________________ श्रीभावप्रभसूरिकृतम् 119 न बाहुबलेरिति जितं बाहुबलिना / अथ तयोर्वाग्युद्धम् भरतेन १क्ष्वेडा तेने / ततो बाहुबलिना सिंहारवः कृतः ततः (पद्मा० स० 17, श्लो० 303) "क्रमेण कार्यं भरतेश्वरस्य, क्ष्वेडा खलस्यैव जगाम मैत्री। बलोदधेर्बाहुबलेः पुनः सा, सन्मित्रमैत्रीव परां प्रवृद्धिम् // 1 // " उप० शास्त्रीयवादेऽपि बाहुबलिर्जयं प्राप इति / अथ भुजाभ्यां युध्यमानौ तौ बाहुबलिना व्योम्नि भरत उल्लालितः पतन् कृपया धृत इति प्राप्तजयः सौनन्देय इति / अथ मुष्टियुद्धेऽपि बाहुबलेविजयो जात इति / अथ दण्डेनापि भूमण्डलान्तरा कण्ठभारं भरतो ममज्ज / इति युद्धैः समग्रैरमुना जितोऽहं किं नास्मि चक्रीति वितर्कभाग् / ततो यक्षैश्चक्रं चक्रिहस्तेऽर्पितम् / प्रत्ययो जातः / ततो भरतोऽनुजं जगौ / काव्यानि ( पद्मा० स० 17, श्लो० 340-346) "अद्यापि किञ्चिन्न विनष्टमास्ते, मा चक्रपातात् प्रलयं प्रयाहि / मन्यस्व मन्यस्व ममानुवृत्तिं, दत्से कथं भ्रातृवधात् कलङ्कम् // 1 // उप० इत्युन्नदन्तं प्रसरन्मदं तं, ज्येष्टार्षभिं बाहुबलिर्बभाषे / किं लोहखण्डेन करस्थितेन, विगर्हसे बाहुबलेर्बलौघम् ? // 2 // उप० कृ)क्ष? )तोऽसि युद्धेनिखिलैर्न किञ्चि-च्चक्रस्य से सर्पति यस्य दर्पः / तद् ब्रूहि दण्डेन निहत्य चूर्णी-करोमि नालीदलवद् बलेन // 3 // उप० प्रोल्लासयाम्भयभ्रपथेऽथ वात-क्रान्तार्कतूलावलिलीलया किम् ? / घनेन लोहाधिकरण्युरोऽन्तः, किं वज्रवत् क्षोणितले क्षिपामि ? // 4 // उप० अरान् सहस्रं विशरारुभावं नयेऽस्य किं वा लवशो विदार्य / करोम्यधिष्ठायकतां प्रपन्नान्, यक्षान् विलक्षान् कणशो विशीर्य // 5 // उप० अन्यानिव क्षोणिधवाननेन, मामप्यमुं भापयसे किमु त्वम् ? / लब्धं त्वया स्वस्य बलप्रमाणं, चक्रस्य सम्प्रत्यवलोकय द्राक् // 6 // उप० तेनेति चक्रोदितगर्हणाभि- लस्थलस्थभृकुटीकरालः / चक्री क्रुधा बाहुबलेर्वधार्थं, सौजसा प्रेर्य मुमोच चक्रम् // 7 // इन्द्रवज्रा तत् चक्रं गत्वा बाहुबलिनः प्रदक्षिणां दत्त्वा पुनर्भरतहस्ते ययौ / स्वगोत्रजान् न हन्ति चक्रम् / 'बहली पतिः प्राह स्म-हे भरत ! त्वया सन्धा भग्ना / यतो दण्डयुद्धं मुक्त्वा चक्रं मुक्तम् / न्यायभ्रष्टस्त्वम् / निर्मले कुले कलङ्को दत्तः / काव्यम् "एकेन्द्रियस्यापि तवास्य चक्रिन् !, चक्रस्य मद्रक्षणदक्षिणस्य / - योऽभूद् विवेकः स न ते कृतोरु-लोभक्रुधो मद्वधबद्धबुद्धेः // 1 // " इन्द्र० 1. सिंहनादः / 2. सुनन्दाया अपत्यं सौनन्देयः-बाहुबलिः / 3. 'इत्थं नदन्तं' इति क-पाठः / 4. 'श्राक्' इति ख-पाठः / 5. पद्मा० स० 17, 358 तमे पद्ये 'तवापि' इति पाठः /