________________ 130 श्रीजैनधर्मवरस्तोत्रम् "(शून्ये बिन्दौ सुखे खस्तु, सूर्ये) गौरुदके दृशि // स्वर्गे दिशि पशौ रश्मौ, वजे भूमाविषौ गिरि // 1 // " इति हैमानेकार्थसूत्रे (का० 1, श्लो० 6) / 'धुगमिभ्यां डोः' (सिद्ध० उणादि० 867) इति सूत्रेण गमेर्डी प्रत्यये डित्वाट्टिलोपे गच्छतीति गौः दशस्वर्थेषु स्त्रीपुंसयोः / अन्ये तु आचार्याः “वागादौ स्त्रियां स्वर्गादौ पुंसि पशौ द्वयोः जलाक्ष्णोः क्लीबे" इत्याहुः / उदके यथा-"गावौ वहन्ति विमला: शरदि स्रवन्त्याम्" इत्यादि / इति हैमानेकार्थस्य कैरवाकरकौमुद्यां टीकायाम् // छ // "स्वर्गे रश्मौ च वजे च, बलीवर्दे च गौः पुमान् / स्त्री-बाण-रोहिणी-नेत्र-दिग्-वाग्-भूष्वप्सु भूम्नि च // 1 // " "हेमसूरयोऽमुं सर्वेष्वर्थेषु पुंस्त्रीलिङ्गमाहुः" इति धातुरत्नाकरे श्रीसाधुसुन्दरोपाध्यायाः ॥छ। "गौर्वजे सुवृषे धेनौ वाचि दिग-बाणयोगिरि / भू-मयूख-सुख-स्वर्ग-सत्य-वय-ऽक्षि-मातृषु // 1 // " 'ला आदाने' "ल इन्द्रे चलने मृते लिः लावे ली श्लेषककणेव // " इति महीपकोषे ।।छ।। "बाणे चापि पशौ भूमौ, दिशि रश्मिजले दृशि / . स्वर्गे मातरि वजेऽग्नौ, सुखे सत्त्वे च गोध्वनि // 1 // " इति अनेकार्थध्वनिमञ्जर्याम् ॥छ॥ "ल इन्द्रे चलनेऽपि च" इति अमरानेकाक्षर्यां (काव्यकल्पलतायां प्र० 3, स्त० 5, पृ० 111) // छ // अथ मङ्गलाचरणविचारणायां प्रथमतः श्रीनाभिराजाङ्गजश्रीऋषभदेवगतमङ्गलमाह-गौ:-वृषभः 'सर्वं वाक्यं सावधारणं भवति' इति न्यायात् तेन वृषभलाञ्छनेन उपलक्षितः अ:-अर्हन् / 'असिआउसानमः' इति वचनात् 'विशेषणशक्त्या विशेष्यः प्रतीयते' तेन श्रीनाभेयजिनः तस्य धूलिका (धूलौ भवा धूलिका)-धूलिक्रीडा गोधूलिका सुखाय भवत्वित्यन्वयः / अत्र ‘एदोतोऽतः' (सा० सू० 51) इति सूत्रेणाकारलोपः / एवमग्रेऽपि यथास्थानं ज्ञातव्यम् // 1 // अथवा गौः-स्वर्गः आधारे आधेयोपचारात् तन्निवासिनो देवाः तैः सह अः तस्य धूलिकाधूलिक्रीडा गोधूलिका / शेषं पूर्ववत् // 2 // अथ सकलतीर्थङ्करादिगतमङ्गलमाह गोभिः-ज्ञानैः अन्योन्याविनाभावात् ज्ञान-दर्शन-चारित्रैनिजोचितगुणस्थानान्वितैः कृत्वां उपलिक्षता: वा, न विद्यन्ते धूलयः-अघरजांसि येषां ते तीर्थङ्कराः गणधराः साधवश्च