________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अ० ५ पा० २ सू० १३७-१४५] महावृत्तिसहितम्
३७६ इति खम् । उत्तरसूत्रे रिडिहैव कर्तव्यः। तस्य दीत्वेन सिद्धमिति चेत् ; “गुकार्ये निवृत्ते पुनर्न तन्निमित्तम्" [१०] इति दीत्वं न स्यात् । ऋत इति तपरकरणं किम् ? कीर्यते । अन्यथा कीर्णमित्यादौ सावकाशम् ऋत इत्वं रीडा बाध्येत । उत्तरार्थमकृद्गे यि इत्येतदनुवर्तत इति ज्ञापनार्थ तपरकरणम् । अन्यथा अनन्तरे च्वाक्वायं विधिः स्यात् । न च मृदन्त ऋकारो निवोऽस्तीत्यनर्थकं भवेत् ।
रियलिशे ॥२।१३७॥ ऋकारान्तस्य गोर्यक् लिङश इत्येतेषु परतः रिङादेशो भवति । यीति अकृद् इति चानुवर्तमानं सम्भवाव्यभिचाराच्च लिङ एव विशेषणम् । यकारादावगे द्रष्टव्यम् । यक-क्रियते । ह्रियते । लिट्-क्रियात् । हियात् । यीत्येव । कृषीष्ट । हृषीष्ट । अग इत्येव । त्रिभृयात् । विध्यादिलिङयम् । शे-अाद्रियते। "श्नुधुभ्रुवाम्" [१।४।७२] इति यादेशः। ऋत इति तपरकरणं किम् ? किरति । गिरति । रीङिति वर्तमाने रिग्रहणं पुनीत्वनिवृत्त्यर्थम् ।
स्फाद्यारस्कुरेप ॥४२११३८॥ स्फादेरर्तश्च ऋतो यकि लिङि यकारादावगे च परतः एब्भवति स्कृशब्द वर्जयित्वा । श इत्यसम्भवान्नोक्तम् । स्मयते । स्मर्यात् । ध्वर्यते । ध्वर्यात् । अर्यते । अर्यात् । यासुटः "स्फादेः स्कोऽन्ते च" [५।३।४६] इति सखम् । यीत्येव । स्मृषीष्ट । अग इत्येव । इययात् । विध्यादिलिङ । शप उप । द्वित्वम् । “उरः" [५।२।१६६] इत्यत्वम् । “प्रोः" [५।२।१७६] इति चस्येत्वम् । “चस्यास्वे" [४।१७३] इतीम् । अस्कुरिति किम् ? संस्क्रियते । “पूर्व धुर्गिना युज्यते पश्चात् साधनवाचिना त्येन" [१०] इति पूर्व सुटि सति प्राप्नोति । अतिरिति ऋच्छतीयोर्ग्रहणम् ।
___ यङि ॥५॥२॥१३९॥ यङि च परतः स्फादेरतश्च ऋत एबू भवति । सास्मयते । दाध्वर्यते । अरार्यते । अयङ् एप । “अचः" [४।३।२] इति द्वितीयस्यैकाचो द्वित्वम् । “हलोऽनादेः" [५।२।१६१] इति यखम् । "दीरकृद् गे" [५।२।१३४] इति दीत्वम् । “हन्तेहिंसायां नीभावो वक्तव्यः” [वा०] । जेध्नीयते । हिंसायामिति किम् ? गतौ जङ्घन्यते।।
ई घ्राध्मोः ॥२१४०॥ प्राध्मा इत्येतयोर्यडि परतः ईकारादेशो भवति । जेघ्रीयते । देध्मीयते । नित्यत्वेन परत्वेन च प्राग द्वित्वादीकारः । ईकारत्य दीत्वं किम ? गुकार्यत्वात्पुनर्न स्यात् । उत्तरार्थञ्च ।
अस्य च्वौ ॥शरा१४१॥ अवर्णान्तस्य गोः च्वौ परत ईकारादेशो भवति । शुक्लीभवति । मालीभवति । “च्ची" [५।२।१३५] इति दीत्वस्यायमपवादः ।
___ काचि ॥५।२।१४२॥ क्यचि परतः अवर्णान्तस्य गोरीकारादेशो भवति । पटीयति । मालीयति । "दीरकृद्गे" [५।२।१३४] इति दीत्वं प्राप्तम् । पृथक् सूत्रमुत्तरार्थम् ।
___ चुत्त गर्धेऽशनायोदन्यधनायाः ॥५।२।१४३॥ क्षुत् तृड् गर्ध इत्येतेष्वर्थेषु अशनाय उदन्य धनाय इत्येते शब्दा निपात्यन्ते । अशनायतीत्यात्वं क्यचि निपाल्यते सुच्चेद्गम्यते । अशनीयत्यन्यत्र । उदन्यतोत्यत्र उदकस्योदभावो निपात्यते तृट चेत् । उदकीयतीत्यन्यत्र । धनायतीत्यात्वं निपात्यते गर्द्धश्चेत् । धनीयतीत्यन्यत्र ।
द्यतिस्यतिमास्थां ति कितीत् ॥२॥१४४॥ द्यति स्यति मा स्था इत्येतेषां तकारादौ किति परत इकारादेशो भवति । निर्दितः । निर्दितवान् । अवसितः । अवसितवान् । मितः । मितवान् । “गामादाग्रहणेप्वविशेषः" [१०] इति मामाङ्मेडां ग्रहणम् । स्थितः । स्थितवान् । श्राद्यस्य "दो ददोः" [५।२।१४८] इति दद्भावे "भुमास्था" [४॥४॥६५] आदिना सूत्रेणान्येषामीत्वे च प्राप्ते इत्ववचनम् । तौति किम् ? दीयते । स्थीयते । कितीति किम् ? अवदाता । अवसाता । यतिस्यत्योस्तिपा निर्देशो यङयन्तनिवृत्त्यर्थः। निर्दादत्तः। निर्दादत्तवान् । अवसासीतः । अवसासीतवान् । दद्भाव ईत्वं च भवति । तपरकरणं सुखार्थम् ।
शाच्छोर्विभाषा ॥२॥१४५॥ शा छा इत्येतयोविभाषया इकारादेशो भवति तकारादौ किति परतः । निशितः। निशितवान् । निशातः । निशातवान् । अपच्छितः । अपच्छितवान् । अवच्छातः। अपच्छातवान् ।
For Private And Personal Use Only