग आकारः । तेन वत्वाभावः । पदावयवस्य वत्वम् । ततः शीलवतः शीलवद्द्भ्य इति च सिद्धम् ।
खौ || ५|३|३२|| खुविषये च मतोर्यो भवति । कपीवती । ऋषीवती । मुनीवती । "नयां मतुः " [२६५] इति चातुरर्थिको मतुः । “मतौ बह्वच्छादेरनजिरादेः " [४।३।२२२] इति दीत्वम् । श्रासन्दीवान्नाम ग्रामः | आसन्दीवदहिस्थलम् । श्रासनपर्याय आसन्दी शब्दोऽस्ति । तदुक्तम् — श्रौदुम्बरी राज्ञ श्रासन्दी भवति ।
चर्मण्वदष्टीचच्चक्रीवत्कक्षीवद्र मण्वत् ||५|३|३३|| चर्मण्वत् अष्ठोचत् चकीवत् कक्षीवत् रुमण्वत् इत्येते शब्दा निपात्यन्ते खुविषये । चर्मणः परस्य मतोर्नुडागमो निपात्यते मृदन्तनखम् । "श्रट्कुप्वाङ व्यवाये" [ ५४८६ ] इति णत्वम् । चर्मण्वती नदी । चर्मवतीत्यन्यत्र । अस्नोलीभावो वत्वं च निपात्यते । श्रष्ठीवानिति कायैकदेशसंज्ञा । अस्थिमानित्यन्यत्र । चकस्य ईत्वम् । चक्रीवान् । चक्रवानित्यन्यत्र । कक्ष्याया जिर्निपात्यः । “हलः” [४/४/२ ] इति दीत्वम् । कक्षीवान् । कक्ष्यावानित्यन्यत्र । लवणस्य स्मणभावो निपात्यते । रुमण्वान्नाम पर्वतः । लवणवानित्यन्यत्र । रुमन् इति शब्दान्तरं वा मतोनु' इथं निपातनम् ।
उदन्वादधौ || ५|३|३४|| उदन्वानीति निपात्यते । उदकस्य उदभावो मतौ निपात्यते । यत्र प्रयोगो दृश्यते । उदन्वानुदधिः । उदन्वानाश्रमः । श्रयं तु विशेषः । यदा उदकमस्यास्तीति उदकसम्बन्धमात्रविवक्षा तदा उदकवान् घटः । यदा तु उदकं धेयमस्मिन्नस्ति तदा उदन्वान् घट इति ।
राजन्वान सौराज्ये || ५|३|३५|| राजन्वानिति निपात्यते सौराज्ये गम्ये । राजाऽस्मिन्नस्ति प्रशंसायाममतुस्तस्येदन्निपात्यते । राजन्वान्देशः । राजन्वती पृथिवी । सुराज्ञो भावः सौराज्यम् । शोभनेन राज्ञा सम्बन्धस्तदभावे राजवान् इति भवति ।
कृपो रो लोऽकृपादेः || ५ | ३ | ३६ || कृपेर्धो रेकस्य लकारादेशो भवति कृपादीन् वर्जयित्वा । र इति एपि कृते यः केवलोरेफः वर्णैकदेशा वर्णग्रहणेन गृह्यन्ते इति यश्च ऋकारस्थः तयोरिह सामान्येन ग्रहणम् । कल्ता | कल्पिष्यते । कल्प्स्यति । क्लृप्तः । क्लुप्तवान् । " लुटि च क्लृपः " [११२८] इत्यादि च ज्ञापकम् ऋकारस्थस्यापि रेफस्य लश्रुतिर्भवतीति । कृपादेरिति किम् ? कृपा । भिदादित्वादङ । कृपणः । कर्पूरादय श्रौणादिकाः । ये तु प्रतिषेधं नारभन्ते कपेः कृतजित्वस्य लाक्षणिकत्वादग्रहणमिति तेषां यत्नगौरवं स्यात् ।
रतौ || ५|३|३७|| गेर्यो रेफस्तस्यायतिपरस्य लत्वम् । प्लायते । पलायते । ननु चायतिपरत्वं रेफस्य न सम्भवति । " परेऽचः पूर्वविधौ” [91१/५७ ] इत्येकादेशस्य स्थानिवद्भावात् । वचनप्रामाण्यादेकेन व्यवधानमाश्रितम् । एवं च पल्ययते इत्यत्राऽप्यदोषः । सङ्घातेन पुनर्व्यवधानमेव प्रत्ययते इति । ननु वचनस्यावकाशो निलयनं दुलयनमिति भविष्यति । न शक्यमेवम् “पूर्वत्रासिद्धम् " [ ५।३।२७ ] इति रेफख्यासिद्धत्वाल्लत्वाभावः । निरयणम् । दुरयणमिति । यदि लवं दृश्यते कपिलकादिषु द्रष्टव्यम् ।
यो यङि || ५|३|३८|| गिरते रेकस्य लत्वं भवति । निजेगिल्यते । निजेगिल्येते । निजेगिल्यन्ते । " लुपसद" [२।१।२१] इत्यादिना यङ् । नित्यत्वाच्च । “इको दी वरुडः " [ ५३८५ ] इति दीत्यम् । विकरणान्तनिर्देशों गृणातेर्निवृच्यर्थः । जेगीर्यते । यङीति किम् ? निगीर्यते ।
विभाषाऽचि || ५|३|३६|| गिरते रेकस्य विभाषया लत्वं भवति श्रजादी परतः । गिरति । गिलति । निगरणम् | निगलनम् । व्यवस्थितविभाषेयम् । " प्राण्यङ्गे नित्यं लत्वम्” [ वा०] । गलः कण्ठः । “विषे न
For Private And Personal Use Only