Book Title: Jaindharmvarstotra Godhulikarth Sabhachamatkareti Krutitritayam
Author(s): Hiralal R Kapadia
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 150
________________ गुंहलिकापरपर्यायगोधूलिकार्थः 133 अथवा ।गौ:-लज्जा चारित्रधर्मरक्षणलज्जा तया न धू०-पा० यस्यांसा गोऽधूलिका // 25 // अथवा / गाव:-बाणा: उपयोगलक्षणा: तैर्न धू०-पा० य० सा गोऽधूलिका // 26 // अथवा ।गाव:-मातरः अष्टप्रवचनमातरः ताभिः न धू०-पा० य० सा गोऽधूलिका // 27 // अथवा / गौः-वाणी जिनवाणी तया न धू०-पा० य० सा गोऽधूलिका // 28 // __इति अध्यात्मदशायां गोधूलिकाशब्दार्थः // अथ लोकेऽपि गोधूलिकाशब्दोऽस्ति / यतः गौः-पृथिवी तज्जातित्वात् मृत्तिका खटिका वर्णिका उपलक्षणत्वात् गोमयमपि, एतेषां लेपनेन न धूलि:-रजो यस्यां भूमौ सा गोधूलिका मृत्तिका गोमयादिभिरञ्चितभूमिमण्डलानि गुंहलीचतुष्क इत्यादीनि दीयन्ते क्रियन्ते च लोके प्रसिद्धम् / उक्तं च अर्धशीर्षकपीडानिवारणमन्त्रकथायां 'ॐ नमो अउट्ठावली' इत्यादिपदपङ्क्तौ 'गुंहुली कर मांडलांद्यइ' इत्यादि / संस्कृते गोधूलिकाशब्दः गोधूलिका गोधूलिः गोधूली प्राकृते तु गुंहुली गुंहलिया गुंहुलिका हृस्वत्वं मकारागमश्च भवत्यलाक्षणिक इति // 29 // ___ अथ द्वितीयं पदं गोहली गुंहली इति कोऽर्थः ? उच्यते-गवि-पृथिव्यां हलवत् हलकर्षणोपचारो यस्याः स्वस्तिकरचनाया साः गोहलिका // 30 // अथवा / हलिः इति महद्धलं धातुरत्नाकरोक्तं तदुपचारो यस्यां सा गोहलिः // 31 // अथवा / गु:-कान्तिः हः-हर्षः अनयोः ली-श्लेषो यस्यां सा गुहली // 32 // अथवा / गुः-कान्तिः हः-हर्षः अनयोः ला-आदानं यस्यां सा गुहलिका / अत्र 'गुः' इति पदेन सधवता सुनेपथ्या सुरूपा चोक्ता / 'हर्ष'पदेन चित्तप्रसन्नता चोक्ता // 33 // - अथवा / गौः-ज्ञानं वाणी प्रभा कान्तिश्च तेषां हः-निवासः आधार: आचार्यः "ओयंसि तेयंसि वच्चंसि" ( ) इत्यादिवचनात् तेषां अग्रे ला-इन्द्राण्य इव ला:सधवाः श्राविकाः ताभ्यः सकाशात् भवा गोहलिका // 34 // ... अथवा / गौः-ज्ञानं तेन न हः-क्रोधो यस्याः सा एवंविधा सधवा ला-इन्द्राणीव तस्याः भवा गोऽहलिका // 35 // अथवा / गौः-श्रीः रमा वा तया उपलक्षितो हः-हर्षो यासां ताः सधवाः लाः-इन्द्राण्य इव ताभ्यो भवा गोहलिका // 36 // ___ अथवा / गवां-श्रीणां शोभानां प्रभाणां च हः-निवासः आधारः अर्थात् सकलशोभामिलितदीपावलिकलितं दीपावलिकापर्व तस्मिन् लसतीति ला गोहला / गोहला एव गोहलिका // 37 // __ अथवा / गवा-श्रिया केवलज्ञानलक्ष्या उपलक्षितः अ:-अर्हन् तस्य हः-निवासः चैत्यः तत्र लसति-द्योतते या सा ला / क्वचिडप्रत्यये सिद्धम् / गोहलिका स्वार्थे कः आप्न काप्यत (?) इति सिद्धम् // 38 // __ अथवा / गौः-श्रीः प्रभावः ताभ्यां उपलक्षितो हः-निवासः जिनप्रासादः तत्र लसतीति ल:-जिनः तस्य इयं मूर्तिः ली तस्याः अग्रे भवा गोहलिका // 39 //

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194