________________ 115 श्रीभावप्रभसूरिकृतम् फालं जलं घटं चैव, विषं कोषश्च पञ्चमः / षष्ठं च चापि (?) तुला दिव्यं, सप्तमं तप्तमाषकम् // 2 // अनु० आज्ञाभङ्गो नृपवधः, स्त्रीवधो वर्णसङ्करः / परस्त्रीगमनं चौर्य, गर्भं चैव पति विना // 3 // अनु० बाढवदण्डपारुष्यं, गर्भपातनमेव च / अपराधा दश प्रोक्ता, नीतिशास्त्रविशारदैः // 4 // " अनु० पाठान्तरम् "जल१मग्निरर्घटं 3 कोशो 4, विषं 5 माषाश्च 6 तन्दुलाः 7 / / काल८स्तुला 9 सुतस्पर्शो, 10 दिव्यानां दशकं जगुः // 5 // " अनु० इति दिव्याधिकारः / तेषु अग्निदिव्यमत्र रामेण दत्तम् / तदा पञ्चाशद्धनुर्मित-"रिकायां खादिराङ्गारपूरितायां तत्र सीता महासती सत्यश्रावणा यथा "मनसि वचसि काये जागरे स्वप्नमार्गे ___ यदि मम पतिभावो राधवादन्यपुंसि / तदिह दह शरीरं मामकं पावकेदं / विकृतसुकृतभाजां येन साक्षी त्वमेव // 1 // " मालिनी इत्युक्ते "हाकारगर्भितमुखेषु वलीमुखेषु - वैमानिकेषु नयनोदकमुत्सृजत्सु। व्योमाङ्गणाक्रमणकौतुकदत्तफाला ज्वालाकलापविकटाऽनलमाविवेश // 2 // " वसन्त० देवैः पुष्पवृष्टिविहिता / वह्निर्जलम् / यत:"सीतया दुरपवादभीतया, पावके स्वतनुराहुतिः कृता / पावकोऽपि जलतां जगाम यत्, तत्र शीलमहिमा विजृम्भितः // 3 // " रथोद्धता तत्र जलपूरप्लाव्यमाना लोकाः हे सीते ! महासति ! रक्ष रक्ष अस्मानिति कथ्यमानाः / तदा सीतया मण्डलाकारहस्त चालनेन स्तम्भितं जलम् / मण्डलाकारकुण्डजलाशयो जातः / तरत्कमलस्था कमला इव स्वयं जलाशयान्निर्गता सीता रामं त्रपाश्याममुखं दृष्ट्वा प्राह "मा गा विषादभवनं भुवनैकवीर ! निष्कारणं विगणिता किमियं मयैव / 1. 'वालनेन' इति ख-पाठः /