________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम् [अ० ५ पा० ३ सू० २६-३१ श्रयो विधिरित्यर्थः। कृतस्तुक् कृत्तु क् । कृदाश्रयो हि तुक् कृतस्तुगुच्यते। राजभ्याम् । राजभिः । “सुपि" [५/२।१७] इति दीलम् । "भिसोत ऐस" [५1१11] इति च न भवति । वृत्रहभ्याम् । वृत्रहभिः। "पिति कृति तुक्" [४॥३॥५६] इति तुङ्न भवति । कृतीति किम् ? वृत्रहच्छत्रम् । छे तुगयम्। "सिद्ध सत्यारम्भो नियमार्थः" [प०] । एतयोरेव नखमसिद्धनान्यत्र । हस्त्यश्वम् । राजीयति । राजाबला । कृत्तु कीति न कर्त्तव्यम् । "सन्निपातलक्षणो विधिरनिमित्त तद्विघातस्य" [40] इति तुग्न भविष्यति । तत् क्रियते ज्ञापकार्थम् । “अबयवनाशिनामतः खं न भवति' इति । अन्यथा तुकः प्राप्तिरत्र नास्ति। नखेऽतः खे च कृते प्रान्तत्वाभावात् । एवं च सुपमेति सिद्धम् । अय वय पय गतौ । पयतेर्मनि कृते "वशि" [५/१/११४] इतीटि प्रतिषिद्ध "वलि व्योः खम्" [४।३।५५] इति यस्खे कृतेऽतः खं न भवति । किं च सन्निपातपरिभाषाश्रयणे वृत्रहच्छत्रमिति तुग्न स्यात् । अथ "असिद्ध बहिरङ्गमन्तरङ्गे" [१०] इत्येव सिद्धं कृत्तु कीति व्यर्थम् । अनित्यैषा परिभाषा। तेन एषा द्वे इति सिद्धम् । अत्राऽन्तरङ्गे टापि कर्तव्ये बहिरङ्गत्यदाद्यत्वं सिद्धम् । पञ्च नार्य इत्यत्र मृदवस्थायामिल्संज्ञा । एकया च संज्ञया अनेक कार्य क्रियते इति ङीप्रतिषेधो जश्शसोः “उबिलः" [५।१।१६] उपि कृते टापः प्राप्तिस्त्यिलिङ्गत्वात्पदार्थस्य । तेनेल्संज्ञाविधौ नखमसिद्धं न कर्तव्यम् ।
न म टाविधी ॥५॥३॥२६॥ मुभावो नासिद्धः सिद्ध एव टाविधौ कर्तव्ये । टा इत्येतस्य स्थाने टा इत्येतस्मिंश्च यो विधिः स टाविधिरुच्यते । अमुना । अदस् टा इति स्थिते त्यदाद्यत्वे “दादुर्दो मोऽदसोऽसेः” [५।३।८८] इति उत्वे मत्वे च कृते मुभावस्याऽसिद्धत्वात् "प्राङो नाऽस्त्रियाम्" [५।२।११३] इति सुलक्षणो नाभावो न स्यात । सिद्धत्वाद भवति । नाभावेऽपि कृते मुभावस्यासिद्धत्वात् । “यज्यतो दीः" [५२।१६] "सुपि" [५।२।] इति दीत्वं प्राप्नोति । तच्च न भवति । टाविधाविति किम् ? इह अमुना नपि "सुपीकोऽचि" [५.११५२] इगभावान्नुम्न भवति । नेति योगविभागादिष्ट सिद्धिः। तेन "हलुङ" [४॥४॥२३] इति नखे कर्तव्ये द्वयोः स्फसंज्ञामाश्रित्य स्फादिसखं सिद्धम् । मग्नः । मग्नवानिति । “धुटः प्राप्तौ श्चुत्वं सिद्धम्" । अट श्च्योतति । अटतीत्यट। जश्त्वं डकारः। सकारश्चुत्वस्यासिद्ध त्वात् । “ड्नाद् धुः सोऽश्वः" [५/४।१३] इति धुभ्याम् । श्योततिः सकारादिः पठ्यते । तथा "अहो नखे कर्तव्ये रिरेफो सिद्धौं"। अहोभ्याम् । अहोभिः । अहर्गच्छति । मृदन्तनखं स्यात् । नखं इति विशेषणादन्यत्रासिद्धत्वम् । दीर्घाहास्तत्रेति "नोड" [ren५] “धेऽकौ" [ ६] इति दीत्वम् । अहन् । "रोऽसुपि" [५।३।७८] इति वचनं किविषये सावकाशम् । हे दीर्घाहोऽत्रेति । हे अहः ।
नखं मृदन्तस्याको ॥५॥३।३०।। मृदन्तस्य नस्य खं भवत्यको परतः । पदस्येति वर्तते । किवजिते स्वादौ पदस्य योऽवयवो मृदन्तस्तस्य नस्य खं भवतीत्यर्थः । राजभ्याम् । राजभिः । राजत्वम् । राजता । राजतरः। राजतमः। मृदग्रहणं किम् ? जिनेन्द्रान् वन्देरन् । अस्ति पदस्य नकारोऽन्तश्च न तु मृदः। किन्तु विभक्त्याः । अन्तस्येति किम् ? नटाभ्याम् । वनाभ्याम् । अयं पदस्यावयवो नकारो न तु मृदन्तः । पदस्येति किम् ? राजानौ । राजानः । राज्ञे । अस्ति मृदन्तो नकारो न तु पदसंज्ञकस्य । अकाविति किम् ? हे राजन् । अकावितीपदर्थे नत्र । तेन "नपुसके वा प्रतिषेधः” । हे चर्मन् । हे चर्मेति । अकाविति नखप्रतिषेधवचनं ज्ञापकम् । त्यखे त्यानयन्यावेन कृदधृन्नियमान्मृत्संज्ञा न निवर्तते । मसंज्ञा च न भवति । तेन राजेत्यत्र राज्ञः पुरुषो राजपुरुष नखं सिद्धम् । “अनोऽखमम्बस्फात्" [१४/१२२] इति भकार्य च न भवति । हे राजवृन्दारक इत्यादौ क्यन्तयोरनभिधानाद्य ससमुदायात्किः । तत उत्तरपदे नखं न वक्तव्यम् ।
ममोझयो मतोर्वोऽयवादेः ॥५॥३॥३१॥ मकारान्तात् अवर्णान्तात् मकारोङः अवर्णोडो झयन्ताच्च यवादिवर्जितात् उत्तरस्य मतोर्वकारादेशो भवति । मृदो हि मतुर्विहितस्ततः “परस्यादेः" [१।१।५१] इति वत्वम् । नुम्वान् । गुणवान् । विद्यावान् । मोङः । शमीवान् । दाडिमीवान् । यशस्वान् | भास्वान् । झयः। मरु
For Private And Personal Use Only