Book Title: Jainendra Mahavrutti
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, Shambhunath Tripathi, Mahadev Chaturvedi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 459
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्र० ५ पा० ३ सू०८-१२] महावृत्तिसहितम् ३६६ 1 दादुर्दो मोऽदसोऽसेः || ३८८ ॥ अदसः सकारस्य दात्परस्य वर्णमात्रस्य उवणादेशो भवति दकारस्य च मकारः । श्रमुम् । अम् । श्रमून् । श्रमुना । श्रमूभ्याम् । उत्वस्यासिद्धत्वात्प्राक् सन्धिकार्यम् । भाव्यपि क्वचित्स्वं ग्रहणात्युक्तम् । ततः "स्थानेऽन्तरतमः " [१|१|४७ ] इति मात्रिका र्धमात्रिकयोर्मात्रिको द्वित्रस्य द्विमात्र उकारो भवति । सेरिति किम् ? अदस्यति । "स्वेपः क्यच् " [ २ | १|६ ] | सेरिति यद्यविद्यमान सकारस्येत्युच्यते । अदः कुलम् । श्रदोऽत्र इत्यत्रापि स्यात् । एवं तर्हि अः सिर्यस्मिन् सोऽयमसिः । अकारीभूतः सिर्यस्मिन्नित्यर्थः । तस्यासेरुत्वम् । तेन त्यदाद्यत्वविषये विधिः । “विश्वग्देवयोश्च टेरद्र्यन्त्रों को " [३|४|१६८ ] इति द्रयादेशे कृते दर्शनभेदः । “अन्त्य विकारेऽन्त्यसदेशस्य " [ ५० ] इति परिभाषा नाश्रिता तेषाम् " श्रदे सोsहौ” परतः उत्वं भवति । श्रमुद्रयङ् | "पृथङ मत्वं केचिदिच्छन्ति लत्ववत्" । चलीकृप्यते । क्लृप्तः । कल्पकः । इत्यत्र लाक्षणिकस्य रेफस्य ऋकारस्य च लत्वम् । एवमन्यत्रापि । मुमुयङ् । परिभाषाश्रयणे तु " केचिदन्त्यसदेशस्य" श्रदमुयङ् । त्यदाद्यत्र विषय एव मुल्यम् । “नेत्येकेऽसेहि दृश्यते" | यङिति चत्वारो भेदाः । दादिति किम् ? अमुया । श्रमुयोः । स्त्रियां सोः परतः त्यदाद्यत्वे अपि "श्राङि चाप: " [ ५/२/१०० ] इति एत्वे यादेशे च कृते " श्रन्तेऽल: " [11१1४६ ] इति यकारस्योत्वं मा भूत् । वहावीरेतः ॥५३॥८६॥ वही निमित्ते निष्पन्नस्य अदसः दात्परस्यः एतः ईकारादेशो भवति । अमी । अमोभिः | श्रमीभ्यः । श्रमीषाम् । श्रमीषु । अथवा चहाविद्यर्थनिर्देशः । बहाव वर्तमानस्य अदसः इति ज्ञेयम् । पारिभाषिके हि ग्रमी इत्यत्र परत्वासम्भवान्न स्यात् । वाक्यस्य टेः पः ॥ ३६० ॥ वाक्यस्य टेः पो भवतीत्येषोऽधिकारो वेदितव्यः । वक्ष्यति "दूराद्वते" [५/३/१२] श्रागच्छ भो देवदत्ता३ । वाक्यग्रहणं किम् ? अन्त्यस्य यथा स्यात् । पदाधिकारात् सर्वेषां पदानां मा भूत् । टेरिति किम् ? "अवश्च" [ १1१1१२] इति अनन्तस्याप्यचो यथा स्यात् । अन्यथा अचा वाक्ये विशेष्यमाणे हलन्तस्य न स्यात् । ऋचो विशेष्यत्वे सर्वेषामचां स्यात् । प्रत्यभिवादेऽद्रव्यसूयके || ५|३|११|| शूद्र स्त्री असूयक विपयवर्जिते प्रत्यभिवादे यद्वाक्यं वर्तते तस्य टेः पो भवति । अभिवादये देवदत्तोऽहं भो३: । श्रायुष्मानेधि देवदत्ता ३ । अत्राभिवाद्यमाने गुरुणा प्रयुक्तमाशीःपूर्वकं प्रियहितयुक्तं प्रतिवचनम् इत्यभिवादः । शूद्रस्त्र्यसूयक इति किम् ? अभिवादये तुपजकोऽहम् । भोश्रायुष्माने तुपजक । शुद्धे पो न विहितः । श्रभिवादये गार्ग्यहं भो । आयुष्मती भव गार्गि । स्त्रियां पो न भवति । श्रभिवादये स्थाल्यहं भो । आयुष्मानेधि स्थालिन् । अत्र दण्डिवदसञ्ज्ञाशब्दे पो न भवति । सञ्ज्ञाशब्दे भवत्येव । यदा तु विहेठयितुकामः सञ्ज्ञामसञ्ज्ञां च तस्य कथयति तदा श्रसूयकोऽयमिति ज्ञाते भिद्यस्व पलस्थालिन् न त्वं प्रत्यभिवादमर्हसीत्युच्यते । लोकव्यवहारात्प्रधाने कार्यसम्प्रत्ययाद्वा नामान्तस्य गोत्रान्तस्य च पविधिः । इह न भवति देवदत्त कुशल्यसि । देवदत्त श्रायुष्मानेधि । इन्द्रधर्मन् कुशल्यसि । सर्वः पविवि भवतीति वक्ष्यति । सा च व्यवस्थितविभाषा । तेन "भोराजन्यविशां वा भवति" । श्रभिवादये देवदत्तोऽहं भोः । श्रायुष्मानेधि देवदत्त भो३ | आयुष्मानेधि देवदत्त भो । राजन्यः । श्रभिवादये इन्द्रवर्माऽहं भोः । श्रायुमाधि इन्द्रवर्मन् | आयुष्मानेधि इन्द्रवर्मन् । विशः । अभिवादये इन्द्रपलितोऽहं भोः । श्रायुष्मानेधि इन्द्रपालिता३ | आयुष्मानेधि इन्द्रपालित । भोशब्दस्याप्राप्ते राजन्यविशोगत्रत्वात्प्राप्ते विकल्पः । दूराद्यूते || ५|३|१२|| दूराद्भुते आह्वाने वर्तमानस्य वाक्यस्य : पो भवति । आगच्छ भो देवदत्ता३ । दूराद्घृत इति किम् ? श्रागच्छ भो जिनदत्त । प्रयत्नविशेषेण आह्नाने यत्र शब्दः श्रूयते तदूरमिह नास्ति । हूतग्रहणं सम्बोधनमात्रोपलक्षणम् । तेनेहापि पः सिद्धः । सक्तून् पित्र देवदत्ता ३ इति । सूत्रे दूरादिति " तेभ्य इप् च " [ १।४।४३ ] इति का | For Private And Personal Use Only

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568