Book Title: Jainendra Mahavrutti
Author(s): Devnandi Maharaj, Abhaynandi  Maharaj, Shambhunath Tripathi, Mahadev Chaturvedi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 441
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ० ५ पा० २ सू० १५२-१६०] महावृत्तिसहितम् किम् ? श्रास्से । वस्से । स इति किम् ? पक्ष्यति । अशिष्यत इत्यत्र इटः सकारं प्रति भक्त त्वेऽपि सीति वचनान्न भवति । द्विसकारको वास्सीति निर्देशः। __तासस्त्योः खम् ॥१२।१५२॥ तासेः अस्तेश्च सकारस्य सकारादौ खं भवति । कर्तासि । कर्तासे । अस्ते:-असि । अग इति निवृत्तमसम्भवात् । तासिर्गे विहितः । अस्तेरप्यगे भूभावेन भवितव्यमिति । व्यतिषे इत्यत्र परत्वात्सखमेकदेशविकृतस्यानन्यात् “श्नसः खम्" [10] इत्यखम् । त्यमात्रमेव पदम् । षत्वं प्राप्तम् “नाद्यन्ते" [५।४।७६] इति प्रतिषिद्धम् । :"गिप्रादुर्ध्या' यच्यस्तेः" [५।४।६८] इति ! तत्र पदस्येति वर्तते । गिपूर्वस्यास्तेः पदस्य यकाराच्परस्य इति षत्वम् । रि ॥शरा१५३॥ रेफादौ त्ये परतः तासस्त्योः सखं भवति । कर्तारौ। कर्तारः। अस्ते रेफादिर्नास्ति। एति हः ॥२१५४॥ एकारे परतः तासस्त्योः सकारस्य हकारादेशो भवति । कर्ताहे । लविताहे । अस्तेः । ब्यतिहे । तपरत्वमसन्देहार्थम् “इटि ह" इति सूत्रे व्यत्यासीति न स्यात् । स्सनि मीमाभुरभलभशकपतपदोऽच इस ॥५।२।१५५॥ सनि सकारादौ परतः मी मा भुरभ लभ शक पत पद इत्येतेषामचः स्थाने इस् भवति । मी इति मीनातिमिनोत्योर्ग्रहणम् । “हनिङ्गम्यचां सनि" [ १४] इति दीत्वे कृते विशेषाभावात् । मिनाति । प्रमित्सति । मा इति "गामादाग्रहणेष्वविशेषः" [१०] इति प्रतिपदोक्तपरिभाषा नापेक्षिता । मित्सति । मेङ् । अपमित्सते । माइ-मित्सते । भदित्सति । धित्सति । अारिसते। आलिप्सते । शिक्षति । पित्सति । प्रपित्सते। अनेकाल्त्वात्सर्वादेशो मा भूदच इस विधीयते । द्वित्वम् । “चस्यात्र खम्" [५।२।१६०] इति चखम् । “स्यगे सः" [ इति सकारस्य तत्त्वम् । रभादिषु “स्फादेः स्कोन्ते च" [५॥३॥४६] इति इसः सखम् । सकारादाविति किम् ? पिपतिषति । "तनिपतिदरिद्रा बेट" [ वा] । सनीति किम् ? दास्यति । सीत्येतद्व्यवहितम् । सनीति द्विसकारको निर्देशः । राधोः वधे ॥।२।१५६॥ राधेः वधेऽर्थे वर्तमानस्य श्रच इस् भवति सनि सकारादौ । प्रतिरित्सति श्वानम् । वध इति किम् ? आरिरात्सति । आपाप्यधामीत् ॥५।२।१५७।। आप शपि ऋध इत्येतेषामच ईकारादेशो भवति सनि सकारादौ । ईप्सति । जीप्सति । ईर्सति । ज्ञपेः पूर्वनिर्णयेन णिखे श्राद्यच ईत्वम् । सकारादावित्येव । जिज्ञपयिषति । श्रर्दिधियति । “सनीवन्त" [५/१९७] इतीट्विकल्पः। दम्भ इच्च ॥१२।१५८॥ दश्भेरच इकारादेशो भवंति ईच्च सनि सकारादौ । धिप्सति । धीप्सति । दम्भेरनिट पक्षे इकारादेशे कृते "हलन्तात्" [१1१1८४] इत्यत्र हल्ग्रहणस्य जातिवचनत्वात् सनः कित्त्वे "हलुङः विडत्यनिदितः" [४।४।२३] इति नखं भ भावः । सकारादावित्येव । दिदम्भिवति । वा मुचो धेरेप ॥श२।१५६॥ मुचेर्धिसञ्ज्ञकस्य वा एप् भवति सनि सकारादौ। मोक्षते वत्सः स्वयमेव । मुमुक्षते वत्सः स्वयमेव । श्रात्मनो मोक्तुमिच्छतीति सन् । वत्सो हि मोक्तुमिष्यमाणो मक्तिक्रियां प्रत्यानुकल्यं यदा प्रतिपद्यते तदा सुमोचत्वात् कर्मैव कर्तृत्वेन विवक्षितमिति बाह्यकर्माभावात्मचिरकर्मकः । इक एप चस्य खम् । अच इत्येतन्निवृत्तम् । अन्यथा “चस्यात्र खम्" [५।२।१६०] इत्यत्र चस्याचः खं त्यात् । धेरिति किम् ? मुमुक्षति कर्माणि मुनिः । चस्यात्र खम् ॥१२।१६०॥ यदेतदनुकान्तं सनि सकारादौ मुचेरेप्पर्यन्तम् एतस्मिन् चस्य खं भवति । तथा चैवोदाहृतम् । यच्चेत अवमनुक्रमिष्यामः पादपरिसमाप्तेश्वस्येत्येतद्वेदितव्यम् । ननु सनि . सकारादाविल्यधिकारेणाभिसम्बन्धात् सिद्धम् अत्रग्रहणं किम् ? सर्वस्य चस्य खं यथा स्यादित्येवमर्थम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568