________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ५ पा० २ सू० १८८-१६४] महावृत्तिसहितम्
रुग्रिको चोपि ॥२।१८८॥ ऋत्वतो गोश्चस्य यपि रुग्रिको भवतः रीक् च । ननति । नरिनति । नरीनति ।
ऋतः ॥५॥२॥१८६॥ ऋकारान्तस्य गोर्यश्चस्तस्य यपि रुग्रिको भवतः रीक्च । तपरकरणसामर्थ्याहता गुर्विशेष्यते । चर्कति । चरिकर्ति । चरीकति । जर्हति । जरिहर्ति । जरीहति । “अदोऽट्" [५।२६५] इत्यत्रोक्तं चानुकृष्टमपि क्वचिदुत्तरत्रानुवर्तते तेन रीक् । तपरकरणं किम् ? कृ गृ । चाकर्ति । जागर्ति । ननु च "रुग्रिको चोपि" [५।२।१८७] इत्यनेनैव तृतयं सिद्धम् । तत्रापि "ऋत्वतः" [५।२।१८६] इति तपरकरणमस्ति तेन चाकयादौ न भविष्यतीति चेत् । तत्र तपरकरणं लाक्षणिकार्थमुक्तमिति किरत्यादेर्निवृत्तिन स्यात् ।
घौ कच्यनक्खे सन्वत् ॥१२।१९०॥ कपरे घिसज्ञके वर्णे यश्चस्तस्य सनीय कार्य भवति अनक्खे । “सन्यतः" [५।२।१७७] इतीत्वमुक्तम् । कच्यपि तथा अचीकरत् । अपीपचत् । "ओः पुयराज्ये" [५।२।१७८] कच्यपि तथा । अपीपठत् । अलीलवत् । अजीजवत् । वा स्रवत्यादीनां कच्यपि तथा । असिस्रवत् । असुस्रवत् । अदिद्रवत् । अदुद्रवत् । ननु हला व्यवधानात् कथं कच्परो पवर्णः ? वचनप्रामाण्यादेकेन व्यवधानमाश्रितम् । घाविति किम् ? अततक्षत् । अचभासत् । कचीति किम् ? अहं पपच । अनक्ख इति किम् ? स्तनमाख्यत् अतस्तनत् । वनमाख्यत् । अववनत् । “णाविष्ठन्मृदः” [४।४।१४६] इति इष्टद्भावः "तुरिटेमेयस्सु" [४।४।१४४] “टेः" [४।१४५] इति टिखम् । इह कस्मान् न भवति । अचकमतेति कज्विषये। “वागे" [२१११२७] इति णिडोऽनुत्पत्तिपक्षे कचि कृते । अत्रोच्यते-नैवं ज्ञातव्यम् । अकः खम् अक्खम् । अक्खेनेति । किं तर्हि ? अक् खं यस्मिन्निमित्तभूते सोऽयमक्खो न अक्खो अनक्खः तस्मिन् । पर्युदासवृत्त्या अनक्खनिमित्ते णौ मध्यगते सन्वद्भाव इत्यदोषः । तथा अकः खं यस्मिण्णिसामान्ये अन्यस्य । न तु णौ गिखमकः खम् । तेन वादितवन्तं प्रयोजितवान् अवीवदत् । ननु अजजागरदित्यत्र गकारऋकारे घिसज्ञामाश्रित्य प्राप्नोति सन्वद्भावः । वचनप्रामाण्याद् व्यवधानेऽपि सन्वद्भावेन भवितव्यम् । सर्वत्रापीपचदित्यादावपि चस्थानान्तर्य घिना नास्ति । नायं दोषः। वचनप्रामाण्यादिहेकवर्णेन व्यवधानमिष्टं सङ्घातेन पुनर्व्यवधाने भवति न भवति च । तत्र "त्वर" [५२।१६२] यादीनामित्त्वापवादार्थमत्ववचनं ज्ञापकम् । हल्लंघातेन व्यवधाने भवति । अचिकणत । अवित्रजत इति । अज्झल सङ्घातेन व्यवधाने तु न भवति । अमीमपदित्यादी "स्सनि मीमा" [५।२।३५५] इत्येष विधिः कस्मान्न भवति ? णिजन्तस्य प्रकृल्यन्तरत्वात् ।
घेर्दीः ॥५॥२॥१६॥ चस्य घेर्भवति घौ कच्परेऽनक्खे । अचीकरत् । अजीहरत् । अबूबुधत् । घेरिति किम् ? अविबजत् । घावित्येव । अध्यापिपत् । “द्वित्वेऽचि" [११५६] णिवस्य स्थानिवद्भावात् “अचः" [४॥३॥२] इति द्वितीयस्यैकाचो द्वित्वम् । अत्र कच्परो घिवर्णो नास्ति । कचीत्येव | अहं पपच । यत्र सन्वद्भावो नास्ति तत्र दीत्वमिह मा भूत् । अचकमत । अनक्व इत्येव । अचकथत् । “श्राद्यतः" [५।२।१७०] इत्यतः श्रादेरिति वर्तते तेनादेश्वस्य दीर्भवति । न द्वितीयस्यैकाचो यश्चस्तस्येति । प्रौणु नवदिति ।
स्मृद त्वरप्रथम्रदस्तस्पशोऽत् ॥५॥२।१६२॥ स्मृ द त्वर प्रथ म्रद तृ स्पश इत्येतेषां चस्य अदा देशो भवति कच्परे द्यौ परतः । असस्मरत् । अददरत् । अतत्वरत्। अपप्रथत् । अमम्रदत् । अतस्तरत् । अपस्पशत् । सन्वद्भावादित्वे प्राप्त वचनम् । अदिति तपरकरणं घेर्दीत्वनिवृत्त्यर्थम् । अददरत ।
चा वेष्टिचेष्टयोः ॥५२।१६३॥ वेष्टि चेष्टि इत्येतयोश्चस्य वो अद्भवति कचि परतः । अववेष्टत् । अविवेष्टत् । अचचेष्टत् । अचिचेत् । इकारस्यानेनात्वम् ।
ईच्च गणः ॥शरा१६४|| गण्यतेश्चस्य ईकारादेशो भवति अच्च कचि परतः। अजीगणत् । अजगणत् । अनक्ख इति प्रतिषेधात् सन्वद्भावो नास्ति । तदर्थमिदम् । चकारोऽदनुकर्षणार्थः ।
___ इत्यभयनन्दिविरचितायां जैनेन्द्रमहावृत्तौ पञ्चमाध्यायस्य द्वितीयः पादः समातः।
For Private And Personal Use Only