Book Title: Jaindharmvarstotra Godhulikarth Sabhachamatkareti Krutitritayam
Author(s): Hiralal R Kapadia
Publisher: Bhadrankar Prakashan
View full book text ________________ 130 श्रीजैनधर्मवरस्तोत्रम् "(शून्ये बिन्दौ सुखे खस्तु, सूर्ये) गौरुदके दृशि // स्वर्गे दिशि पशौ रश्मौ, वजे भूमाविषौ गिरि // 1 // " इति हैमानेकार्थसूत्रे (का० 1, श्लो० 6) / 'धुगमिभ्यां डोः' (सिद्ध० उणादि० 867) इति सूत्रेण गमेर्डी प्रत्यये डित्वाट्टिलोपे गच्छतीति गौः दशस्वर्थेषु स्त्रीपुंसयोः / अन्ये तु आचार्याः “वागादौ स्त्रियां स्वर्गादौ पुंसि पशौ द्वयोः जलाक्ष्णोः क्लीबे" इत्याहुः / उदके यथा-"गावौ वहन्ति विमला: शरदि स्रवन्त्याम्" इत्यादि / इति हैमानेकार्थस्य कैरवाकरकौमुद्यां टीकायाम् // छ // "स्वर्गे रश्मौ च वजे च, बलीवर्दे च गौः पुमान् / स्त्री-बाण-रोहिणी-नेत्र-दिग्-वाग्-भूष्वप्सु भूम्नि च // 1 // " "हेमसूरयोऽमुं सर्वेष्वर्थेषु पुंस्त्रीलिङ्गमाहुः" इति धातुरत्नाकरे श्रीसाधुसुन्दरोपाध्यायाः ॥छ। "गौर्वजे सुवृषे धेनौ वाचि दिग-बाणयोगिरि / भू-मयूख-सुख-स्वर्ग-सत्य-वय-ऽक्षि-मातृषु // 1 // " 'ला आदाने' "ल इन्द्रे चलने मृते लिः लावे ली श्लेषककणेव // " इति महीपकोषे ।।छ।। "बाणे चापि पशौ भूमौ, दिशि रश्मिजले दृशि / . स्वर्गे मातरि वजेऽग्नौ, सुखे सत्त्वे च गोध्वनि // 1 // " इति अनेकार्थध्वनिमञ्जर्याम् ॥छ॥ "ल इन्द्रे चलनेऽपि च" इति अमरानेकाक्षर्यां (काव्यकल्पलतायां प्र० 3, स्त० 5, पृ० 111) // छ // अथ मङ्गलाचरणविचारणायां प्रथमतः श्रीनाभिराजाङ्गजश्रीऋषभदेवगतमङ्गलमाह-गौ:-वृषभः 'सर्वं वाक्यं सावधारणं भवति' इति न्यायात् तेन वृषभलाञ्छनेन उपलक्षितः अ:-अर्हन् / 'असिआउसानमः' इति वचनात् 'विशेषणशक्त्या विशेष्यः प्रतीयते' तेन श्रीनाभेयजिनः तस्य धूलिका (धूलौ भवा धूलिका)-धूलिक्रीडा गोधूलिका सुखाय भवत्वित्यन्वयः / अत्र ‘एदोतोऽतः' (सा० सू० 51) इति सूत्रेणाकारलोपः / एवमग्रेऽपि यथास्थानं ज्ञातव्यम् // 1 // अथवा गौः-स्वर्गः आधारे आधेयोपचारात् तन्निवासिनो देवाः तैः सह अः तस्य धूलिकाधूलिक्रीडा गोधूलिका / शेषं पूर्ववत् // 2 // अथ सकलतीर्थङ्करादिगतमङ्गलमाह गोभिः-ज्ञानैः अन्योन्याविनाभावात् ज्ञान-दर्शन-चारित्रैनिजोचितगुणस्थानान्वितैः कृत्वां उपलिक्षता: वा, न विद्यन्ते धूलयः-अघरजांसि येषां ते तीर्थङ्कराः गणधराः साधवश्च
Loading... Page Navigation 1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194