________________ 122 श्रीजैनधर्मवरस्तोत्रम् सूत्रम् शुद्धात्मदर्शसदनं भरतस्य जज्ञे शुद्धात्मदर्शनमहो शुभभावयोगात् / इत्युक्तिलेशकथकस्य ममैधि नाथ ! स्वामी त्वमेव भुवनेऽत्र भवान्तरेऽपि // 42 // व्याख्या-शुद्धेति / शुद्धात्मदर्शसदनं-निर्मलदर्पणगृहं कर्तृपदम् / अहो इति आश्चर्ये / भरतस्य चक्रिणः शुद्धात्मदर्शनं जज्ञे-जातम् / शुद्धस्य-निर्मलस्य आत्मनो दर्शनं-विलोकनं यस्मिन् तत्, विगलितघनघातित्वेन केवलज्ञानं जातिमित्यर्थः / कस्मात् ? शुभभावयोगात् / अथ सम्पूर्णाधिकारत्वात् स्तवनकारः स्वगतं कथयति / हे नाथ ! अत्र भुवने भवान्तरेऽपि मम त्वं स्वामी एधि-भूयाः / अस्तेः एधि रूपम् / कथंभूतस्य मे ? इति-अमुना प्रकारेण उक्तिलेशकथकस्य जैनधर्मवाक्यलेशप्रभाषकस्येत्यर्थः / अत्र सम्बन्धः श्रीऋषभमुक्तिगमनानन्तरं श्रीभरतेन ‘सिंहनिषद्या'ख्यं प्रासादं मणिमयमेकयोजनायामं त्रिगव्यूतसमुच्छ्रयं चतुरि षोडशरत्ननिर्मितप्रतिद्वारतोरणं द्वारेष मण्डपप्रेक्षामण्डपाद्यखिलाङ्कितं वर्धकिरत्नेन निर्मापितम् / चतुर्विंशत्यर्हन्मानवर्णादिसहितप्रतिमायुतमिति / पुनः चैत्याद् बहिरेकोनशतं भ्रातॄणां स्तूपान् कारयामास चक्री देवैः प्रतिबोधितः / यतः बालभारते (प० 11, स० 1, श्लो० 25-26) "१मृतयो हि भवानुचारिका, बत जन्तुं भवनित्यबालकम् / गमयत्यमुमङ्कमङ्कतः, कुरुते तन्मयतां मुधा जनः // 1 // अजनि स्वजनो न कस्य को, न भविष्यत्यथ वा भवभ्रमे / जगदेककुटुम्बिनो जनाः, क्व विपन्ने जनयन्तु तच्छुचम् // 2 // " यदुक्तं रघुवंशे (स० 8, श्लो० 87) "मरणं प्रकृतिः शरीरिणां, विकृतिर्जीवितमुच्यते बुधैः / क्षणमप्यवतिष्ठते श्वसन्, यदि जन्तुर्न तु लाभवानसौ // 1 // " मुक्तिं गतः प्रभोः शोकं विहाय चक्री भोगान् बुभुजे / ततः स्वामिनिर्वाणवासरात् पञ्चपूर्वलक्षेषु गतेषु रत्नदर्पणधाम्नि स्थितश्चक्री तत्र सर्वाङ्गप्रतिबिम्बितः, केवलिनो ज्ञाने यथोर्ध्वपुरुषाकृतिलोकः / तदा मुद्रिका करात् पतिता / ततो भूपः स्वरूपं दर्पणभित्तौ निभालयन् पतितमुद्रां निःश्रीकां तामङ्गली ददर्श / अहो सधवानां मध्ये विधवामिव गतशोभां विमृश्य सर्वानलङ्कारान् मुमोच चक्री / ततो निःश्रीकं स्वशरीरं समीक्ष्य सर्वमसारतां भावयन् अपूर्वकरणक्रमात् प्राप्तक्षपकश्रेणिः केवलज्ञानं प्राप सः / आसन 1. मरणानि / 2. संसारदासिकाः /