________________ 114 श्रीजैनधर्मवरस्तोत्रम् बिभीषण आह "मनुष्यौ न मनुष्यौ तौ, वानरास्ते न वानराः / व्याजेन किमपि छन्नं, देव ! दुर्दैवमेव ते // 2 // " अनु० तदियं मुच्यतां निशाचरकुलकालरात्रिमैथिली इति वचसा रुष्टेन रावणेन निष्कासितो बिभीषणो रामाय मिलित इति / अथ रावणं प्रति अङ्गद आह "समं प्रतिज्ञया येन, तीत्वा दुस्तरमर्णवम् / वनद्रुमाः सुवेलस्य भज्यन्ते त्वद्भुजा इव // 1 // अनु० तदा साटोपं रावण आह "पारावतैः किमयमम्बुनिधिर्न तीर्णः क्रान्ताः कथं न कपिभिः क्वचनापि शैलाः / . तद् वेद्मि दोर्बलमसौ यदि शौर्यरेखा माविष्करोति करवालकषोपले मे // 1 // " वसन्त० इति दूताङ्गदनाटके ( पृ० 10, श्लो० 34) लौकिकाः पठन्ति अथैकविंशतिदिवसानन्तरं हनुमता राममुद्रिकां समर्प्य सीताया भोजनं कारापितम् / ततो मिथो युद्धं जातम् / प्रान्ते रावणेन शक्त्या वक्षसि ताडितो लक्ष्मणो मूर्च्छया पतितः। ततो रात्रावेव हनुमत्प्रमुखैर्विद्याधरैः कन्यासहस्रयुता विशल्या नाम्नी कन्याऽऽनीता / पूर्वकृतपुण्यातिशायिन्या तया स्पर्शितः (स्पृष्टः ?) लक्ष्मणः सज्जो जातः / पर्यणायि ताभिः सह, लौकिकास्तु 'विशल्यां' औषधी पठन्तीति / प्रभाते युद्धे लग्ने हतो लक्ष्मणेन रावण'श्चतुर्थ्यां गतः / ततः सीतां लात्वा 'अयोध्यां' गतौ राम-लक्ष्मणौ / यतः सीता महासती राज्यशृङ्गारार्पणप्रलोभिताऽपि रावणेन न शीलाद् भ्रष्टा / एकदा नष्टचर्यागतेन रामेण गाञ्छिकवचनं श्रुत्वा त्यक्ता / यतः "न राज्ञा सह मित्रत्वं, न सो निर्विषः क्वचित् / न कुलं निर्मलं तत्र, स्त्रीजनो यत्र जीवति // 1 // अनु० पश्चात् पुत्र-लवाङ्कशप्रयोगेण सीता आनीता / रामेणोक्तम्-वैदेहि ! एहि, दिव्यं विधेहि, कलङ्कं पिधेहि / अथात्र दिव्याधिकार: "दिव्यं सप्तविधं प्रोक्तं, यथायोग्यं तथा बुधैः / / दिव्याधिवासनापूर्वं, कर्तव्यं देवसन्निधौ // 1 // अनु० 1. नरकभूमौ इति ज्ञेयम् /