________________ . 111 श्रीभावप्रभसूरिकृतम् तज्जातं हि तथा स्त्रियाऽऽ'हुतनरे पृष्टेऽपहर्षे कथं त्रुट्यद्भाण्डविवेकतो धृतहिया शीलश्रिये तत् स्थितम् // 2 // शार्दूल० ' जन्तूनां विधिवशादन्यथाऽपि जायते / यतः "हत्वा नृपं पतिमवेक्ष्य भुजङ्गदष्टं देशान्तरे विधिवशाद् गणिका च जाता / पुत्रं पति समधिगम्य चितां प्रविष्टा शोचामि गोपगृहिणी कथमद्य तक्रम् ? // 1 // " वसन्त० इति / "कोकिलानां स्वरो रूपं, नारी रूपं पतिव्रतम् / _ विद्या रूपं कुरूपाणां, क्षमा रूपं तपस्विनाम् // 1 // " अनु० अतो महानिशीथे प्रोक्तम् / धन्यः पुण्यः स यः शीलं पालयति / इति षट्त्रिंशत्तमवृत्तार्थः // 36 // सूत्रम् सीताहतिर्जलधिलङ्घनमाहवश्च ___रक्षोवधः प्रतिह (कृ ? )तिर्खलनप्रवेशः / पुण्या यतो विमलशीलतया पदार्थाः . प्रोद्यत्प्रबन्धगतयः कथमन्यथैते ? // 37 // व्याख्या-सीतेति / हे प्रभो ! यतः कारणात् एते पदार्थाः विमलशीलतयानिर्मलशीलत्वेन करणेन पुण्या:-पवित्राः वर्तन्ते, श्रोतृणामपि धर्मप्राप्तये भवन्तीत्यर्थः / अन्यथा शीलं विना एते पदार्थाः कथं पुण्याः ? यतो लौकिकरामायणादीनि शास्त्राणि शृण्वतामपि पापाय भवन्ति / तथा तव हियाऽपहियो मम हीरभूच्छशिग्रहेऽपि द्रुतं न धुता ततः। बहलभ्रामरमेचकतामसं मम प्रिये ! क्व समेष्यति तत् पुनः ? // " काव्यकल्पलतायाः प्रथमे प्रतानेऽपि "ग्वक्रो दी? विसर्गान्तः सानुश्वारो द्विमात्रकः / .. अहादिसंयुते वर्णे, व्यञ्जने चाग्रगे लगुरुः // तीव्रप्रयत्नोच्चारेण, हादावपि लघुर्गुरुः / बर्हभारेषु केशान् वा, सुप्तमीन इव हृदः // 1. आकारिते पुरुषे / 2. तस्मात् कारणात् 3. 'काऽस्मि' इति सुभाषितरत्नभाण्डागारे (पृ० 378) / 4. अत्र पाठप्रपातः प्रतिद्वये /