Book Title: Jaindharmvarstotra Godhulikarth Sabhachamatkareti Krutitritayam
Author(s): Hiralal R Kapadia
Publisher: Bhadrankar Prakashan
View full book text ________________ 118 श्रीजैनधर्मवरस्तोत्रम् ___ यदा षट्खण्डं जित्वा 'अयोध्या'यां समेतः श्रीभरतोऽष्टानवतिभ्रातृणां दीक्षाऽनन्तरं स्वस्थानप्रवेशाभावे चक्रस्य सुवेगनामानं दूतं बाहुबलेराकारणाय मुमोच / स दूतो 'बहुली 'देश तक्षशिला'नगरी गत्वा भरतसुखोदन्तमुदित्वा बाहुबलेराह्वानकारणं कथयामास-चेद् भवान् बाहुबली तत्र नागमिष्यति तदा विरोधो भविष्यति / बलिष्ठो भरत इन्द्रेण सहैकत्र सिंहासने तिष्ठति / अस्य सेवां सर्वेऽपि राजानः कुर्वन्ति / अस्य चलितं चतुरङ्गसैन्यं को रुणद्धि ? सर्वैः सर्वत्र चक्री इति गीयते / यदि राज्येन जीवितव्येन कार्यं तदैनं भजस्व इत्युक्ते दूतेन सति बाहुबलिः प्राह "१सदा तदाज्ञां स्वशिरःकिरीटं, कुर्वन्ति किं नाम न ते नरेन्द्राः / यस्यानुजः स्फूर्जति वर्यशौर्यो, महामहा बाहुबली बलिष्ठः // 1 // उप० चक्री स चक्रभ्रमतो बभूव, तन्निग्रहाद् बिभ्यति ये वराकाः / ते तस्य सेवां रचयन्तु तं तु, न कुम्भकारादधिकं करोमि // 2 // " उप० इत्याद्युक्त्वा त्वं दूतोऽवध्य इति मुक्तः / स आगत्य चक्रिणं यथोक्तं जगौ / भरतोऽपि समग्रसैन्यमादाय 'बहुली देशं ययौ / चक्रि-बाहुबलिनोईयोरपि सैन्ययोयुद्धं लग्नम् / अथ महारणे प्रवृत्ते मा भूत् सकललोकक्षय इति विचार्य देवाः श्रीवृषभाज्ञया सैन्ययुग्मं युध्यमानं निवार्य चक्रिणं प्रबोधयामासुः काव्यानि ( पद्मानन्दे स० 17, श्लो० 230, 231, 233, 235) "के न पूर्वमभवन् भुवो २धवा, मेदिनी कमपि नेयमन्वगात् / व्रीडमप्यभृत नागभर्तरि, भ्रंशभाजि दधती नवं नवम् // 1 // रथोद्धता नैतया कति पतित्वधारिणो, मारिता बत परेषु लुब्धया / रागिणो गुणनिधीन् यदृच्छया, जीवतोऽपि कति ते यमत्यजन् // 2 // रथो० वैभवेऽपि भुवनस्य भोग्यता-मेति तल्पमितमेव भूतलम् / श्रीभरेऽपि सति भोज्यताऽधिकं, स्वस्य किञ्चिदपि नोपकारकम् // 3 // रथो० तद्भुनीवनरेबिलगसागर, रुद्धमस्ति न कियद्धरातलम् / भूलवोऽयमपि तद्वदुच्यतां, मुच्यतां सह कुलेन विग्रहः // 4 // " रथो० इति / हे भरत ! त्वं रणं त्यज / गृहं याहि / पाहि जनान् / तदा भरतेन भणितम्-मम चक्ररत्नं 'विनीतां' न प्रविशेत्, द्वितीयं कार्यं नहि / ततो देवा आगत्य बाहुबलिं बोधयन्ति स्म / तेनोक्तम्-तातदत्तं राज्यं पालयामि / इमं लोभिनं भरतं न भजामि / अयुध्यमानेन समं नाहं युध्ये ततो विवादभञ्जनार्थं द्वाभ्यां स्वामिभ्यां दृग्-वाग्-भुज-दण्ड-युद्धैर्योध्यं / येन गजादिसंहारो न स्यात् / ततो भरतस्य दृष्टियुगं सङ्कचितं रविदर्शनात् कैरववत् मिथो विलोकनात्, 1. इमे पद्ये वर्तेते पद्मानन्दमहाकाव्ये (स० 17) यच्छ्लोकाङ्कौ 77,92 / 2. पतयः / 3. विभाग' इति क-पाठः /
Loading... Page Navigation 1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194