________________ 116 श्रीजैनधर्मवरस्तोत्रम् देवेन केनचिदहं दहने निरस्ता / निस्तारिता च भवतैव हदि स्थितेन // 4 // " वसन्त० रामो मूर्छा गतः / सीता तु तदैव जयभूषणकेवलिपार्श्वे दीक्षां लात्वा तपस्तत्त्वा मृत्वाऽच्युतेन्द्रो जातः / यदा ‘विदेह'क्षेत्रे रावणजीवस्तीर्थङ्करो भविष्यति तदा सीताजीवोऽस्य गणधरो भूत्वा मोक्षमेष्यति / अथ कालान्तरेण रामोऽपि व्रतं गृहीत्वा केवली भूत्वा मुक्तिं ययौ / इति सम्बन्धलेशः सीतायाः सम्पूर्णः इति सप्तत्रिंशत्तमवृत्तार्थः // 37 // सूत्रम् आबालगाङ्गसलिलामलशीललीले ! ___ हे भग्नि ! सुन्दरि ! पुरा चरणे निषिद्धा / .. प्रोद्यत्तपाः प्रकुरु ते शुचिचित्तवृत्त्या यस्मात् क्रियाः प्रतिफलन्ति न भावशून्याः // 38 // व्याख्या-आबालेति / हे सुन्दरि ! हे भग्नि ! सहजे ! आबालगाङ्गसलिलामलशीललीले ! बालं अभिव्याप्य इति आबालं गङ्गाया इदं गाङ्ग सलिलं तद्वद् अमला शीललीला यस्याः सा तस्याः सम्बोधनं इति / त्वं तत् १चरणं कुरु / कया ? शुचिचित्तवृत्त्या-निर्मलचित्तव्यापारेण कृत्वा / कथंभूता त्वं ? पुरा-पूर्वं मया-भरतेन चरणे-चारित्रे निषिद्धा / (पुनः) कथंभूता त्वम् ? 'प्रोद्यत्तपाः' प्रोद्यत्-उत्कटं तपो यस्याः सा, षष्टिसहस्राणि कृताचाम्लतपाः / यस्मात्यतः क्रियाः भावशून्याः न फलन्ति / २भग्नी भगिनी' इति शब्दप्रभेदे (श्लो० 41) / अत्र लेशतः सम्बन्धः- . भरतः षट्खण्डं साधयित्वा 'अयोध्यां' समागतोऽभिषेकोत्सवप्रान्ते सम्भालनार्थ नियुक्तनरैर्निजान् आकारयामास / यतः "षष्टिवर्षसहस्राणि, विरहोत्कण्ठिताशयान् / राजा निजान्निरैक्षिष्ट, नियुक्तनरयोजितान् // 1 // " अनु० . ततः दुर्बलां बाहुबलिनः सोदरी हेमन्तम्लाननलिनीमिव नि:श्रीकरूपां सुन्दरी वीक्ष्य क्रोधाध्मातश्चक्री तान् ब्रूते स्म-रे रे नियुक्ताः ! किं मदीयेऽपि गृहे न सूदाः सन्ति ? ओदनानि न सन्ति ? अथवाऽसौ किमपि नाश्नाति ? किं वाऽस्याः किं रोगोऽस्ति ? तर्हि किं वैद्या न सन्ति ? भर्वन्ध्या वर्तते ? ओषधीन प्रसौति ? वा किमसौ यतो दरिद्रपत्रीवत् कृशामेनां दृष्ट्वाऽहं दुःखितो जातः / तदा चैरधिकारिनरैः प्रोक्तम्-युष्माकं गृहे सर्वमस्ति / 1. चारित्रम् / 2. 'भगिनीमपि भग्नी च' इति पाठान्तरम् /