________________ 112 श्रीजैनधर्मवरस्तोत्रम् कथंभूता: पदार्थाः ? 'प्रोद्यत्प्रबन्धगतयः' प्रोद्यत्सु-उत्कटेषु प्रबन्धेषु-वीररसादिमयेषु गतिःगमनं येषां ते इति / ते के पदार्थाः ? तानाह-सीताहतिः रावणेन सीतायाः हरणं कृतम्, तदनन्तरं रामचन्द्रेण जलधिलङ्घनं कृतम्, ततश्च रावणेन सह आहवः-सङ्ग्रामः कृतः, ततो रणेन रक्षस:रावणस्य वधः कृतः-जातः / रक्षःशब्दो नपुंसकः हसान्तः / ततः प्रतिह ( कृ? )तिःसीता गृहं नीता / ततो लोकापवादात् सीता अटव्यां मोचिता / ततः सीतायाः दिव्यं दत्तम् / तेन सीताया ज्वलनप्रवेशः कृतः / ततो विमलशीलतया सीता पुण्या-पवित्रा जाता / अत्रापि पुण्यशब्दो योज्य इति / सीताशब्दो दन्ततालव्य इति ॥अत्र लेशतः सम्बन्धमाह__'अयोध्या'यां दशरथपुत्रौ राम-लक्ष्मणौ स्तः / 'पद्मन जनकनृपपुत्री जानकी परिणीता / कैकयीराज्ञीवरव्यतिकराता सीताया सह राम-लक्ष्मणौ वनं गतौ / सौमित्रिणा वंशजालान्तरस्थितो विद्यां साधयन् शम्बूकनामा सूर्पणखापुत्रो हतः क्रीडताऽज्ञानतः / तत्रागतया सूर्पणखया दृष्टो रामः / रूपरञ्जितया कामातुरया भोगार्थं याचितः / तेन तिरस्कृता / इतश्च शम्बूकनिमित्तं लक्ष्मणस्य रामेण सह सिंहनादो मया सङ्कटे विधेय इति कृतसङ्केतस्य शम्बूकपक्षीयविद्याधरैः सह युद्धं लग्नं वर्तते स्म / तया चन्द्रणखया गत्वा रावणाग्रे सीतारूपं वर्णितम् / तस्य मनश्चलितम् / यतः"द्विजराजमुखी मृगराजकटि:, तरुराजविराजितजङ्घतटी / यदि सा वनिता हृदये वसिता, क्व तपः क्व जपः क्व समाधिविधिः // 1 // " तोटकम् अथ बालभारते (आदिपर्वणि स० 1, श्लो० 36) अपि- . "अभ्यस्य शश्वज्जघने घनेऽस्याः, सौभाग्यसिन्धोः पुलिने पुलिन्दः / वेध्यं शराणां कुरुते न कस्य, चलं च सूक्ष्मं च मनो मनोभूः ? // 1 // " उप० स पौलस्त्यस्तत्र गत्वा मन्त्रविद्याविज्ञाततत्सिंहनादसङ्केतः स्वयं सिंहनादकरणच्छलेन तदनुकृतगमने रामे मुनिप्रतिबोधितं जातिस्मरणवन्तं सीतासमीपस्थं रक्षार्थं युध्यमानं जटायुनामानं पक्षिणं हत्वा गृहीत्वा सीतां 'लङ्कां' समाययौ / लौकिकास्तु "न भूतपूर्व(ो ) न च केन दृष्टो, हैमः ( हेम्न: ?) कुरङ्गो न कदापि वार्ता / तथापि तृष्णा रघुनन्दस्य, विनाशकाले विपरीतबुद्धिः // 1 // " उपेन्द्रवज्रा इति सौवर्णमृगच्छलं कथयन्ति / ततो ज्ञातव्यतिकरौ राम-लक्ष्मणौ पुण्यवशाद् वानरविद्याधरैः सुग्रीवादिभिर्मिलितैः समुद्र-सेतुनामानौ नृपौ रावणसेवको सागरोपकण्ठं जित्वा बद्ध्वा विद्याबलेन ‘लङ्का'समीपमाजग्मतुः / अत्र लौकिका:-सागरमध्ये पाषाणैबद्धपालिः वानराः पशव एव / एतः 1. रामचन्द्रेण / 2. तमनु-लक्षीकृत्य कृतं गमनं येन स तस्मिन् /