________________
Shri Mahavir Jain Aradhana Kendra
३८६
www.kobatirth.org
जैनेन्द्र-व्याकरणम्
[ श्र० ५ पा० ३ सू० १-१२
[सर्वस्य द्वे || ५|३|१|| परो ब्रिः || ५|३|२|| नित्यवीप्सयोः ||५|३|३|| परेर्वर्जने || ५|३|४|| उपर्यध्यधसः सामीप्ये || ५|३|५|| वाक्यादेवध्यस्यासूयासम्मतिकोपकुत्सनभर्त्सनेषु || ५|३|६॥ एको वचत् ||५|३|७|| श्रावाधे च ॥ ५३८ ॥ ]
'कश्चिदेवं प्रयुङ्क्ते इत्याबाधः । प्रयोक्तव्या । ( ? )
Acharya Shri Kailassagarsuri Gyanmandir
वदुत्तरे ||३|१९|| उत्तरे द्वित्वे यस्येव कार्यं भवति । वक्ष्यति " प्रकारे गुणोक्तेः " [५|३|१० ] इति । पटुपटुः । पटुपट्वी । कालककालिका । सातिदेशे "न बुहृत्कोड:" [ ४|३|१४६ ] इति पुंवद्भावप्रतिषेधः स्यात् । यसे तु " पुंवद्यजातीयदेशीये” [ ४ | ३|१५४ ] इति भवति । श्रधिकारेणाऽप्येत सिद्धम् । उत्तरग्रहणं ज्ञापकार्थम् । अयमधिकारः । “एको बवत्" [ ५/३/७ ] इत्यादिलक्षणं चाधिकारश्च । तेन एष तवाञ्जलिरेष तवाञ्जलिः । अहो दर्शनीया ग्रहो दर्शनीया । आधिक्येऽनि द्वित्वमुक्तम् । " स्वार्थेऽवधार्य - मस्मिन् द्व े भवतः " [ वा० ] अस्मात्सुवर्णादिह भवद्भ्यां मात्रं माषं देहि । अत्र द्वावेव मात्रौ दीयेते न सर्वे माषाः । तेन वीप्सा नास्ति । श्रवधार्यमाण इति किम् ? इह भवद्भ्यां मात्रमेकं देहि । “पूर्वप्रथमयोरतिशयेद्व े भवतः " [ वा० ] पूर्वं पूर्वं पुष्यन्ति । प्रथमं प्रथमं पच्यते । वेत्यधिकारायदा न द्वित्वं तदाऽतिशायिकः । पूर्वतरं पुष्यन्ति । प्रथमतरं पच्यन्ते । “समसम्प्रधारणायां किम श्राक्षेपे द्व े भवतः " [ वा० ] । उभाविमावाहयौ कतरा कतराऽनयोस्तयोरायता । कतमा कतमानयोरायता । कीदृशी कीदृशी अनयोरायता । कतरः कतरोऽनयोविभवः । " कर्मव्यतिहारे सर्वनाम्नो द्वित्वं सवच्च बहुलम् " [ वा० ] तत्र वेत्यधिकाराल्लभ्यते । सवत्पक्षे पूर्वपदस्यान्यशब्दस्य सुरेव | सद्भावे च मिभूतस्यादेरुत्वं परशब्दस्य सुट् । श्रन्योन्यमिमे ग्रामा भोजयन्ति । अन्योन्यस्य भोजयन्ति । पुत्रादीति गम्यते । एवमितरेतरेषाम् । इतरेतरस्य । परस्परं परस्परस्य भोजयन्ति । "स्त्रीनपुंसकयोर्विभक्त्या वाऽम्भावो द्योस्तु" [ वा० ] अन्योन्यं नार्यौ भोजयतः । अन्योन्यां वा । ग्रन्योन्यं कुले भोजयतः । ग्रन्योन्यं वा । अन्योन्यं नार्यो भोजयन्ति । अन्योन्यां वा । अन्योन्यं वा कुलानि भोजयन्ति । अन्योन्यं वा । इत्यादि सिद्धम् ।
प्रकारे गुणोक्तेः || ५|३|१०|| प्रकारे वर्तमानस्य गुणोक्तेद्वे भवतः । प्रकारः सादृश्यमिह गृह्यते । उच्यते इत्युक्तिरभिधेयं वस्तु । गुण उक्तिरभिधेयोऽस्येति गुणोक्तिः, तस्य द्वित्वम् । पहुपदः । परिडतपडितः । पटुपट्वी । पण्डितपण्डिता । उत्तरसूत्रे वाग्रहणमिह सिंहावलोकनेन सम्बध्यते । तेन जातीयोऽपि भवति । पटुजातीयः । मृदुजातीयः । द्वित्वजातीययोर्विधेयाभेदे मृदुमृदुजातीय इत्यनिष्टं स्यात् । प्रकार इति किम् ? शुल्को गुणः । अग्निर्माणवकः । गौर्वाहीकः । सदागुणवचनो यः प्रकारे वर्तते तस्य द्विम् । यं तूपमानात्सर्वद्रव्यवचनः ।
प्रियसुखयोर्वाsकृच्छ्रे || ५|३|११|| प्रिय सुख इत्येतयोरकृच्छे वा द्वे भवतः । प्रियप्रियेण ददाति । प्रियेण ददाति । सुखसुखेनाधीते । सुखेनाधीते जैनेन्द्रम् | प्रयासेनेत्यर्थः । कृच्छ इति किम् ? प्रियः पुत्रः । सुखो रथः । प्रीणातीति प्रियः । मुखयतीति सुखः ।
१. प्रतिषु [ सृत्यात्र निर्दिष्टानि ।
tered यथायथम् ||५|३|१२|| यथायथमिति निपात्यते यथास्वेऽर्थं । सर्वे ज्ञाता यथायथम् । यथास्वभावं यथाऽत्मीयं चेत्यर्थः । यथाशब्दस्य द्वित्वमम्भावश्चान्ते निपात्यते । यो य श्रात्मा यो य ग्रात्मीयो वा यथास्वम् | " यावद्यथा” [ ११३१६] इति वीप्सायां हसः । झिसंज्ञकं वा यथायथमिति शब्दान्तरमस्मिन्नर्थे साधुत्वेनान्वाख्यातम् ।
] कोष्टकान्तर्गतानां सूत्राणां वृत्तिस्रुटिता । सूत्राणि तु जैमेन्द्रपञ्चाध्यायीमनु
For Private And Personal Use Only