________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनेन्द्र-व्याकरणम्
[अ० ५ पा० ३ सु० २१-२७
युवां आवां च रक्षतु । युष्मान् अस्माश्च रक्षतु | ज्ञानं तव च स्वम् । ज्ञानं मम च स्वम् । युवयोः आवयोश्च स्वम् । युष्माकं अस्माकं च स्वम् । ज्ञानं तुभ्यं मह्य वा दीयते । ज्ञानं तुभ्यं महूयं ह दीयते। ज्ञानं तुभ्यं मह्यमह दीयते । ज्ञानं तुभ्यं मह्यमेव दीयते। इत्यादि योज्यम् । योग इति किम् ? ज्ञानं च मे स्वम् । नात्र चादिभिर्युप्मदस्मदोर्योगः । किन्तर्हि ? ज्ञानस्य ।
दृश्यर्थैश्चिन्तायाम् ॥३।२१॥ चिन्तायां वर्तमानैदृश्यर्थे(भियोगे युष्मदस्मदोर्वाम्नावादयो न भवन्ति । अत्र साक्षायोगे तद्युक्त योगे च प्रतिषेधः । ज्ञानं तुभ्यं दीयमानं समीक्ष्यागतो जनः । ज्ञानं महूयं दीयमानं समीक्ष्यागतः । साक्षायोगे ग्रामस्त्वां समीक्ष्यागतः । ग्रामो मां समीक्ष्यागतः । ज्ञानं तव स्वं समीक्ष्यागतः। शीलं मम स्वं समीक्ष्यागतः। सन्दृश्य संचिन्त्य निरूप्येति यावत् । दृश्यथैरिति किम् ? ग्रामस्त्वा मन्यते । अस्ति चिन्तार्थो मन् धर्न तु दृश्यर्थः । चिन्तायामिति किम् ? ग्रामस्त्वा पश्यति । अत्र चक्षदर्शने दृशिर्वर्तते । तेन न प्रतिषेधः ।
वाऽनन्वादेशे ॥५॥३॥२२॥ युष्मदस्मदोर्वाम्नावादयो वा भवन्ति अनन्वादेशे। ग्रादेशः कथनम् । अन्वादेशोऽनुकथनम् । नान्वादेशोऽनन्वादेशः। तत्र विकल्पोऽन्वादेशे नित्यो विधिः। ज्ञानं ते दीयते । ज्ञानं तुभ्यं दीयते । ज्ञानं मे दीयते । ज्ञानं महयं दीयते । इत्यादि योज्यम् । अनन्वादेश इति किम् ? अथो ज्ञानं ते दीयते । अथो ज्ञानं मे दीयते । पूर्व किञ्चिदादिश्य इदमादिश्यते इत्यन्वादेशोऽयम् ।
सपूर्वाया वायाः ॥२३॥ विद्यमानपूर्वाद् वान्तात्परयोयुष्मदस्मदोर्वा वाम्नावादयो भवन्ति । अनन्वादेशे सामान्येन सिद्धम् । अन्वादेशार्थमिदम् । अथो आचार्येण ज्ञानं ते दीयते । अथो आचार्येण ज्ञानं तुभ्यं दीयते । इत्यादि।
बोध्यमसदवत् ॥५॥३॥२४॥ बीध्यान्तं पदमसदबद् भवति । बोध्यमिति सम्बोधनलक्षणाया वाया ग्रहणम् । असदद्वद्भावे प्रयोजनम् । बोध्यान्तात्परयोर्युष्मदस्मदोरादेशनिवृत्तिः। देवदत्त तुभ्यं दीयते । देवदत्त मादीयते । इत्यादि नेयम् । इह च देवदत्त ज्ञानं ते । देवदत्त ज्ञानं मे । “सपूर्वाया वायाः" [५/३१२३] इत्यन्वादेशे विकल्पो न भवति । वत्करणं स्वश्रुत्यनिवृत्त्यर्थं कार्य प्रत्यसद् भवति ।
कार्थे बोध्ये सामान्यवचनम् ॥५॥३॥२५॥ एकार्थे बोध्यान्ते परतः सामान्यवचनं बोध्यान्तं नासदभवति किन्तु सददेव भवति एकार्थः विशेषलक्षणो यस्य तदिदमेकार्थे विशेषवचनमित्यर्थः । कथं ज्ञायते ? सामान्यवचनम् इति निर्देशात् । परस्य विशेषवचनत्वमपेक्ष्य सामान्यवचनत्वं भवति । क्षत्रिय श्रेणिक ते धर्मो दीयते । क्षत्रिय श्रेणिक त्वाऽहनरक्षतु । क्षत्रिय श्रेणिक ते धर्मों वर्धताम् । एकार्थ इति किम् ? क्षत्रिय ब्राहाण युवाभ्यां धर्मो दीयते । बोध्य इति किम ? क्षत्रिय धनवान् मे त्वं देहि । पूर्वस्य सत्वे "सपूर्वाया वायाः" [५।३।२३] इत्येष विधिः प्रसज्येत । सामान्यवचनमिति किम् ? श्रेणिक क्षत्रिय तुभ्यं धर्मो दीयते ।
घा विशेषवचने वहौ ॥५॥३।२६।। विशेषवचने बोध्ये बह्वन्ते परतः सामान्यवचनं वा बोध्यान्तमसद् भवति । देवाः शरण्या वो दीयते । देवाः शरण्या युप्मभ्यं दीयते । “नकार्थे बोध्ये सामान्यवचनम्" [५।३।२५] इत्यस्यायं विकल्पः। सामान्यवचनमित्यनुवृत्तेः परस्य विशेषवचनमनुक्तं सिद्धम् । तत्कृतं स्पष्टार्थमुत्तरार्थ च ।
पूर्वत्रासिद्धम् ॥५॥३॥२७॥ पूर्वत्र इति असिद्धमिति च एतदधिकृतं वेदितव्यम् आ शास्त्रपरिसमाप्तः । येयं चतुरध्यायी सार्धद्विपादाऽतिक्रान्ता तस्यामयं सार्धद्विपादोऽसिद्धो भवति । इत उत्तरं च उत्तरोत्तरो योगः पूर्वत्र पूर्वत्रासिद्धो भवति । असिद्धवद्भवति । शास्त्रासिद्धत्वेन तदाश्रयं कार्य न भवतीत्यर्थः । अस्मा उद्धरति सिद्धा अत्र | असा आदित्यः। “व्योः खम्" [५४५] इत्यस्य यवखशास्त्रस्याऽसिद्धत्वात् “श्रादेप"
For Private And Personal Use Only