________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ५ पा० २ सू० १५२-१६०] महावृत्तिसहितम् किम् ? श्रास्से । वस्से । स इति किम् ? पक्ष्यति । अशिष्यत इत्यत्र इटः सकारं प्रति भक्त त्वेऽपि सीति वचनान्न भवति । द्विसकारको वास्सीति निर्देशः।
__तासस्त्योः खम् ॥१२।१५२॥ तासेः अस्तेश्च सकारस्य सकारादौ खं भवति । कर्तासि । कर्तासे । अस्ते:-असि । अग इति निवृत्तमसम्भवात् । तासिर्गे विहितः । अस्तेरप्यगे भूभावेन भवितव्यमिति । व्यतिषे इत्यत्र परत्वात्सखमेकदेशविकृतस्यानन्यात् “श्नसः खम्" [10] इत्यखम् । त्यमात्रमेव पदम् । षत्वं प्राप्तम् “नाद्यन्ते" [५।४।७६] इति प्रतिषिद्धम् । :"गिप्रादुर्ध्या' यच्यस्तेः" [५।४।६८] इति ! तत्र पदस्येति वर्तते । गिपूर्वस्यास्तेः पदस्य यकाराच्परस्य इति षत्वम् ।
रि ॥शरा१५३॥ रेफादौ त्ये परतः तासस्त्योः सखं भवति । कर्तारौ। कर्तारः। अस्ते रेफादिर्नास्ति।
एति हः ॥२१५४॥ एकारे परतः तासस्त्योः सकारस्य हकारादेशो भवति । कर्ताहे । लविताहे । अस्तेः । ब्यतिहे । तपरत्वमसन्देहार्थम् “इटि ह" इति सूत्रे व्यत्यासीति न स्यात् ।
स्सनि मीमाभुरभलभशकपतपदोऽच इस ॥५।२।१५५॥ सनि सकारादौ परतः मी मा भुरभ लभ शक पत पद इत्येतेषामचः स्थाने इस् भवति । मी इति मीनातिमिनोत्योर्ग्रहणम् । “हनिङ्गम्यचां सनि" [ १४] इति दीत्वे कृते विशेषाभावात् । मिनाति । प्रमित्सति । मा इति "गामादाग्रहणेष्वविशेषः" [१०] इति प्रतिपदोक्तपरिभाषा नापेक्षिता । मित्सति । मेङ् । अपमित्सते । माइ-मित्सते । भदित्सति । धित्सति । अारिसते। आलिप्सते । शिक्षति । पित्सति । प्रपित्सते। अनेकाल्त्वात्सर्वादेशो मा भूदच इस विधीयते । द्वित्वम् । “चस्यात्र खम्" [५।२।१६०] इति चखम् । “स्यगे सः" [ इति सकारस्य तत्त्वम् । रभादिषु “स्फादेः स्कोन्ते च" [५॥३॥४६] इति इसः सखम् । सकारादाविति किम् ? पिपतिषति । "तनिपतिदरिद्रा बेट" [ वा] । सनीति किम् ? दास्यति । सीत्येतद्व्यवहितम् । सनीति द्विसकारको निर्देशः ।
राधोः वधे ॥।२।१५६॥ राधेः वधेऽर्थे वर्तमानस्य श्रच इस् भवति सनि सकारादौ । प्रतिरित्सति श्वानम् । वध इति किम् ? आरिरात्सति ।
आपाप्यधामीत् ॥५।२।१५७।। आप शपि ऋध इत्येतेषामच ईकारादेशो भवति सनि सकारादौ । ईप्सति । जीप्सति । ईर्सति । ज्ञपेः पूर्वनिर्णयेन णिखे श्राद्यच ईत्वम् । सकारादावित्येव । जिज्ञपयिषति । श्रर्दिधियति । “सनीवन्त" [५/१९७] इतीट्विकल्पः।
दम्भ इच्च ॥१२।१५८॥ दश्भेरच इकारादेशो भवंति ईच्च सनि सकारादौ । धिप्सति । धीप्सति । दम्भेरनिट पक्षे इकारादेशे कृते "हलन्तात्" [१1१1८४] इत्यत्र हल्ग्रहणस्य जातिवचनत्वात् सनः कित्त्वे "हलुङः विडत्यनिदितः" [४।४।२३] इति नखं भ भावः । सकारादावित्येव । दिदम्भिवति ।
वा मुचो धेरेप ॥श२।१५६॥ मुचेर्धिसञ्ज्ञकस्य वा एप् भवति सनि सकारादौ। मोक्षते वत्सः स्वयमेव । मुमुक्षते वत्सः स्वयमेव । श्रात्मनो मोक्तुमिच्छतीति सन् । वत्सो हि मोक्तुमिष्यमाणो मक्तिक्रियां प्रत्यानुकल्यं यदा प्रतिपद्यते तदा सुमोचत्वात् कर्मैव कर्तृत्वेन विवक्षितमिति बाह्यकर्माभावात्मचिरकर्मकः । इक एप चस्य खम् । अच इत्येतन्निवृत्तम् । अन्यथा “चस्यात्र खम्" [५।२।१६०] इत्यत्र चस्याचः खं त्यात् । धेरिति किम् ? मुमुक्षति कर्माणि मुनिः ।
चस्यात्र खम् ॥१२।१६०॥ यदेतदनुकान्तं सनि सकारादौ मुचेरेप्पर्यन्तम् एतस्मिन् चस्य खं भवति । तथा चैवोदाहृतम् । यच्चेत अवमनुक्रमिष्यामः पादपरिसमाप्तेश्वस्येत्येतद्वेदितव्यम् । ननु सनि . सकारादाविल्यधिकारेणाभिसम्बन्धात् सिद्धम् अत्रग्रहणं किम् ? सर्वस्य चस्य खं यथा स्यादित्येवमर्थम् ।
For Private And Personal Use Only