Book Title: Jaindharmvarstotra Godhulikarth Sabhachamatkareti Krutitritayam
Author(s): Hiralal R Kapadia
Publisher: Bhadrankar Prakashan
View full book text ________________ श्रीभावप्रभसूरिकृतम् 123 कम्पेन शीघ्रमिन्द्रस्तत्राययौ / तेनोक्तः-स्वामिन् ! द्रव्यलिङ्गं गृहाण / तदा केवलश्रीगृहे भरतः केशलोचं चकार / रजोहरणमुख्योपकरणं व्रतलक्षणं समीपदेवतादत्तं जग्राह / यत: "आत्तदीक्षो नमश्चक्रे, शक्रेण भरतस्ततः / सम्प्राप्तकेवलोऽपि स्या-न्न नमस्यो ह्यदीक्षितः // 1 // " अनु० दशसहस्रमितैर्भूपैस्तमनु दीक्षा गृहीता / इन्द्रेण भरतपुत्र आदित्ययशा राज्येऽलङ्कृतः / अथ भरतो यतिदीक्षाकालात् पूर्वलक्षं भुवि भव्यान् प्रबोधयन् परिवारयुतो विजहार / 'अष्टापदे' गत्वा चतुर्विधाहारत्यागेनैकमासान्ते भरतकेवली सिद्धि ययौ, सिद्धानन्तचतुष्टय इति / कौमारे सप्ततिः पूर्वलक्षा अतिवाहिताः भरतेन / वृषभध्वजे राज्यं कुर्वति सति मण्डलिकत्वे भरतो वर्षाणामेकं सहस्रमत्यवाहयत् / ब्रह्मस्थे प्रभुर्यथा वर्षेकसहस्रोनानि षट्पूर्वलक्षाणि चक्रित्वेऽयं व्यतिक्रामति स्म / जातकेवलः पूर्वलक्षमेकं विजह्वे , इत्यायुश्चतुरशीति-पूर्वलक्षाः प्रपाल्य सः / सिद्धि ययौ सुरास्तस्य, निर्वाणमहिमां व्यधुः // 1 // अनु० इति भरतचक्रिसम्बन्धः पूर्णः / इति द्वाचत्वारिंशत्तमवृत्तार्थः // 42 // अथ स्तवनसमाप्तिमङ्गलमाचरन् स्तुतिकारकाणां फलं दर्शयतिसूत्रम् त्रैलोक्यरूपविषये सुपरीक्षणेऽत्र . बिम्बं त्वदीयमतुलं नयनामृताभम् / कर्मापहारि हृदयाम्बुरुहे निधाय ये संस्तवं तव विभो ! रचयन्ति भव्याः // 43 // व्याख्या-त्रैलोक्य इति राका इति युग्मम् / हे विभो ! हे जिन ! ये पुरुषाः तव संस्तवनं रचयन्ति-कुर्वन्ति / किं कृत्वा ? त्वदीयं-तव इदं बिम्ब-प्रतिबिम्बं स्वरूपं वा हृदयाम्बुरुहे-हृत्कमले निधाय-धृत्वा / कथंभूतं त्वदीयं बिम्बम् ? अत्र त्रैलोक्यरूपविषयेत्रिभुवनस्वरूपवस्तुनि परीक्षणे-परीक्षाकरणे अतुलं-उपमानरहितम् / पुनः किंविशिष्टं बिम्बम् ? नयनामृताभं-लोचनेषु सुधातुल्यम् / पुनः किं बिम्बम् ? कर्मापहारिअष्टकर्मनि शकम् / (इति) त्रिचत्वारिंशत्तमवृत्तार्थः // 43 //
Loading... Page Navigation 1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194