Book Title: Jaindharmvarstotra Godhulikarth Sabhachamatkareti Krutitritayam
Author(s): Hiralal R Kapadia
Publisher: Bhadrankar Prakashan
View full book text ________________ 116 श्रीजैनधर्मवरस्तोत्रम् देवेन केनचिदहं दहने निरस्ता / निस्तारिता च भवतैव हदि स्थितेन // 4 // " वसन्त० रामो मूर्छा गतः / सीता तु तदैव जयभूषणकेवलिपार्श्वे दीक्षां लात्वा तपस्तत्त्वा मृत्वाऽच्युतेन्द्रो जातः / यदा ‘विदेह'क्षेत्रे रावणजीवस्तीर्थङ्करो भविष्यति तदा सीताजीवोऽस्य गणधरो भूत्वा मोक्षमेष्यति / अथ कालान्तरेण रामोऽपि व्रतं गृहीत्वा केवली भूत्वा मुक्तिं ययौ / इति सम्बन्धलेशः सीतायाः सम्पूर्णः इति सप्तत्रिंशत्तमवृत्तार्थः // 37 // सूत्रम् आबालगाङ्गसलिलामलशीललीले ! ___ हे भग्नि ! सुन्दरि ! पुरा चरणे निषिद्धा / .. प्रोद्यत्तपाः प्रकुरु ते शुचिचित्तवृत्त्या यस्मात् क्रियाः प्रतिफलन्ति न भावशून्याः // 38 // व्याख्या-आबालेति / हे सुन्दरि ! हे भग्नि ! सहजे ! आबालगाङ्गसलिलामलशीललीले ! बालं अभिव्याप्य इति आबालं गङ्गाया इदं गाङ्ग सलिलं तद्वद् अमला शीललीला यस्याः सा तस्याः सम्बोधनं इति / त्वं तत् १चरणं कुरु / कया ? शुचिचित्तवृत्त्या-निर्मलचित्तव्यापारेण कृत्वा / कथंभूता त्वं ? पुरा-पूर्वं मया-भरतेन चरणे-चारित्रे निषिद्धा / (पुनः) कथंभूता त्वम् ? 'प्रोद्यत्तपाः' प्रोद्यत्-उत्कटं तपो यस्याः सा, षष्टिसहस्राणि कृताचाम्लतपाः / यस्मात्यतः क्रियाः भावशून्याः न फलन्ति / २भग्नी भगिनी' इति शब्दप्रभेदे (श्लो० 41) / अत्र लेशतः सम्बन्धः- . भरतः षट्खण्डं साधयित्वा 'अयोध्यां' समागतोऽभिषेकोत्सवप्रान्ते सम्भालनार्थ नियुक्तनरैर्निजान् आकारयामास / यतः "षष्टिवर्षसहस्राणि, विरहोत्कण्ठिताशयान् / राजा निजान्निरैक्षिष्ट, नियुक्तनरयोजितान् // 1 // " अनु० . ततः दुर्बलां बाहुबलिनः सोदरी हेमन्तम्लाननलिनीमिव नि:श्रीकरूपां सुन्दरी वीक्ष्य क्रोधाध्मातश्चक्री तान् ब्रूते स्म-रे रे नियुक्ताः ! किं मदीयेऽपि गृहे न सूदाः सन्ति ? ओदनानि न सन्ति ? अथवाऽसौ किमपि नाश्नाति ? किं वाऽस्याः किं रोगोऽस्ति ? तर्हि किं वैद्या न सन्ति ? भर्वन्ध्या वर्तते ? ओषधीन प्रसौति ? वा किमसौ यतो दरिद्रपत्रीवत् कृशामेनां दृष्ट्वाऽहं दुःखितो जातः / तदा चैरधिकारिनरैः प्रोक्तम्-युष्माकं गृहे सर्वमस्ति / 1. चारित्रम् / 2. 'भगिनीमपि भग्नी च' इति पाठान्तरम् /
Loading... Page Navigation 1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194