________________ श्रीभावप्रभसूरिकृतम् 123 कम्पेन शीघ्रमिन्द्रस्तत्राययौ / तेनोक्तः-स्वामिन् ! द्रव्यलिङ्गं गृहाण / तदा केवलश्रीगृहे भरतः केशलोचं चकार / रजोहरणमुख्योपकरणं व्रतलक्षणं समीपदेवतादत्तं जग्राह / यत: "आत्तदीक्षो नमश्चक्रे, शक्रेण भरतस्ततः / सम्प्राप्तकेवलोऽपि स्या-न्न नमस्यो ह्यदीक्षितः // 1 // " अनु० दशसहस्रमितैर्भूपैस्तमनु दीक्षा गृहीता / इन्द्रेण भरतपुत्र आदित्ययशा राज्येऽलङ्कृतः / अथ भरतो यतिदीक्षाकालात् पूर्वलक्षं भुवि भव्यान् प्रबोधयन् परिवारयुतो विजहार / 'अष्टापदे' गत्वा चतुर्विधाहारत्यागेनैकमासान्ते भरतकेवली सिद्धि ययौ, सिद्धानन्तचतुष्टय इति / कौमारे सप्ततिः पूर्वलक्षा अतिवाहिताः भरतेन / वृषभध्वजे राज्यं कुर्वति सति मण्डलिकत्वे भरतो वर्षाणामेकं सहस्रमत्यवाहयत् / ब्रह्मस्थे प्रभुर्यथा वर्षेकसहस्रोनानि षट्पूर्वलक्षाणि चक्रित्वेऽयं व्यतिक्रामति स्म / जातकेवलः पूर्वलक्षमेकं विजह्वे , इत्यायुश्चतुरशीति-पूर्वलक्षाः प्रपाल्य सः / सिद्धि ययौ सुरास्तस्य, निर्वाणमहिमां व्यधुः // 1 // अनु० इति भरतचक्रिसम्बन्धः पूर्णः / इति द्वाचत्वारिंशत्तमवृत्तार्थः // 42 // अथ स्तवनसमाप्तिमङ्गलमाचरन् स्तुतिकारकाणां फलं दर्शयतिसूत्रम् त्रैलोक्यरूपविषये सुपरीक्षणेऽत्र . बिम्बं त्वदीयमतुलं नयनामृताभम् / कर्मापहारि हृदयाम्बुरुहे निधाय ये संस्तवं तव विभो ! रचयन्ति भव्याः // 43 // व्याख्या-त्रैलोक्य इति राका इति युग्मम् / हे विभो ! हे जिन ! ये पुरुषाः तव संस्तवनं रचयन्ति-कुर्वन्ति / किं कृत्वा ? त्वदीयं-तव इदं बिम्ब-प्रतिबिम्बं स्वरूपं वा हृदयाम्बुरुहे-हृत्कमले निधाय-धृत्वा / कथंभूतं त्वदीयं बिम्बम् ? अत्र त्रैलोक्यरूपविषयेत्रिभुवनस्वरूपवस्तुनि परीक्षणे-परीक्षाकरणे अतुलं-उपमानरहितम् / पुनः किंविशिष्टं बिम्बम् ? नयनामृताभं-लोचनेषु सुधातुल्यम् / पुनः किं बिम्बम् ? कर्मापहारिअष्टकर्मनि शकम् / (इति) त्रिचत्वारिंशत्तमवृत्तार्थः // 43 //