Book Title: Jainendra Mahavrutti
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, Shambhunath Tripathi, Mahadev Chaturvedi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 471
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ० ५ पा० ४ सू० ७६-८६ ] महावृत्तिसहितम् नाप्राप्तन्यायेन" [५० ] "नाद्यन्ते" [५।४।७६] इत्यस्यैव प्रतिषेधस्य बाधकं गिलक्षणं न सिचो यीत्यस्य । अथवा "पुरस्तादपवादा अनन्तरान विधीन् बाधन्ते नोत्तरान्" [५० ] इति यङि सर्वत्र प्रतिषेधः । यडीति किम् ? परिधिषिक्षति ।। सेधो गतौ ॥२७॥ सेधतेर्गत्यर्थस्य पत्वं न भवति । अभिसेधति । प्रतिसेधति गाः। “स्थासेन. यसेध" [५॥१४६] इत्यादिना प्राप्तस्य प्रतिषेधः । गताविति किम् ? प्रतिषेधति पापम् । निवारयतीत्यर्थः । निस्तब्धप्रतिस्तब्धौ ॥१०॥ निस्तब्ध प्रतिस्तब्ध इतीमौ शब्दौ निपात्येते । निस्तब्धः । प्रतिस्तब्धः। क्त परतः “स्तम्भः" [५।४।४८] इति प्राप्ते प्रतिषेधः । सोढः ॥२४८१॥ सहेः सोढभूतस्य पत्वं न भवति । परिसोढा। परिसोढुम् । एवं निसोढा । विसोढा । परिनिविभ्यः “सिवुसहसुट्स्तुस्वाम्" [५॥४५२] इत्यनेन प्राप्तिः। सोढभूतस्य ग्रहणं किम् ? परिषहते । निषहते । सोढ इति सहेः सोढभूतस्यानुकरणं ङसा निर्दिष्टः। । स्तम्भुसिवुसहां कचि ॥२४॥८२॥ स्तम्भु सिवु सह इत्येतेषां कचि परतः षत्वं न भवति । अभ्यतस्तम्भत् । पर्यतस्तम्भत् । “स्तम्भः" [५।४।४८] इन्यटा चेन च व्यवाये गिनिमित्तं प्रतिषिध्यते । सिवुसहोस्तु परिनिविभ्यः परयोः “वाटा" [५।४।५३] इति विकल्पः प्राप्तः। पर्यसीषिवत् । न्यसीषिवत् । पर्यसीषहत् । न्यसीषहत् । सर्वत्र गियुक्तापिणच क्रियते। गिलक्षणस्य षत्वस्यायं प्रतिषेधो न तु "त्यादेशयोः' [५/४॥३६] इत्यनेन चादुत्तरस्य व्यवहितत्वात् । सुत्रः स्यसनोः ॥२४॥३॥ सुनोतेः सकारस्य स्य सन् इत्येतयोः परतः पत्वं न भवति । अभिसोष्यते। परिसोष्यते । अभ्यसोष्यत । पर्यसोष्यत । सनि । सुसूषति। नैतयुक्तम् । “पणि चाणिस्तोरेव" [५४४१] इति नियमादत्राप्राप्तिः। इदं तर्हि अभिसुसूषति । अत्रापि “स्थादेश्चेन चस्य" [५।४।४४] इति नियमादप्राप्तिः । तत्रोक्तम् । गिनिमित्तं स्थादीनामेव षत्वं नान्यस्यति । क्विपि तह्य दाहरणम् । अभिसुसूः । रित्वे विसर्जनीये च कृते "पणि" [५॥४१४१] इति नियमाभावाच्चात्परत्य प्राप्तं षत्वं प्रतिषिध्यते । स्यसनोरिति किम् ? सुषाव । सदिस्वज्योः परस्य लिटि ॥४४॥ सदि स्वञ्जि इत्येतयोलिटि परत्य षत्वं न भवति । अभिषसाद | निषसाद । अभिषस्वजे। निषस्वजे। “लिटि स्वञ्जा न खं भवतीत्युपसंख्यातव्यम् वा अभिषष्वजे । विषष्वजे । सदेश्चेन व्यवाये “सदोऽप्रतेः" [५।४।४७] इति स्वजेस्तु "स्थासेनय" [५४४६] इत्यादिना पत्वे प्राप्त प्रतिषेधः।। षो नो रणः समाने ॥५॥४८॥ पदस्यति वर्तमानं समान इत्यनेन समानधिकरणं जायते । षकाररेफाभ्यामुत्तरस्य नकारस्य णकारादेशो भवति समाने पदे चेनिमित्तनिमित्तिनौ भवतः। कुष्णाति । मुष्णाति । आस्तीर्णम् । विस्तीर्णम् । समान इति किम् ? मुनि यति । साधु यति स्वर्गम् । “धिन्विकृण्व्योर च" [२१११७५] इत्यत्र णत्वनिर्देशात् ऋकारादपि परस्य णत्वं भवति । तिसृणाम् । मातृणाम् । षकारग्रहणमुत्तरार्थम् । अव्यवाये ष्टुत्वेनापि सिद्धमेतत् । अकुप्वाब्यवायेऽपि ॥४॥८६॥ अट् कु पु आङ इत्येतैव्य॑वाये अव्यवायेऽप्यनेन षकाररेफा. भ्यामुत्तरस्य नकारस्य णो भवति । अट । वर्षेण | वृषेण । गिरिणा । मेरुणा । कु । निष्केण । शुष्केण । अर्केण । मूर्खेण । वर्गेण । दीर्घण । पु। पुष्पेण । सर्पण । दर्पण । रेफेण । गर्भेण । दर्भेण । धर्मेण । अाङ । पर्याणद्धम् निराणीतम् । अडग्रहणेनैव सिद्धे आङ् ग्रहणं "पदव्यवायेऽपि" [५।४।११६] अस्य बाधनार्थम् । अडादिप्वेकेनाकेन च व्यवाये णत्वं ज्ञातव्यम् । उभयथा वाक्यपरिसमाप्तेराश्रयणात् । यथा गर्गः सह न भोक्तव्यमेकेनाकेनेन च सह न भुज्यते । इह कथं णत्वम् बृंहणम् । बृहणीयम् । “तृहू स्तृहू हू हिंसाः " । Bहणम् । तृहणीयमिति । अनुस्वारस्यायोगवाहत्वादडग्रहणेन ग्रहणमिति णत्वम् । तदुक्तम्-"अयोगवाहो यब्रेष्टस्तत्र तत्र For Private And Personal Use Only

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568