________________ श्रीभावप्रभसूरिसूत्रितः // गुंहलिकापरपर्यायगोधूलिकार्थः // श्रीमहिमाप्रभसूरिसद्गुरुभ्यो नमः // ऐं नमः // नत्वा पार्श्वजिनेन्द्राय महिमाप्रभसद्मने / ब्रवीमि गुंहलीकार्थं सूरिर्भावप्रभाह्वयः // 1 // श्रीमति जिनशासने देवगुरुप्रमुखपुरतो भक्तिहेतोर्माङ्गल्यहेतोः सिद्धान्तविनयहेतो लोकेऽपि च सुखभक्षिकाभाजनसमीपभूमण्डले तदक्षयहेतोः स्वस्तिकरचना क्रियते / अत्र केचित् तु गुरुकुलभ्रष्टा ज्ञानविकलास्तां नाङ्गीकुर्वन्ति तेऽनन्तसंसारिणो ज्ञेयाः / यतः साधुस्तान्यर्चनादीनि मनसाऽपि न प्रार्थयेत् / परं श्रावकैस्तु गुरुभक्त्या तानि कर्तव्यान्येव / अन्यथा तत्रैव पञ्चत्रिंशोत्तराध्ययने प्रोक्तानां क्रियमाणानां च वन्दनादीनामप्यकर्तव्यापत्तेः। यतस्तत्र (अष्टादशी) गाथा "१अच्चणं रयणं चेव, वंदणं पूअणं तहा / इडीसक्कारसम्माणं, मणसा वि न पत्थए // 1 // " अत्र रयणं रञ्जनं इत्यस्यार्थो 'गुंहली' इति कथित इति / स्वस्तिकरचनाया नाम गोधूलिका इत्यादि संस्कृते / प्राकृतभाषायां तु गुंहुलिका गुंहुली इत्यादि नामान्तराणि कथ्यन्ते / तेषां काव्यव्युत्पत्तिरत्रोच्यते / प्रथमत उपयोगार्थ कोशा लिख्यते "गौर्वाणी-बाण-भू-रश्मि-वज्र-स्वर्गाऽक्षि-वारिषु / दिशि धेनौ श्रुतेश्वर्यां, गणेशे चापि गौः स्मृतः // 1 // " ( 'सुधा०, श्लो० 13) * तथा च-"हः शूलिनि करे नीरे, क्रोधे गर्भप्रभाषणे / निवासे च" इति ( सुधा०, श्लो० 45) इति एकाक्षरनिघण्टौ // छ / "गौर्वजं गौः प्रभा भूमि-र्वाणी तोयं त्रिविष्टपम् / धेनुर्बस्तो वृषो दिग् गौ-र्नेत्रं लज्जा गुरू रमा // 1 // इन्द्रियं श्रीरुमा च" इति "हो हर्षो हिरण्याक्षोऽथ तस्करः // " इति सौभरिनामकोषे // छ / 1. छाया-अर्चनं रञ्जनं चैव वन्दनं पूजनं तथा / ऋद्धिसत्कारसन्मानं मनसाऽपि न प्रार्थयेत् // 2-3. श्रीसुधाकलशप्रणीतायां एकाक्षरनाममालिकायामिति /