________________ 118 श्रीजैनधर्मवरस्तोत्रम् ___ यदा षट्खण्डं जित्वा 'अयोध्या'यां समेतः श्रीभरतोऽष्टानवतिभ्रातृणां दीक्षाऽनन्तरं स्वस्थानप्रवेशाभावे चक्रस्य सुवेगनामानं दूतं बाहुबलेराकारणाय मुमोच / स दूतो 'बहुली 'देश तक्षशिला'नगरी गत्वा भरतसुखोदन्तमुदित्वा बाहुबलेराह्वानकारणं कथयामास-चेद् भवान् बाहुबली तत्र नागमिष्यति तदा विरोधो भविष्यति / बलिष्ठो भरत इन्द्रेण सहैकत्र सिंहासने तिष्ठति / अस्य सेवां सर्वेऽपि राजानः कुर्वन्ति / अस्य चलितं चतुरङ्गसैन्यं को रुणद्धि ? सर्वैः सर्वत्र चक्री इति गीयते / यदि राज्येन जीवितव्येन कार्यं तदैनं भजस्व इत्युक्ते दूतेन सति बाहुबलिः प्राह "१सदा तदाज्ञां स्वशिरःकिरीटं, कुर्वन्ति किं नाम न ते नरेन्द्राः / यस्यानुजः स्फूर्जति वर्यशौर्यो, महामहा बाहुबली बलिष्ठः // 1 // उप० चक्री स चक्रभ्रमतो बभूव, तन्निग्रहाद् बिभ्यति ये वराकाः / ते तस्य सेवां रचयन्तु तं तु, न कुम्भकारादधिकं करोमि // 2 // " उप० इत्याद्युक्त्वा त्वं दूतोऽवध्य इति मुक्तः / स आगत्य चक्रिणं यथोक्तं जगौ / भरतोऽपि समग्रसैन्यमादाय 'बहुली देशं ययौ / चक्रि-बाहुबलिनोईयोरपि सैन्ययोयुद्धं लग्नम् / अथ महारणे प्रवृत्ते मा भूत् सकललोकक्षय इति विचार्य देवाः श्रीवृषभाज्ञया सैन्ययुग्मं युध्यमानं निवार्य चक्रिणं प्रबोधयामासुः काव्यानि ( पद्मानन्दे स० 17, श्लो० 230, 231, 233, 235) "के न पूर्वमभवन् भुवो २धवा, मेदिनी कमपि नेयमन्वगात् / व्रीडमप्यभृत नागभर्तरि, भ्रंशभाजि दधती नवं नवम् // 1 // रथोद्धता नैतया कति पतित्वधारिणो, मारिता बत परेषु लुब्धया / रागिणो गुणनिधीन् यदृच्छया, जीवतोऽपि कति ते यमत्यजन् // 2 // रथो० वैभवेऽपि भुवनस्य भोग्यता-मेति तल्पमितमेव भूतलम् / श्रीभरेऽपि सति भोज्यताऽधिकं, स्वस्य किञ्चिदपि नोपकारकम् // 3 // रथो० तद्भुनीवनरेबिलगसागर, रुद्धमस्ति न कियद्धरातलम् / भूलवोऽयमपि तद्वदुच्यतां, मुच्यतां सह कुलेन विग्रहः // 4 // " रथो० इति / हे भरत ! त्वं रणं त्यज / गृहं याहि / पाहि जनान् / तदा भरतेन भणितम्-मम चक्ररत्नं 'विनीतां' न प्रविशेत्, द्वितीयं कार्यं नहि / ततो देवा आगत्य बाहुबलिं बोधयन्ति स्म / तेनोक्तम्-तातदत्तं राज्यं पालयामि / इमं लोभिनं भरतं न भजामि / अयुध्यमानेन समं नाहं युध्ये ततो विवादभञ्जनार्थं द्वाभ्यां स्वामिभ्यां दृग्-वाग्-भुज-दण्ड-युद्धैर्योध्यं / येन गजादिसंहारो न स्यात् / ततो भरतस्य दृष्टियुगं सङ्कचितं रविदर्शनात् कैरववत् मिथो विलोकनात्, 1. इमे पद्ये वर्तेते पद्मानन्दमहाकाव्ये (स० 17) यच्छ्लोकाङ्कौ 77,92 / 2. पतयः / 3. विभाग' इति क-पाठः /