________________ गुंहलिकापरपर्यायगोधूलिकार्थः 131 तेभ्यः कानि-सुखानि यस्यां प्रणतौ सा गोधूलिका तीर्थङ्करादिसुखकृतप्रणतिरस्तु / "कं सुखे शीर्षे जले च" ( ) प्रसिद्धम् // 3 // अथ मरुदेवागतमङ्गलमाह गौः-वृषभः तेन वृषभलाञ्छनेन उपलक्षित: अ:-अर्हन् तस्य धूलिः अर्थात् शरीरलग्नधूलि: तस्याः सकाशात् अर्थात् आलिङ्गनात् कानि-सुखानि यस्याः सा गोधूलिका भगवज्जननी मरुदेवा सुखायास्तु / यतः (पद्मानन्दमहाकाव्ये स० 8, श्लो० 52) ___ "धूलिधूसरममुं मरुदेवा-ऽऽश्लिष्य मीलिनयना स्वयमासीत् / - अन्तरे वपुरिदं सुखपूरैः, पूरितं कियदितीव दिदृक्षुः // 4 // " (स्वागता) अथ गुरुगतमङ्गलमाह गौ:-गुरुः तस्य धूलिः अर्थात् चरणकमलरजः तस्याः कानि-सुखानि यस्यां प्रणतो सा गोधूलिका / गुरुचरणकमलरजःस्पर्शसुखप्रणतिः सुखायास्तु // 5 // अथ सरस्वतीगतमङ्गलमाह गोभिः-जलैः धूल्या च उपलक्षितः कः-आत्मा रूपं यस्याः सा गोधूलिका-सरस्वती ज्ञानवृद्धयेऽस्तु / "को ब्रह्मण्यात्मनि रवौ" इति कोषे ( हैमेऽनेकार्थसङ्ग्रहे का० 1, श्लो० 5) / अत्र श्लिष्टार्थत्वात् गौ:-श्रुतदेवीबीजं गकारं विनाऽपि अरपि बीजम् / यतः "अस्त्वौर्वोऽपि सरस्वती मनुगतो जाड्याम्बुविच्छित्तये / ___ गोशब्दो गिरि वर्तते स नियतं योगं विना सिद्धिदः // " इति लघुस्तवे / सरस्वत्या हि जलानि धूल्याविलानि भवन्तीति युक्तोऽयमर्थः // 6 // इति मङ्गलाचरणार्थः // __अथ प्रस्तुतमाह गो:-पृथिव्याः प्रधाना धूली-कुङ्कमादिः यस्यां रचनायां सा गोधूलि, मध्यपदलोपत्वात् गोधूली एव गोधूलिका चेति / धूलिशब्दो हृस्वो दीर्घश्च ईब्विधानविकल्पात् गोधूली इत्यत्र सम्बन्धमात्रत्वात् केसरखटिकाधुचितद्रव्यपरिग्रहः // 7 // (गौः-धूली) अथवा / गौः-अग्निः तद्वत् तद्वर्णसमाना धूली-कुङ्कमादिः यस्यां रचनायां सा रचनायां सा / शेषं पूर्ववत् // 8 // गोभिः-जलैः द्रवीकृता प्रधानधूली-कुङ्कमादिरसो यस्यां रचनायां सा ।शेषं पूर्ववत् // 9 // अथवा ।गवि-पृथिव्यां प्रधानधूलिः-कुङ्कमादिः यस्यां रचनायां सा।शेषं पूर्ववत् // 10 // 1. "कं सुखे वारि शीर्षे च" इति पाठो विश्वलोचने ( श्लो० 3) / 2. अयं लघुस्तवनाम्नः सरस्वतीस्तोत्रस्य पञ्चमपद्यस्य उत्तरार्धः / पूर्वार्धस्तु यथा "यत् सद्यो वचसा प्रवृत्तिकरणे दृष्टप्रभावं बुधेस्तार्तीयं तदहं नमामि मनसा त्वबीजमिन्दुप्रभम्"