________________ 128 . श्रीजैनधर्मवरस्तोत्रम् १अम्बरम्बुनि पत्रमरातिः, परीतमहीनगणस्य ददाह / यस्य वधूस्तनयं गृहमब्जा, पातु स वो हरलोचनवह्निः // 1 // अस्यार्थ:-स देवः कृष्णः वः-युष्यान् पातु-रक्षतु / स कः ? यस्य-देवस्य अम्बरंवस्त्रं पीतं वर्तते / यस्य गृहं अम्बुनि-जले समुद्रे वर्तते / पुनः यस्य अहीनगणस्यसर्पराजसमूहस्य अरातिः-शत्रुः गरुडः पत्रं-वाहनं वर्तते / यस्य वधूः अब्जा-समुद्रजाकमला वर्तते / पुनः हरलोचनवह्निः यस्य तनयं-पुत्रं कन्दर्प ददाह / इति सम्पूर्णोऽर्थः / अस्मिन् काव्ये व्यस्तालङ्कारोऽस्ति // इति सूक्तं सम्पूर्णं शिष्याणां पठनाय श्रीकल्याणमस्तु // 1. सुभाषितरत्नभाण्डागारे (पृ० 197, श्लो० 58) प्रेक्ष्यमाणं इदं काव्यं प्रक्षिप्तमिति प्रतिभाति, परन्तु प्रतियुगले विद्यमानत्वात् अत्रोपस्थितम् /