________________ 121 श्रीभावप्रभसूरिकृतम् अथ दानादित्रयाणामुपसंहारेण भरतः स्वगतमाह . सूत्रम् यत् साधवे वितरणं न कृतं च शीलं व्याघ्रादिभीतिभिदुरं न तपोऽपि तप्तम् / यत् क्रूरकर्मभिदतो जिन ! तैर्विभावै र्वध्योऽस्मि चेद् भुवनपावन ! हा हतोऽस्मि // 40 // व्याख्या-यदिति / यत्-यतः मया-भरतेन साधवे वितरणं न कृतं, तस्मिन् काले राजपिण्डस्य साधूनामग्राह्यत्वात् / च-पुनः मया शीलं तथाविधं न कृतं-न पालितम् / अपि-पुनः मया तपो न तप्तम् / कथंभूतं तपः ? व्याघ्रादिभीतिभिदुरं-व्याघ्र-व्यालज्वलनादिभयनाशनशीलम् / पुनः यत् मया क्रूरकर्मभित्-क्रूरकर्मभेदकं अनुष्ठानंनिश्चलतया सामायिकादिव्रतं न कृतम् / अतो हेतोः हे जिन ! अहं तैः-प्रसिद्धैः विभावैःप्रमाद कषायादिभिः वध्योऽस्मि-मरणीयोऽस्मि चेत् / हे भुवनपावन ! हा इति खेदे / अहं हतोऽस्मि / तेन पूर्वं मा हन मा हन इति ब्रुवन्तो द्वारि स्थिताः शिक्षिताः श्रावकाः सन्ति स्म / इति चत्वारिंशत्तमवृत्तार्थः // 40 // अथ भावमाश्रित्याहसूत्रम् रम्येऽत्र दर्पणगृहे वृषभाङ्गजन्मा स्वीयोमिकापतनतः परपुद्गलेन / शोभा विभाव्य वदतीत्यव देव ! रागात् सीदन्तमद्य भयदव्यसनाम्बुराशेः // 41 // व्याख्या-रम्ये इति / रम्ये-मनोहरे अत्र-अस्मिन् दर्पणगृहे वृषभाङ्गजन्मा-भरतचक्री इति वदति / किं कृत्वा ? परपुद्गलेन शोभां विभाव्य / कस्मात् ? स्वीयोमिकापतनतःनिजमुद्रिकापतनात् / इति किम् ? हे देव ! हे जिन ! अद्य-साम्प्रतं त्वं मां अव-पाहि / कथंभूतं माम् ? सीदन्तं-विषीदन्तम् / कस्मात् ? रागात्-संसाराभिष्वङ्गात् / कथंभूताद् रागात् ? 'भयदव्यसनाम्बुराशेः' भीतिप्रदकष्टानां समुद्रस्तस्मात् / “व्यसनं निष्फलोद्यमे // दैवानिष्ठफले श(स)क्तौ स्त्रीपान-मृगयादिषु / पापे विपत्तावशुभे" इति हैमानेकार्थः (का० 3, श्लो० 1007-1008) / इत्येकचत्वारिंशत्तमवृत्तार्थः // 41 //