________________ श्रीभावप्रभसूरिकृतम् 117 परं यद्दिनादारभ्य यूयं देशसाधनार्थं चचाल तत्प्रभृति नित्यश इयं आचाम्लानि करोति / तथा १स्वामिना प्रव्रजन्ती असौ निवारिता तत्प्रभृति भावसाध्वी जाताऽसौ संसारच्छेदनाय / तदा भरतेन सुन्दरी सम्भाषिता / तदा सुन्दर्या प्रोक्तम्-एवमेव / तदा चक्री प्राह स्म-हे सुन्दरि! हे महासत्त्वे ! साधु साधु तव तत्त्वे मतिर्निर्मला रमते, त्वं प्रव्रज्यां प्रपद्यमाना प्रमादतो मया तदा निवारिता / ततो दीक्षामहोत्सवेन चक्रिणा कृतेन सुन्दरी 'अष्टापद गिरौ समवसृतस्य श्रीऋषभदेवस्वामिनः समीपे व्रतं गृहीत्वा निर्मलं चारित्रं पालयामास / इति पूर्णः अस्याः सम्बन्धस्तपोऽधिकारेऽपि वाच्यः / यतः "दातव्यं धन्यवद् दानं, शीलं सीतेव निर्मलम् / सुन्दरीवत् तपः कार्य, भावना भरतेशवत् // 1 // " अनु० इत्यष्टत्रिंशत्तमवृत्तार्थः // 38 // अथ तप आश्रित्याहसूत्रम्... ब्राह्मी सुसुन्दरिकया सह तं वनस्थं वल्ल्यावृताङ्गवरबाहुबलिं बभाषे / गर्जाश्रयं जहिहि कर्मलयं लभस्व ___ दुःखाङ्कुरोद्दलनतत्परतां विधेहि // 39 // व्याख्या-(ब्राह्मीति / ) सुसुन्दरिकया सुभगिन्या साध्व्या सह ब्राह्मी तं वल्ल्यावृताङ्गवरबाहुबलिं बभाषे-जगाद / वल्लिभिः आवृतं-आच्छादितं अङ्गं यस्य सः, वरश्चासौ बाहुबलिश्च तम् / कथंभूतं तम् ? वनस्थं-वनवासिनमिति / हे भ्रातः ! त्वं गर्जाश्रयं जहिहि-त्यज / गर्जे-गजे आश्रयो-निवासः ( यस्य) तं, गजारोहणमित्यर्थः / "गर्जः गज" इति शब्दप्रभेदः (?) / त्वं कर्मलयं लभस्व-कर्मनाशं प्राप्नुहि / अत एव त्वं दुःखाकरोद्दलनतत्परतां विधेहि-दुःखाङ्करस्य उद्दलने-उत्पाटने तत्परतां-आदरत्वं विधेहि-कुरु / कायोत्सर्गस्तपोमध्ये कथितोऽस्ति-"३पायच्छित्तं विणओ" इत्यादि (अतिचारगाथायां सप्तमी) गाथा / अत्र सम्बन्धः 1. त्वया भरतेन / 2. वैजन्तीकोशे भूमिकाण्डे (श्लो० 60) "स्तम्बेरमो गजो गर्जः इति पाठः / 3. सम्पूर्णा गाथा तच्छाया चैवम् "पायच्छित्तं विणओ, वेयावच्चं तहेव सज्झाओ। झाणं उस्सग्गो वि अ, अभितरओ तवो होइ // " [ प्रायश्चित्तं विनयो वैयावृत्त्यं तथैव स्वाध्यायः / ध्यानमुत्सर्गोऽपि च अभ्यन्तरं तपो भवति // ]