________________ 132 श्रीजैनधर्मवरस्तोत्रम् अथवा / गौः-पृथिवी "भूस्तु भूमिरिव क्षितौ // स्थाने च" इति हैमानेकार्थवचनात् (का० 1, श्लो० 9-10) / अत्र गोशब्दः स्थानवाची / तेन पट्टकाधुचितस्थाने प्रधाना धूली यस्यां रचनायां सा / शेषं पूर्ववत् // 11 // ___ अथवा / गवा-वाण्या वचनपर्यायमय्या उपलक्षणत्वात् सधवमहिलामञ्जुलगीतध्वन्युपलक्षिता प्रधानधूली-कुङ्कमादिः यस्यां रचनायां सा गोधूली // 12 // __ अथवा / गौ:-गुरुः हिताहितोपदेशकः तस्याने प्रधानधूली-कुङ्कमादिः यस्यां रचनायां सा गोधूली // 13 // ___अथवा / गौ:-गुरुः धर्मोपदेशकः तेन उपलक्षणत्वात् तच्चरणन्यासेन प्रधाना धूलि:रजो यस्यां वसतौ उपाश्रये तत्र वा गोधूलिका / कप्रत्ययः / प्रत्ययाणितो वा भवन्ति कर्णाटककार्णाटक इत्यादिवत् वृद्धिविकल्पत्वम् / वृद्धौ सत्यामपि गोधूलिका / प्राकृते हृस्वत्वं समानम् // 14 // ___ अथवा / गोखुरैरुत्खातधूलिसमये जातं गोधूलिकं अंशकलग्नमिति यावत् ज्योतिःशास्त्रप्रसिद्धं तद्वत् / गवा-वाण्या अर्थात् गुरुणा शास्त्रार्थकथनेन निषिध्यमानधूलिसमये निवार्यमाणपापरजोऽवसरे भवा-सधवाभिः कृता गोधूलिका उपचारत्वेन (प्र)सिद्धा // 15 // अथवा / गावः-वृषभाः सिद्धान्तभाषया गीतार्थाः तेषामग्ने प्रधानधूल्या भवा गोधूलिका // 16 // अथाध्यात्मदशायां गोधूलिकार्थो लिख्यते गावः-इन्द्रियाणि गुणगुणिनोरभेदात् तद्विषयाः शब्दादयः पञ्च ते धूलयः-रजांसि इव यस्याम् अध्यात्मदशायां सा गोधूलिका अध्यात्मस्वरूपमयी // 17 // अथवा / गवा-ज्ञानेन न विद्यते धूलि:-पापरजो यस्यां अध्या० सा गोऽधूलिका // 18 // अथवा / गौः-स्वर्गः श्रीः रमा च एते पदार्थाः धूलयः-रजांसि इव यस्यां अध्या० सा गोधूलिका अध्यात्मदशा // 19 // __ अथवा / गवाः-सुखानि इन्द्रियजन्यसुखानि आ-समता(त्) धूलयः-रजांसि एव यस्यां अध्या० सा गोधूलिका / अत्र 'एदोतोतः' (सा० सू० 51) इति सूत्रेण क्वचिदाकारस्यापि लोपः // 20 // __ अथवा / गौः-चित्तभूमिः तस्यां न विद्यन्ते धूलयः-अघरजांसि यस्यां अध्या० सा० गोधूलिका अध्यात्मदशा // 21 // अथवा / गवा-वह्निना तपसा न धूलयः-अघरजांसि यस्यां अध्या० सा गोधूलिका अध्यात्मदशा // 22 // अथवा / गाव:-जलानि शमजलानि तैः न धूलयः-अघरजांसि यस्यां० सा गोऽधूलिका अध्यात्मदशा // 23 // अथवा / गौः-नेत्रं ज्ञाननेत्रं तेन न धूलयः-पापरजांसि यस्यां० सा गोऽधूलिका अध्यात्मदशा // 24 //