________________ - 113 श्रीभावप्रभसूरिकृतम् . “ये मज्जन्ति निमज्जयन्ति नितरां ते प्रस्तरा दुस्तरा वार्थी वीर ! तरन्ति वानरभटानुत्तारयन्तेऽपि च / नैते ग्रावगुणा न वारिधिगुणा नो वानराणां गुणाः सोऽयं दाशरथेः प्रतापमहिमा सर्वः समुज्जृम्भते // 1 // " शार्दूल० इत्यादि / "विजेतव्या लङ्का चरणतरणीयो जलनिधि विपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः / तथाप्येको रामः सकलमवधीद् राक्षसकुलं क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे // 1 // " शिखरिणी अथ 'दूताङ्गदनाटके (पृ० 5-6) मन्दोदरी रावणं प्रत्याह ३"पि( पे )क्ख पि( पे )क्ख अच्छ (च्च )रियं / [गाहा-] विलसि( द )सरोसवाण(न)र-वरूहिणीकलयलस्स कल्लोला / , इह तुह विलासवासम्मि वीर ! विरयंति पडिसद्दा( इं) // 1 // अज्जवि न को वि दोसो, रहुपहुणो देव ! देहि वियदेहिं (वैदेही)। मन्दोदरीइ(अ) मंडनमखण्डभावं समब्भेउ दु) // 2 // सोपहासं रावण आह "एकं तावदकृत्यमेतदतुलं यन्मैथिलीयं हृता द्वैतीयीकमिदं विमृश्य यदसौ तस्मै तदा नार्पिता / तार्तीयीकमदश्च( मिदं तु) यत् कपिभटैर्बद्धेऽपि( द्य) वारांनिधौ सन्धानं दशकन्धरो रचयति क्ष्मानन्दिनीमर्पयन् // 1 // " शार्दूल० 1. समस्ति पद्ममिदं सुभाषितरत्नभाण्डागारे (पृ० 124), परन्तु तृतीयं चरणं विहाय सर्वत्र पाठभेदाः, यतः प्रथम-द्वितीय-तुरीयपादा अनुक्रमेण यथा ये मज्जन्ति निमज्जयन्ति च परास्ते प्रस्तरा दुस्तरे, वाधौं वीर ! तरन्ति वानरभटान् संतारयन्तेऽपि च, श्रीमद्दाशरथेः प्रतापमहिमा सोऽयं समुज्जृम्भते / 2. इदं नाटकं श्रीसुभटकविना प्राणायि / काव्यमालायां 28 तमगुच्छकरूपेण मुद्रितं निर्णयसागराख्ययन्त्रालये। 3-4. छाया-प्रेक्षस्व प्रेक्षस्व आश्चर्यम् / गाथा विलसितसरोषवानरवरूथिनीकलकलस्य कल्लोलाः / इह तव विलासवासे वीर ! विरचयन्ति प्रतिशब्दान् (म्) // अद्यापि न कोऽपि दोषो रघुप्रभोर्देव ! देहि वैदेहीम् / मन्दोदर्या मण्डनमखण्डभावं सम्मभ्येतु //