SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अ० ५ पा० ३ सू० १३ -२० ] महावृत्तिसहितम् ३८७ द्वन्द्वं रहस्य |||३|१३|| द्वन्द्वमिति निपात्यते रहस्यादावर्थे । द्वि श्री इत्यस्य द्वित्वे सुबुपि पूर्वोत्तरपदयोरिकारस्याम्भावोऽत्वं च निपात्यते रहस्यप्रकारेऽर्थे रहस्याभिधाने । द्वन्द्वं मन्त्रयते । द्वन्द्वं मन्त्रयेते । द्वौ द्वौ रहसि मन्त्रयेते इत्यर्थः । मर्यादावचनादयो विषयत्वेनाश्रीयन्ते । मर्यादायाम् सप्तमनरकाद्धोऽधो द्वन्द्वं रपटलानि हीनानि व्युत्क्रमणं भेदः पृथक्स्थानम् । तत्र द्वन्द्वं व्युत्क्रान्ताः । द्विवर्गसम्बन्धेन भिन्ना इत्यर्थः । यज्ञपात्रप्रयोगे, द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति । अभिव्यक्तौ द्वन्द्वं नारदपर्वतौ । द्वन्द्वं सूर्याचन्द्रमसौ । विधिव्राह्मणौ द्वन्द्वम् । " वा वीप्सायां द्वन्द्वः " वीप्सायां द्वन्द्वं द्वौ द्वौ । वृत्तिविशेषे “चार्थे द्वन्द्वः” [११३।६२ ] अन्यत्रापि दृश्यते । द्वन्द्वानि सहते । द्वन्द्वं युद्धं कृतम् । अतएव च रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिरूपं परिगणनं न कृतम् । Acharya Shri Kailassagarsuri Gyanmandir पदस्य || ५|३|१४|| पदस्येत्ययमधिकारो वेदितव्य या शास्त्रपरिसमाप्तेः । वक्ष्यति " नखं मृदन्तस्थाकी [ ५1३1३० ] इति । राजभ्याम् । राजभिः । तथा "स्फान्तस्य खम्” [ ५/३/४१ ] इति पतन् । यजन् । अत्रार्थवशात्पदस्येत्यवयवे ता द्रष्टव्या । पदस्येति किम् ? राज्ञे । राज्ञः । भसंज्ञया नपुंसकलिङ्गा पदसंज्ञा बाध्यते vairaat |||३|१५|| पदादिति श्रपादादाविति च एतद्वितयमधिकृतं वेदितव्यं प्रागसिद्धाधिकारात् । वक्ष्यति "बहोर्वस्नसौ” [ ५|३|१७ ] इति । ग्रामो वो दीयते । नगरं नो दीयते । पदादिति किम् ? युष्मभ्यं ग्रामो दीयते । अपादादाविति किम् ? 'शान्तिनाथो जिनः सोऽतु युष्माकमघशान्तये । "येन संसारताभीतिरस्माकमिह नाशिता || युष्मदस्मदोऽविप्तास्थस्य घनावी ||५|३|१६|| पदात्परयोरपादादौ वर्तमानयोर्युष्मदस्मदित्येतयोरइस्तासु स्थितयोर्याम्नी इत्येतावादेशौ भवतः । युष्मदस्मदिति इतरेतरयोगलक्षणो द्वन्द्वः । श्रोसः स्थाने उस्कृतः सौत्रत्वानिर्देशस्य । पदस्य सर्वस्येति च वर्तते । यदि वा पदस्येति स्थानलक्षणाऽत्र ता सम्पद्यते, सर्वस्य पदस्य स्थाने श्रादेशः । एकबहोरादेशान्तरं वक्ष्यति । तो द्विविषये विधिः । ज्ञानं वां दीयते । शीलं नौ दीयते । ज्ञानं वां रक्षतु । शीलं नौ रक्षतु । ज्ञानं वां स्वम् । शीलं नौ स्वम् । बिप्तास्थस्येति किम् ? दानं युवाभ्यां कृतम् । स्थग्रहणं किम् ? श्रूयमाणविभक्त्यां यथा स्यात् । इह मा भूत् । इति युष्मदुपाध्यायः । पदविधिरयम् । श्रसामर्थ्यं न भवति । आवाभ्यां भाव्यते ज्ञानम् । युवाभ्यां दीयते दानमिति । अथेह सामर्थ्येऽपि कस्मान्न भवति ? ओदनं पच तव भविष्यति मम भविष्यतीति । " समाने वाक्ये युष्मदस्मदादेशविधिरिष्यते" । इह तु ओदनं पचेत्येकं वाक्यं तव भविष्यतीति द्वितीयं वाक्यम् । श्रवश्यं समानवाक्याधिकार एष्टव्यः । शालीनां ते श्रोदनं ददातीत्यत्रापि यथा स्यात् । श्रन्यथा शालीनामित्यस्य ते इत्यनेन सामर्थ्याभावान्न स्यात् । बहोस्नसौ || ५|३|१७॥ बह्वन्तयोर्युध्मदस्मदोर्वस्नस् इत्येतावादेशौ भवतस्तास्वेव विभक्ती | ज्ञानं वो दीयते । शीलं नो दीयते । ज्ञानं वो रक्षतु । शीलं नो रक्षतु । ज्ञानं वः स्वम् । शीलं नः स्वम् । एकस्य ते मे || ५|३|१८|| एकान्तयोर्युष्मदस्मदोस्ते मे इत्येतावादेशौ भवतः । एक इति त्यः । “त्यग्रहणे यत्मात्स तदादेर्ग्रहणम्" [१०] । ज्ञानं ते दीयते । शीलं मे दीयते । इपो वक्ष्यति । ज्ञानं ते स्वम् । शीलं मे स्वम् । त्वामाविषः || ५|३|१६|| एकस्येति वर्तते । इबेकान्तयोर्युष्मदस्मदोस्त्वा मा इत्येतावादेशौ भवतः । ज्ञानं त्वा रक्षतु । शीलं मा रक्षतु । न चाहा हैवयोगे || ५|३|२०|| च वाह अह एव इत्येतैयोंगे युष्मदस्मदोर्वाम्नावादयो न भवन्ति । ज्ञानं तुभ्यं मह्यं च दीयते । युवाभ्यां आवाभ्यां च दीयते । युष्मभ्यं अस्मभ्यं च दीयते । ज्ञानं त्वां मां च रक्षतु । For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy