Book Title: Jaindharmvarstotra Godhulikarth Sabhachamatkareti Krutitritayam
Author(s): Hiralal R Kapadia
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 137
________________ 120 श्रीजैनधर्मवरस्तोत्रम् इत्युक्त्वा मुष्टिमुत्पाट्य चक्रयुतं भवन्तं चूर्णयामि इति ब्रुवन् भरतस्य पार्श्वे गतोऽथो दध्यौ / काव्यम् (पद्मा० स० 17, श्लो० 361-363) "राज्यस्य लोभादमुनेव धिग् धिङ् मयाऽप्यदो भ्रातृवधो विधेयः / न तेन राज्येन ममास्ति कार्य-१मित्थं मयाऽदः क्रियते यदर्थम् // 1 // उप० लोभेन कोपेन विनिर्जितेऽस्मिन्, जितेऽति को मे प्रमदो मदो वा / याभ्यां जितोऽसावहमप्यहो चेत्, ताभ्यां जितोऽस्मात् किमु गौरवं तत् ? // 2 // उप० राज्येऽपि लोभं भरतेऽपि कोपं, त्यक्त्वा ततस्तातपथं प्रपद्ये।। चेद् राज्यलक्ष्मीः परिणामरम्या, तत्याज तातोऽपि कुतस्तदेताम् ? // 3 // इन्द्रवज्रा इदं गदित्वा बाहुबलिः पूर्वोत्पाटितमुष्टिना शिर:केशान् समूलमुन्मूलयति स्म / आत्तव्रतस्य तस्योपरि देवैः पुष्पवृष्टिश्चक्रे / कथं लघुबान्धवान् नमामि ? / तत उत्पादितकेवलस्तातपादान्तं गमिष्यामि / तत्रैव प्रतिमां प्रपन्नः भरतस्तं प्रणम्य स्वस्थानं जगाम / स राजर्षिः प्रावृट्कालेऽपि निष्कम्प आसीत् / काव्यम् (पद्मा० स० 17, श्लो० 393, 394, 392) "तस्य वल्लिकुलकुञ्जनिकाये-ऽभूत् खगैः कृतकुलायनिकाये / वैरिणोविहगयोरविरोध-श्छायया दलततेरविरोधः // 1 // स्वागता तत्र वल्लिवलयेन सङ्कले, खेलनं खगकुलस्य रक्षया / बिभ्रतां फणभृतां फणव्रजैः, पल्लवद्विगुणता व्यतन्यत // 2 // रथो० पावित्र्यं परमद्धिबाहुबलिनः साधोः समाराधये ___ यस्यांहिद्वयसेवया ध्रुवमभूद् दर्भेऽद्भुता पूतता। किं ब्रूमो जगतोऽपि हि व्यवहतौ तेनार्हतामप्यसौ. __ प्राक् पीठे स्नपनेऽप्यपावनकृतिप्रष्ठः प्रतिष्ठास्वभूत् // 3 // " शार्दूल० ___ इत्येवं वर्षान्ते श्रीऋषभजिनेन प्रेरिताभ्यां ब्राह्मी-सुन्दरीभ्यां तत्रागत्य वने कार्योत्सर्गस्थो बाहुबलिरिति प्रोक्तः-गजारोहणं त्यज, तदा तव केवलज्ञानं भवष्यति ऋषभस्वामिना प्रोक्तमस्तीति स्वस्थानं गते ते / अथ बाहुबलिश्चिन्तयति स्म-ज्ञातं मया, मान एव गजः / अधुनाऽनेन सृतम् / सर्वान् लघूनपि प्रव्रज्यावृद्धान् वन्दे / एवं चित्ततोऽभिमानं मुक्त्वा यावत् पादमुदक्षिपत् तावत् त्रुटितघनघातिकर्मा केवलज्ञानं प्राप / अथ साधुवेषं देव्या दत्तं प्राप्य केवलज्ञानी इत्येव ऋषिमण्डलवृत्तौ प्रोक्तमस्तीति समवसरणे गत्वा प्रदक्षिणां दत्त्वा तीर्थाय नमः कृत्वा स मुनिः केवलिसभां भेजे / क्रमेण श्रीवृषभेण सम 'मष्टापद गिरौ मुक्तिं जगाम / इति बाहुबलिसम्बन्धः / इति एकोनचत्वारिंशत्तमवृत्तार्थः // 39 // 1. पद्मा० 361 तमे पद्ये तु 'मकार्यमित्थं क्रियते' इति पाठः / 2. विहितनीडमन्दिरे।

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194