Book Title: Jaindharmvarstotra Godhulikarth Sabhachamatkareti Krutitritayam
Author(s): Hiralal R Kapadia
Publisher: Bhadrankar Prakashan
View full book text ________________ 78 श्रीजैनधर्मवरस्तोत्रम् जिनस्य इमे भागवताः / ननु विहारा एव जिनस्य निवासाः 'चैत्यविहारौ जिनसद्मनि" इत्यभिधानचिन्तामणि( का० 4, श्लो० 60 )वचनात् / तर्हि कथं भागवता इति विशेषणेन पुनरुक्तदूषणम् ? उच्यते-नहि दूषणम्, यतः विशेषणपृथक्त्वे विशेष्यमात्रपरता इति / उक्तं च रघुवंशे ( स० 2, श्लो० 12, 73) "सकीचकैारुतपूर्णरन्धैः" इति / कथंभूतैः श्राद्धैः ? दिग्गजैः-दिशां गजसमानैः / पुनः कथं० श्राद्धैः ? 'द्रविणदानघनैः' द्रविणदानेन घना:-मेघा इव तैः / कथं० विहाराः ? उदारा:-प्रधानाः च-पुनः ये श्राद्धाः अत्र चैत्येषु पतितं शृङ्गमित्त्यादिकं सूजन्ति-नवीनं कुर्वन्ति / कथं ? ये रक्षणतत्परा:सम्भालनादिषु आसक्ताः / नूनं-निश्चितं खलु / यतः ते श्राद्धाः ऊर्ध्वगतयः-स्वर्गादिगतिभाजो भवन्ति / यतः "नूतनाहद्वरावास-विधाने यत् फलं भवेत् / तस्मादष्टगुणं पुण्यं, जीर्णोद्धारे विवेकिनाम् // 1 // " अनु० कथं० ? ते (शुद्धभावाः)-निर्मलाशयाः, पवित्रचित्ता इति / यतः 'प्राग्वाट'ज्ञातीयश्रीधरणकसाधुकारो 'राणकपुरे' श्रीऋषभजिनेश्वरत्रैलोक्यदीपकचैत्यं कारयति स्म / श्री सिद्धाचले' दम्पतीभ्यां च चतुर्थव्रतमादाय माला परिहिता इति / अथ पुनः विमलमन्त्री अम्बिका दत्तवरो ऽर्बुदा'चलादिस्थाने चैत्यानि कारयति स्म इति / पुनः वस्तुपालतेजःपालौ 'अर्बुदा'चले लुणगवसही तथा बहूनि चैत्यानि प्रतिबिम्बानि धर्मस्थानानि च सङ्घादिधर्मकार्याणि च कारयामासतुः / इत्यादयो बहवः श्रावका: जैनप्रासादकारकाः जीर्णोद्धारकारका अभ( भू? )वन् भवन्ति ( भविष्यन्ति) चेति / इति द्वाविंशतितमवृत्तस्यार्थः // 22 // अथ भरतचक्रिप्रभृतितश्चैत्यकारापणं दर्शयन्नाहसूत्रम् चैत्यं सवर्णभरितं भरतेन १भव्यं निर्मापितं कलितकेकिकलापशृङ्गम् / यद् वीक्ष्य मक्षु दधति स्म मुदं हि मां श्वामीकरादिशिरसीव नवाम्बुवाहम् // 23 // व्याख्या-चैत्यमिति / भरतेन-भरतचक्रिणा-ऋषभपुत्रेण चैत्यं निर्मापितं-कारितम् / कथंभूतं चैत्यम् ? सुवर्णभरितं-सुवर्णेन भरितं-पूरितं, रचितमित्यर्थः / कथं० चैत्यम् ? . 1. 'नव्यं' इति पाठः श्रीजैनस्तोत्रसङ्ग्रहनाम्नि मुद्रिते ग्रन्थे /
Loading... Page Navigation 1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194