________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३८०
जैनेन्द्र-व्याकरणम्
[ श्र० ५ पा० २ सू० १४६ - १५१
व्यवस्थितविभाषेयम् । तेन श्यतेरित्वं व्रतविषये नित्यमिष्यते । संशितव्रतः साधुः । संशितं यत्नेन सम्यक्सम्पादितं व्रतं यस्य येन वा स एवमुक्तः । संशितः साधुरित्यपि भवति । यः प्रकरणादिना व्रते यत्नवान् गम्यते ।
Acharya Shri Kailassagarsuri Gyanmandir
धाञो हि ||५|२| १४६ || धाञः हिरित्ययमादेशो भवति तकारादौ किति परतः । हितः । हितवान् । अनेकाल्त्वात् सर्वस्य स्थाने " भुमास्था” [ ४/४/६५ ] आदित्वे प्राते हिरादेशः । अनुबन्धनिर्देशो यङन्तनिवृत्त्यर्थः । देवीतः । देधीतवान् । धेटो लाक्षणिकत्वान्निवृत्तिः ।
हाकः क्त्व || २|१४७ ॥ हाकः क्त्वात्ये परतः हिरादेशो भवति । हित्वा गतः । हित्वा गच्छति कर्माणि । मोक्षम् । पूर्ववदीत्वे प्राप्ते हिरादेशः । अनुबन्धनिर्देशस्तु हाङो निवृत्त्यर्थः । यचन्तनवृत्त्यर्थश्च । ईत्वमपि यचन्तस्य नेष्यते । क्त्वोति सौत्रो निर्देशः ।
दो दोः || ५|२| १४८ ॥ दा इत्येतस्य भुसञ्ज्ञकस्य दद् इत्ययमादेशो भवति तकारादौ किति परतः । दत्तः । दत्तवान् । दत्त्वा । दत्तिः । द इति किम् ? धीतः । धीतवान् । धेट इदं रूपम् । धाञो हिरादेश उक्तः । भोरिति किम् ? दातम् बर्हिः । ते आदेशे सुदत्तमित्यत्र " दस्ति” [ ४।३।२२५ ] इत्यनेन इगन्तस्य गेर्दीत्वं स्यात् । दान्तो “ द्वान्तस्य तो नः " [ ५/३/५१] इति नत्वम् । धान्तै “ तथोर्धोऽधः" [५|३|५६ ] इति षः परस्य धत्वम् । थान्ते नास्ति दोषः । तान्तो वास्तु । " दस्ति” [ ४।३।२२५ ] इत्यत्र द्वौ पक्षौ । दाइत्येतस्मिन्कारादौ तकारान्ते वा दीत्वम् । तत्र तकारादौ नास्ति दोषः । थान्तपक्षे " खरि" [५/४/१३० ] इति चम् ।
भुसञ्ज्ञकस्य त इत्ययमादेशो भवति अवत्तम् । “ अन्तेऽलः ” [ १1१1४]
गेस्तोऽचः ॥५|२|१४६॥ जन्ताद्गेरुत्तरस्य दा इत्येतस्य तकारादौ किति परतः । नीत्तम् । वीत्तम् । परीत्तम् । प्रत्तम् । इत्याकारस्य तकारः । अकार उच्चारणः । दकारस्य चर्त्यम् । गेरिति कानिर्देशात् “ परस्यादेः " [१|१|५१ ] इति चेददोषोऽयम् । “ अस्य चौ" [ ५/२/१४१] इत्यतो मण्डूकप्लुत्या भविष्यति । द्वितकारको वा निर्देशोऽनेकाल्त्वात् सर्वस्य स्थाने भवति । गेरिति इति किम् ? संदत्तम् । द इत्येव । निधीता गौर्यत्सेन । भोरित्येव । श्रवदात्तं परत्वात् । अवत्तः । अवत्तवान् । ननु च-
वर्णस्येति वर्तते । तैनाकारस्य किम् ? दधि दत्तम् | अच मुखम् । द्यतेरित्वात्तो भवति
वदत्तं विदत्तञ्च प्रदत्तं चादिकर्मणि । सुदत्तमनुदत्तञ्च निदत्तमिति चेष्यते ॥ )
तत्कथं सिद्धयति । श्रवादीनां गम्यमानक्रियान्तरविषयत्वेन ददातिं प्रत्यगित्त्वात् सिद्धम् । "यत्क्रियायुक्तस्तं प्रति गीतिज्ञको भवति" इति वचनात् । श्रवहीनमवगतं वा दत्तमवदत्तमिति क्रियान्तरविषयत्वं योज्यम् । ग्रंथ वा “शाच्छोर्विभाषा” [५।२।१४५] इत्यतो मण्डूकप्लुत्या व्यवस्थितविभाषानुवृत्तेः ।
भ्यपः || ५|२|१५० || भकारादौ परतः अपू इत्यस्य गोः तकारादेशो भवति । श्रद्भिः । श्रद्भ्यः । भौति किम् ? अप्सु । द्वितकारकनिर्देशपक्षे तु पूर्वस्यापि तकारस्य जश्त्वम् । अनेकाल्वात् सर्वादेश इति चेन्न । अच इति वर्तते । अचः परस्य भवति । गोरिति विशेषणाच्ये भादौ सम्प्रत्ययः । तेन पदे न भवति । अभारः । अभक्षः ।
स्य सः ५|२| १५१ ॥ सकारादावगे परतः सकारान्तस्य गोस्त इत्ययमादेशो भवति । वत्स्यति । वत्स्यत् । विवत्सति । " श्रन्तेऽलः " [ १1१1४९ ] इति वा । " निर्दिश्यमानस्यादेशा" [प०] इति वा सकारस्य तत्त्वम् । द्वितकारकपक्षे च इति काविभक्त्यन्तमनुवर्त्यम् ? सीति किम् ? प्रवासः । अगे इति
For Private And Personal Use Only