Book Title: Jaindharmvarstotra Godhulikarth Sabhachamatkareti Krutitritayam
Author(s): Hiralal R Kapadia
Publisher: Bhadrankar Prakashan
View full book text ________________ गुंहलिकापरपर्यायगोधूलिकार्थः 131 तेभ्यः कानि-सुखानि यस्यां प्रणतौ सा गोधूलिका तीर्थङ्करादिसुखकृतप्रणतिरस्तु / "कं सुखे शीर्षे जले च" ( ) प्रसिद्धम् // 3 // अथ मरुदेवागतमङ्गलमाह गौः-वृषभः तेन वृषभलाञ्छनेन उपलक्षित: अ:-अर्हन् तस्य धूलिः अर्थात् शरीरलग्नधूलि: तस्याः सकाशात् अर्थात् आलिङ्गनात् कानि-सुखानि यस्याः सा गोधूलिका भगवज्जननी मरुदेवा सुखायास्तु / यतः (पद्मानन्दमहाकाव्ये स० 8, श्लो० 52) ___ "धूलिधूसरममुं मरुदेवा-ऽऽश्लिष्य मीलिनयना स्वयमासीत् / - अन्तरे वपुरिदं सुखपूरैः, पूरितं कियदितीव दिदृक्षुः // 4 // " (स्वागता) अथ गुरुगतमङ्गलमाह गौ:-गुरुः तस्य धूलिः अर्थात् चरणकमलरजः तस्याः कानि-सुखानि यस्यां प्रणतो सा गोधूलिका / गुरुचरणकमलरजःस्पर्शसुखप्रणतिः सुखायास्तु // 5 // अथ सरस्वतीगतमङ्गलमाह गोभिः-जलैः धूल्या च उपलक्षितः कः-आत्मा रूपं यस्याः सा गोधूलिका-सरस्वती ज्ञानवृद्धयेऽस्तु / "को ब्रह्मण्यात्मनि रवौ" इति कोषे ( हैमेऽनेकार्थसङ्ग्रहे का० 1, श्लो० 5) / अत्र श्लिष्टार्थत्वात् गौ:-श्रुतदेवीबीजं गकारं विनाऽपि अरपि बीजम् / यतः "अस्त्वौर्वोऽपि सरस्वती मनुगतो जाड्याम्बुविच्छित्तये / ___ गोशब्दो गिरि वर्तते स नियतं योगं विना सिद्धिदः // " इति लघुस्तवे / सरस्वत्या हि जलानि धूल्याविलानि भवन्तीति युक्तोऽयमर्थः // 6 // इति मङ्गलाचरणार्थः // __अथ प्रस्तुतमाह गो:-पृथिव्याः प्रधाना धूली-कुङ्कमादिः यस्यां रचनायां सा गोधूलि, मध्यपदलोपत्वात् गोधूली एव गोधूलिका चेति / धूलिशब्दो हृस्वो दीर्घश्च ईब्विधानविकल्पात् गोधूली इत्यत्र सम्बन्धमात्रत्वात् केसरखटिकाधुचितद्रव्यपरिग्रहः // 7 // (गौः-धूली) अथवा / गौः-अग्निः तद्वत् तद्वर्णसमाना धूली-कुङ्कमादिः यस्यां रचनायां सा रचनायां सा / शेषं पूर्ववत् // 8 // गोभिः-जलैः द्रवीकृता प्रधानधूली-कुङ्कमादिरसो यस्यां रचनायां सा ।शेषं पूर्ववत् // 9 // अथवा ।गवि-पृथिव्यां प्रधानधूलिः-कुङ्कमादिः यस्यां रचनायां सा।शेषं पूर्ववत् // 10 // 1. "कं सुखे वारि शीर्षे च" इति पाठो विश्वलोचने ( श्लो० 3) / 2. अयं लघुस्तवनाम्नः सरस्वतीस्तोत्रस्य पञ्चमपद्यस्य उत्तरार्धः / पूर्वार्धस्तु यथा "यत् सद्यो वचसा प्रवृत्तिकरणे दृष्टप्रभावं बुधेस्तार्तीयं तदहं नमामि मनसा त्वबीजमिन्दुप्रभम्"
Loading... Page Navigation 1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194