________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अं० ५ पा० ३ सू० २८]
महावृत्तिसहितम् [४।३।७५] "स्वेऽको दीः [४।३।८८] इति च न भवति । अमुष्मै। अमुष्मात् । अमुष्मिन् । उत्वशास्त्रस्यासिद्धत्वात्स्मायादयो भवन्ति ।
शुष्किका यन् सुशर्माणः क्षामिमानौजिढत् सुगीः ।
पक्वमाशीःषु गोलिएमान कुर्वन्ति पिपठीः सुभुत् ॥ शुकिकेति "शुपि पचेः क्वी" [५।३।६७] इति कादेशः। टाप् । कुत्साद्यर्थे कः । पुनप्टाप् । "केऽणः" [५१२५] प्रः । कत्वस्यासिद्धत्वात "वातोऽधोयंकात" ५/१५१] इति विकल्पो न भवति । "त्यस्थे क्यापी" [५।२।५०] इति नित्यमित्त्वम् । यन्निति स्फान्तखस्यासिद्धत्वान्मृदन्तनखं न भवति । सुशर्माण इति णस्यासिद्धत्वात् नोङः “धेऽकौ" [१६] इति दीत्वम् । बै जै सै क्षये क्तः। "क्ष मः" [५।३।६८] इति मत्वम् । क्षामोऽस्यास्तीति क्षामी । सोऽस्यास्तीति क्षामिमान् । मत्वस्यासिद्धत्वात् “ममोड झयो मतोर्वोऽयवादेः" [५।३।३१] इति मनोवत्वं न भवति । ऊढमाख्यत् णिचि लुङि कचि च कृते "अचः" [४।३।२] इति द्वितीयस्यैकाचो द्वित्वे कर्तव्ये ढत्वादेरसिद्धत्वात् हतिकारयोर्द्वित्वम् । “हलोऽनादेः" [५।२।१६१] इति तखम् । हकारस्य चुत्वम् । औजिदत् । ननु णौ च यहिखं तस्य स्थानिवद्भावाविरुच्यते । अनक्ख इति प्रतिषेधात् सनीत्वं नास्ति । तत औजढत् इति भवितव्यमिति केचित् । तदयुक्तम् । णो कृतं स्थानिवद् भवति । न च टिखं णौ कृतम् । किन्तहीष्ठ । ततो "द्वित्वेऽचि" [११५६] इति स्थानिवद्भावात् सणेर्द्वित्वम् । ननु च "पूर्वत्रासिद्धीयमद्वित्वे" इति वक्ष्यति । तत्कथमसिद्धत्वं ढत्वादेः। न। "सर्वस्य द्वे" [५।३।१] इत्येतद्वित्वं तत्र गृहयते । तेन गलो गल इति लत्यं सिद्धम् । सुगीरिति विसर्जनीयस्यासिद्धत्वात् “इको दी वोरुङः" [५।३८५] इति दीत्वम् । पकमिति वत्वस्यासिद्धत्वात् झलि चोः कुत्वम् । आशी:विति “रेश्व सुपि" [५।२।२४] इति सत्वस्यासिद्धत्वात् "इको दी वोरुङः" [५।३८५] इति दीत्वम् । गोलिएमान् इति ढत्वस्यासिद्धत्वात् “झयः" [५।३।३०] इति बत्वं न भवति । कुर्वन्ति इत्यनुस्वारपरस्वस्यासिद्धत्वाण्णत्वं नास्ति । पिपठीरिति षत्वस्यासिद्धत्वाद्रित्वम् “परेऽचः पूर्वविधौ” [१1१1१७] इति अतः खस्य स्थानिवद्भाव इति चेत् ; न; पूर्वत्रासिद्ध न स्थानिवत्" इति । सुभुदिति जश्त्वस्यासिद्धत्वात् भषन्तस्य बशो भष्भावः। वृक्षो हसतीति रेरसिद्धत्वेऽप्युत्वं वचनाद भवति । अपवादस्य परस्यापि वचनप्रामाण्यान्नासिद्ध त्वम् । वृक्ष इति जश्त्वापवादो रित्वम् । दोग्धा इति ढत्वापवादो घत्वम् । काष्ठतडिाते स्फान्तखापवादः स्फादिखम् । येऽत्र कानिर्देशास्तानिर्देशा ईनिर्देशाश्च "रात्सः" [५।३।४२] । “स्फान्तस्य खम्" [५।३।४१] "झलो झलि" [५।३।४४] इत्यादयस्तेषाम् “ईप्केत्यव्यवाये पूर्वपरयोः" [1११६०] “तास्थाने' [११४६] इति च नियमे कर्तव्ये नासिद्धत्वम् । “कार्यकालं संज्ञापरिभाषम्" [१०] इति पूर्वत्वं नास्ति । इह विस्फोर्य्यम् अवगोर्यम् इत्येपं बाधित्वा परत्वेन "हल्यभकुर्छरः" [५।३।८६] इति दीत्वं नास्ति । "पूर्वत्रासिद्धे नास्ति स्पर्दोऽसत्त्वादुत्तरस्य' । विशेषवचन इति वर्तते । विशेषे इदमसिद्धम् । तेन क्वचिदिष्टे विषये सिद्धत्वं भवति । तादेशः प्रत्वत्येड्विधिषु सिद्धेः । अन्यथा वृक्णः वृक्णवान् इति झलीति पत्वं स्यात् । क्षीबेण तरति क्षीविकः । द्वयज्लक्षणष्टो न स्यात् । क्षीर इति वलादित्वादिटू स्यात् । छे तुकि पविधिः सिद्धः अग्ना३ इ छत्रम् । पटा३ उ छत्रम् । छ इति किम् ? अग्निची ३त् । चस्य जश्वचर्वमेवतुकोः सिद्धम् । बभणतुः । बभणः । अादेशस्यासिद्धत्वादेत्वं प्राप्नोति । उचिच्छिषतीति चादेशस्यासिद्धत्वाच्छे तुक प्राप्नोति । यत्वेि परस्वत्वं सिद्धम् । सँय्यतः । सव्वत्सरः । यल्लोकम् । तल्लोकम् । यर इति द्वित्वं न स्यात् । “सर्वस्य द्व"५३ा इति द्वित्वे धत्वादयः सिद्धाः। द्रोग्धा द्रोग्धा । द्रोढा द्रोढा। गरोगरः। गलोगल इत्यादि । घत्वादीनामसिद्धत्वात । प्रारिद्वत्वे पश्चाद्वि कल्पे सति रूपवैषम्यं स्यात् । गरोगल इति ।
नखं सुविधिकृत्त कि ॥५॥२८॥ सुपः स्थाने विधि सुपि च विधिं कृति विहितं च तुक प्रति नखमसिद्धं भवति । विधीयते इति विधिः कार्यम् । ऐस्भावदौत्वादिः। सुपो विधिः सुब्विधिः एको विग्रहः सुवा
For Private And Personal Use Only